पूर्णयोग (pUrNayoga)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Shabdartha Kaustubha
Kannadaपूर्णयोग
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಒಂದು ವಿಧ ಬಾಹು ಯುದ್ಧ
वाचस्पत्यम्
Sanskritपूर्णयोग बाहुयुद्धभेदे तत्प्रकारः भा० स० २२ अ० उक्तो यथा“ततस्तौ नरशार्दूलौ बाहुशस्त्रौ समीयतुः । वीरौपरमसहृष्टावन्योऽन्यजयकाङ्क्षिणौ । करग्रहणपूर्वं तुकृत्वा पादाभिवन्दनम् । कक्षैः कक्षां विधुन्वानावास्फोटंतत्र चक्रतुः । स्कन्घे दोर्भ्यां समाहत्य निहत्य चमुहुर्मुहुः । अङ्गमङ्गैः समाश्लिष्य पुनरास्फालनं विभो! ।चित्रहस्तादिकं कृत्वा कक्षाबन्धं च चक्रतुः । गल-गण्डाभिघातेन सस्फुलिङ्गेन चाशनिम् । बाहुपाशा-दिकं कृत्वा पादाहतसिरावुभौ । उरोहस्तं ततश्चक्रौपूर्णकुम्भौ प्रयुज्य तु । करसंपीडनं कृत्वा गर्जन्तौवारणाविव । नर्दन्तौ मेघसङ्काशौ बाहुप्रहरणावुभौ ।तलेनाहन्यमानौ तु अन्योऽन्यं कृतवीक्षणौ । सिंहा-विव सुसंक्रुद्धावाकृष्याकृष्यायुध्यतम् । अङ्गेनाङ्गंसमापीड्य बाहुभ्यामुभयोरपि । आवृत्य बाहुभिश्चापिउदरं च प्रचक्रतुः । उभौ कट्यां सुपार्श्वे तु तक्षवन्तौच शिक्षितौ । अधोहस्तं स्वकण्ठे तूरस्युरसि चा-क्षिपत् । सर्वातिक्रान्तमर्य्यादं पृष्ठभङ्गं च चक्रतुः । सपूर्णमूर्द्धं बाहुभ्यां पूर्णकुम्भं प्रचक्रतुः । तृणपीडंयथाकामं पूर्णयोगं समुष्टिकम् । एवमादीनि युद्धानिप्रकुर्वन्तौ परस्परम्” मू० “कक्षैर्दोर्मूलैः कक्षां प्रकोष्ठगतांरज्जुं धुन्वानौ यत्र यत्र कक्षे आस्फोटं चक्रतुः बाहु-मूलास्फालनेनाङ्गदबन्धरज्जुशेषं कम्पयन्तावित्यर्थः । चि-त्रहस्तादिकं हस्तस्यातिवेगेनाकुञ्चनप्रसारणोपर्य्यधश्चालनमुष्टीकरणानि चित्रहस्ताः । आदिपदात् पादस्याप्या-कुञ्चनादि । कक्षाबन्धं परस्परकक्षायां हस्तौ कृत्वाबन्धनम् गले गण्डेन भालदेशेनाभिधातस्तेन पाषाण-सदृशाङ्गत्वात्तयोरभिधातेन विस्फुलिङ्गोत्पत्त्याऽशनिंवज्रमिव ससृजतुरित्यर्थः । बाहुपाशादिकं चरणपाशआदिशब्दार्थः । पादाभ्यामाहताः सिराः स्नायवो याभ्या-न्तौ दृढप्रहारेण नाडीपर्य्यन्तमपि वेदनावन्तावित्यर्थः ।उरोहस्तमुरसि चपेटाप्रहारं पूर्णकुम्भौ ग्रथिताङ्गलि-भ्यां हस्ताभ्यां परशिरसः पीडनं पूर्णकुम्भः द्वित्वं पर-स्परं द्वावपि चक्रतुरिति वक्तुम् । तलेन चपेटया, आ-वृत्य जत्रुदेशे पृष्ठं कृत्वा बाहुभिर्बहुभ्यां द्वावपि मिथउदरमादाय प्रचक्रतुः प्रचिक्षिपतुः कॄ विक्षेपेऽस्य रूपम् ।एवं कट्यां सुपार्श्वे च प्रचक्रतुः । तक्षवन्तौ तक्षस्तनू-करणं गात्रसङ्कोच इत्यर्थः तद्वन्तौ । अधोहस्तमुदरस्या-धस्ताद्धस्तं कृत्वा हस्ताभ्यामुदरमावेष्ट्य स्वकण्ठे खोरसिच कण्ठोरःसमीपे आनीयाक्षिपदास्फालितवान् । पृ-ष्ठस्य भूमम्बन्धेन जातं भङ्गं पराभवं बाहुभ्यामुदरा-दीनि पीडने सम्पूर्णमूर्द्ध्वम्” नीलकण्टः ।
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
