| YouTube Channel

पूर्णप्रज्ञ (pUrNaprajJa)

 
Monier Williams Cologne
English
पूर्ण—प्रज्ञ
m.
N.
of Madhva (also called Madhya-mandira), and of his adherents,
Sarvad.
(cf.
IW.
118
119)
Apte Hindi
Hindi
पूर्णप्रज्ञः
पुं*
पूर्ण-प्रज्ञः -
जिसका ज्ञान पूर्णतः विकसित हो चुका हो
पूर्णप्रज्ञः
पुं*
पूर्ण-प्रज्ञः -
द्वैत संप्रदाय के प्रवर्तक माधव का विशेषण
Shabdartha Kaustubha
Kannada
पूर्णप्रज्ञ
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ದ್ವೈತಮತ ಪ್ರವರ್ತಕರಾದ ಶ್ರೀಮನ್ಮಧ್ವಾಚಾರ್ಯರು /ಆನಂದ ತೀರ್ಥರು
प्रयोगाः - > "प्रथमस्तु हनूमान् स्यात् द्वितीयो भीम एव पूर्णप्रज्ञस्तृतीयश्च भगवत्कार्यसाधकः ॥"
वाचस्पत्यम्
Sanskrit
पूर्णप्रज्ञ
त्रि०
पूर्णा प्रज्ञाऽस्य सम्पूर्णबुद्धौ वायोस्तृतीया-वतारे मध्यापरनामके आनन्दतीर्थे वैष्णवमतभेदप्रस्था-पकाचार्यभेदे तन्मतञ्च सर्च० सं० न्यरूपि यथा“तदेतद्रामानुजमतं जीवाणुत्वदासत्ववेदापौरुषेयत्वसि-द्धार्थबोधकत्वस्वतःप्रमाणत्वप्रमाणत्रित्वपाञ्चरात्रोपजीव्य-त्वप्रपञ्चभेदसत्यत्वादिसाम्येऽपि परस्परविरुद्धभेदादिपक्ष-त्रथकक्षीकारेणा क्षपणकपक्षनिक्षिप्तमित्युपेक्षमाणःस आत्मा तत्त्वमसीत्यादेर्वेदान्तवाक्यजातस्य भङ्ग्यन्तरे-णार्थान्तरपरत्वमुपपाद्य ब्रह्ममीमांसाविवरणव्याजेना०नन्दतीर्थः पस्थानान्तरमास्थित तन्मते हि द्विविधंतत्त्वं स्वतन्त्रास्वतन्त्रभेदात् तदुक्तं तत्त्वविवेके “स्व-तन्त्रमस्वतन्त्रञ्च द्विविधं तत्त्वमिष्यते स्वतन्त्रो भगवान्विष्णुर्निर्दोषोऽशेषसद्गुणः” इति तनु सजातीयविजा-तीयस्वगतनामात्वशून्यं ब्रह्म तत्त्वमिति प्रतिपादकेषुवेदान्तेषु जागरूकेषु कयमशेषसद्गुणत्वं तस्य कथ्यतइति चेन्मैवं भेदप्रमापकनहुप्रमाणविरोधेन तेषां तत्रप्रामाण्यानुपपत्तेः तथा हि प्रत्यक्षं तावदिदमस्माद्भिन्न-मिति नीलपीतादेर्भेदमध्यति अथा मन्येथाः किंप्रत्यक्षं भेदमेवावगाहते किं सा धर्मिप्रतियोगिघटितम् ।न प्रथमः धर्मिप्रतियोगिप्रतिपत्तिमन्तरेण तत्सापेक्षस्यभेदस्याशक्याध्यवसायत्वात् द्वितीयोऽपि धर्मिप्रतियोगि-महणपुरासरं भेदग्रहणमथ वा युगपत् तत्सर्वग्रहणम् ।न पूर्वः बुद्धेर्विरम्य व्यापाराभावात् अन्योन्याश्रय-प्रसङ्गाच्च नापि चरमः कार्य्याकारणबुद्ध्या यौगपद्या-भावात् धर्मिप्रतीतिहि भेदप्रत्ययस्य कारणं सन्नि-हितेऽपि धर्मिणि व्यवहितप्रतियोगिज्ञानमन्तरेण मेदस्या-ज्ञातत्वेनान्धयव्यतिरेकाभ्यां कार्य्यकारणमावावगगात् ।तस्मान्न भेदप्रत्यक्षं सुप्रसरमिति चेत् किं वस्तुस्वरूप-भेदवादिनं प्रति इमानि दूषणान्युद्घुष्यन्ते किं वा धर्मि-भेदवादिनं प्रति प्रथमे चोरापराधान्माण्डव्यनि-ग्रहन्यायापातः भवदभिधीयमानदूषणानां तदविषय-त्वात् ननु वस्तुस्वरूपस्यैव भेदत्वे प्रतियोगिसापेक्षत्वं नघटते घटादितत्तत्प्रतियोगिसापेक्ष एव सर्वत्र भेदः प्रयतइति चेन्न प्रथमं सर्वतो विलक्षणतया वस्तुस्वरूपे ज्ञाय-माने प्रतियोग्यपेक्षया विशिष्टव्यवहारोपपत्तेः तथाहि परिमाणघटितं वस्तुस्वरूपं प्रथममवगम्यते पश्चात्प्रतियोगिविशेषापेक्षथा ह्रस्वं दीर्घमिति तदेव विशिष्यव्यवहारभाजनं भवति तदुक्तं विष्णुतत्त्वनिर्णये “नच विशेषणविशेष्यतया भेदसिद्धिः विशेषणविशेष्यभावश्चभेदापेक्षः, धर्मिप्रतियोग्यपेक्षया भेदसिद्धिः भेदापेक्षञ्चधर्मिप्रतियोगित्वमित्यन्योन्याश्रथतया भेदस्यासिद्धेः पदार्थ-स्वरूपत्वाद्भेदस्येत्यादिना” अत एव गवार्थिनो गवयदर्श-नान्न प्रवर्त्तन्ते गोशब्दञ्च स्मरन्ति नीरक्षीरादौस्वरूपे गृह्यमाणे भेदप्रतिभासोऽपि स्यादितिं भणनीयंसमानाभिहारादिप्रतिबन्धकबलाद्भेदभानभ्यवहाराभावोप-पत्तेः तदुक्तम् “अतिदूरात् सामीप्यादिन्द्रियघातान्मनोऽनव-स्थानात् सौक्ष्म्याद्व्यवधानादभिभवात् समानाभि-हाराच्चेति” अतिदूराद् गिरिशिखरवर्त्तितर्वादौ, अतिसामीप्याल्लोचनाञ्जनादौ, इन्द्रियघाताद्विद्युदादौ, मनोऽनवस्थानात् कामाद्यपप्लुतमनस्कस्य स्फीतालोक-वर्त्तिनि घष्टादौ, सौक्ष्म्यात् परमाण्वादौ, व्यवधानात्कुड्याद्यन्तर्हिते, अभिभवात् दिवाप्रदीपप्रभादौ, समाना-भिहारात् नीरक्षीरादौ यथावद्ग्रहणं नास्तीत्यर्थः ।भवतु वा धर्मभेदवादस्तथापि कश्चिद्दोषः धर्मिप्रतियो-गिग्रहणे सति धर्मभेदभानसम्भवात् धर्मभेदवादेतस्य तस्य भेदस्य भेदान्तरभेद्यत्वेनानवस्था दुरवस्थास्यादित्यास्थेयं भेदान्तरप्रसक्तौ मूलाभावात् भेदभेदिनौभिन्नाविति व्यवहारदर्शनात् चैकभेदबलेनान्यभेदा-नुमानं दृष्टान्तभेदाविघातेनोत्थानदोषाभावात् सोऽयंपिण्याकयाचनाय गतस्य स्वारिकातैलदातृत्वाभ्युपगमइव दृष्टान्तभेदविमर्दे त्वनुत्थानमेव हि वरविघातायकन्योद्वाहः तस्मान्मूलक्षयाभावादनवस्था दोषाय अ०नुमानेनापि भेदोऽवसीयते परमेश्वरो जीवाद्भिन्नः तं प्रतिसव्यत्वात् यो यं प्रति सेव्यः तस्माद्भिन्नः यथा भृत्या-द्राजा हि सुखं मे स्यात् दुःखं मे मनागपि इतिपुरुषार्थमर्थयमानाः पुरुषाः स्वपतिपदं कामयमानाःसत्कारभाजो भवेयुः प्रत्युत सवानर्थभाजनं भवन्ति ।यः स्वस्यात्मनो हीनत्वं परस्य गुणोत्कर्षञ्च कथयतिस स्तुत्यः प्रीतः स्तावकस्य तस्याभीष्टं प्रयच्छति तदाह“घातयन्ति हि राजानो राजाहमिति वादिनम् दद-त्यखिलमिष्टञ्च स्वगणोत्कर्षवादिनामिति” एवञ्च परमेश्व-राभेदवृष्णया विष्णोर्गुणोत्कर्षस्य मृगवष्णिकासमत्वा-भिधानं विपुलकदलफललिप्सया जिह्वाच्छेदमनु-हरति एतादृशविष्णुविद्वेषणादन्धतमसप्रवेशप्रसङ्गात् ।तदेतत् प्रतिपादितं मध्यमन्दिरेण महाभारततात्पर्य्य-निर्णये “अनादिद्वेषिभिर्दैत्यैर्विष्णोर्द्वेषो विवर्द्धितः ।तमस्यन्धे पातयति दैत्यानन्धे विनिश्चयादिति” सा चसेवा अङ्कननामकरणभजनभेदात्त्रिविधा तत्राङ्कननारायणायुधादीनां, तद्रूपस्मरणार्थमपेक्षितार्थसिद्ध्यर्थञ्च ।तथा शाकल्यसंहितापरिशिष्टम् “चक्रं विभर्त्ति पुरु-षोऽभितप्तं बलं दवानाममृतस्य विष्णोः यातिनाकं दुरितं विधूय विशन्ति यद्यतयो वीतरागाः ।देवासो येन विधृतेन बाहुना सुदर्शनेन प्रयातास्तमायन् ।येनाङ्किता मनवो लोकसृष्टिं वितन्वन्ति ब्राह्मणास्तद्व-हन्ति तद्विष्णोः परमं पदं येन गच्छन्ति लाञ्छिताः ।उरुक्रमस्य चिह्नैरङ्किता लोके सुभगा भवाम” इति“अतप्ततनुर्न तदानो अश्नुते श्रितास इद्वहन्तस्तत् समास-तेति” तैत्तिरीयकोपनिषच्च स्थानविशेषश्चाग्नेयपुराणेदर्शितः “दक्षिणे तु करे विप्रो बिभृयाद्वै सुदर्शनम् ।मव्येन शङ्खं विभृयादिति ब्रह्मविदो विदुरिति” अन्यत्रचक्रधारणे मन्त्रविशेपश्च दर्शितः “सुदर्शन! महाज्वाल!कोटिसूर्य्यसमप्रभ! अज्ञानान्धस्य मे नित्यं विष्णोर्मार्गप्रदर्शय त्वं पुरा सागरोत्पन्नो विष्णुना विधृतः करे ।नमितः सर्वदेवैश्च पञ्चजन्य! नमोऽस्तु ते इति” नामकरणंपुत्रादीनां केशवादिनाम्ना व्यवहारः सर्वदा तन्नामानु-स्मरणार्थम् भजनं दशविधं वाचा सत्यं हितंप्रियं स्वाध्यायः, कायेन दानं परित्राणं परिरक्षणं, मनसा दया स्पृहा श्रद्धा चेति अत्रैकैकं निष्पाद्यनारायणे समर्पणं मजनम् तदुक्तम् “अङ्कनं नाम-करणं भजनं दशधा तदिति” एवं ज्ञेयत्वादिनापिभेदोऽनुमातव्यः तथा श्रुत्यापि भेदोऽवगन्तव्यः सत्य-मेतमनुविश्वे मदन्ति रातिं देवस्य गृणतोमघोमः सत्यासोअस्य महिमा गृणे शवोयज्ञेष विप्रराज्ये सत्य आत्मासत्यो जीवः सत्यं भिदा सत्यं भिदा मयि वारुण्योमयि वारुण्यः” इति मोक्षानन्दभेदप्रतिपादकश्रुतिभ्यः ।“इदं ज्ञानमुपाश्रित्य मम सामर्थ्यमागताः सर्गेपिनीपजायन्ते प्रलये व्यथन्ति च” “जगद्व्यापारवर्जम्”“प्रभुकरणासन्नितत्वाच्चेत्यादिभ्यश्च “ब्रह्म वेदब्रह्मैव भवतीति” श्रुतिबलाज्जीवस्य पारमैश्वर्य्यं शक्य-शङ्कं “सम्पूज्य ब्राह्मणं भक्त्या शूद्रोऽपि ब्राह्मणो भवे-दितिवत् वृंहितो भवतीत्यर्थपरत्वात् “ननु प्रपञ्चोयदि वर्त्तेत निवर्त्तेत संशयः मायामात्रमिर्दद्वैतमद्वैतं परमार्थतः” इति वचनात् द्वैतस्य कल्पितत्व-मवगम्यत इति चेत् सत्यं भावमनभिसन्धायाभिधानात्तथा हि यद्ययमुत्पद्येत तर्हि निवर्त्तेत संशयः ।तस्मादनादिरेवायं प्रकृष्टः पञ्चविधो भेदप्रपञ्चः चाय-मविद्यमानः मायामात्रत्वान्मायेति भगवदिच्छोच्यते ।“महामायेत्यविद्येति नियतिर्मोहिनीति प्रकृति-र्वासनेत्येव तवेच्छानन्त! कथ्यते प्रकृष्टकृत्या प्रकृति-र्वासना वासयेद्यतः इत्यक्ते हरिस्तस्य माया-ऽविद्येति संज्ञिता मायेत्युक्ता प्रकृष्टत्वात् प्रकृष्टे हिमयाभिधा विष्णोः प्रज्ञप्तिरेवैका शब्दैरेतैरुदीर्य्यते ।प्रज्ञप्तिरूपो हि हरिः सा स्वानन्दलक्षणा” इत्यादि-वचननिचयप्रामाण्यबलात् सैव प्रज्ञा मानत्राणकर्त्री चयस्य तन्मायामात्रं ततश्च परमेश्वरेण ज्ञातत्वाद्रक्षितत्वाच्चन द्वैतं भ्रान्तिकल्पितं हीश्वरे सर्वस्य भ्रान्तिः सम्भ-वति विशेषादर्शननिवन्धनत्वाद्भ्रान्तेः तर्हि तद्व्यप-देशः कथमित्यत्रोत्तरम् अद्वैतं परमार्थत इति परमार्थतइति परमार्थापेक्षया तेन सर्वस्मादुत्तमस्य विष्णुतत्त्वस्यसमाभ्यधिकशून्यत्वमुक्तं भवति तथा परमा श्रुतिः“जीवेश्वरभिदा चैव जडेश्वरभिदा तथा जीवभेदो मिथ-श्चैव जडजीवभिदा तथा मिथश्च जडभेदो यः प्रपञ्चोभेदपञ्चकः सोऽयं सत्योऽप्यनादिश्च सादिश्चेन्नाशमाप्नु-यात् नाशं प्रयात्येष चासौ भ्रान्तिकल्पितः ।कल्पितश्चेन्निवर्त्तेत चासौ विनिवर्त्तते द्वैतं वि-द्यत इति तस्मादज्ञानिनां मतम् मतं हि ज्ञानिनामतन्मितं त्रातं हि विष्णुना तस्मान्मात्रमिति प्रोक्तं परमोहरिरेव तु” इत्यादि तखाद्विष्णोः सर्वोत्कर्ष एव तात्पर्य्यंसर्वागमानाम् एतदेवाभिसन्धायाभिहितं भगवता ।“द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव क्षरः स-र्वाणि भूतानि कूटस्थाऽक्षर उच्यते उत्तमः पुरुषस्त्वन्यःपरमात्मेत्युदाहृतः यो लोकत्रयमाविश्य विभर्त्तव्ययईश्वरः यस्मात् क्षरमतीतोऽहमक्षरादपि चोत्तमः ।अतोऽस्मि लोके वेदे प्रथितः पुरुषोत्तमः यो मा-मेवमसंमूढो जानाति पुरुषोत्तमम् सर्वविद्भजतिमां सर्वभावेन भारत! इति गुह्यतमं शास्त्रमिद-मुक्तं मयानघ! एतद्बुद्ध्वा बुद्धिमान् स्यात् कृतकृत्यश्चभारत!” महावाराहेऽपि “मुख्यञ्च सर्ववेदानांतात्पर्य्यं श्रीपतौ परे उत्कर्षे तु तदन्यत्र तात्पर्य्यंस्यादवान्तरम्” इति युक्तञ्च विष्णोः सर्वोत्कर्षे महा-तात्पर्य्यम् “मोक्षो हि सर्वपुरुषार्थोत्तमः धर्मार्थकामा-स्त्वनित्याः मोक्ष एव नित्यः तस्मान्नित्यं तदर्थाय यतेतमतिमान्नर” इति भाल्लवेयश्रुतेः मोक्षश्च विष्णुप्रसाद-मन्तरेण लभ्यते “यस्य प्रसादात् परमा यत्स्वरू-प्रात् तस्मात् ससाराम्मुच्यते नावरे सुरानाराधयन्तोऽसौपरमो विचिन्त्यो मुमुक्षुभिः कर्मपाशादमुष्मादिति” नारा-यणश्रुतिः “तखिन् प्रसन्ने किमिहास्त्यलभ्यं सर्वार्थ-कामैरलमल्पकास्ते समाश्रिताद्ब्रह्मतरोरनन्तात् निः-संशयं मुक्तिफलं प्रयातः” इति विष्णुपुराणोक्तेश्च ।“प्रसादश्च गुणोत्कर्षज्ञानादेव नाभेदज्ञानादित्युक्तम् ।न तत्त्वमस्यादितादात्म्यव्याकोपः श्रुतितात्पर्य्यापरि-ज्ञानविजृम्भणात् “आह नित्यपरक्षोक्षन्तु तच्छब्दीह्यविशेषतः त्वंशब्दश्चापरोक्षार्थं तयोरैक्य कथंभवेत् आदित्योयूप इतिवत् सादृश्यार्था तु सा श्रुति-रिति” तथाच परमा श्रुतिः जीवस्य परमैक्यञ्चबुद्धिसारूप्यमेव वा एकस्थाननिवासे वा व्यक्तिस्थान-मपेक्ष्य वा स्वरूपैकता तस्य मुक्तस्यापि विरूपतः ।स्वातन्त्वपूर्णतेऽल्पत्वपारतन्त्र्ये विरूपता” इति अथ वातत्त्वमसोत्यत्र एवात्मा स्वातन्त्र्यादिगुणोपेत्वतात् अत-त्त्वमसि त्वं तन्न भवसि तद्रहितत्वादित्येकत्वमतिशयेननिराकृतम् तदाह “अतत्त्वमिति वा च्छेदस्तेनैक्यंसुनिराकृतम्” इति तस्मात् दृष्टान्तनवकेऽपि “स यथाशकुनिः सूत्रेण बद्ध” इत्यादिना भेद एव दृष्टान्ताभिधानाय अयमभेदोपदेश इति तत्ववादरहस्यम् तथाचमहोपनिषत् “यथा पक्षो सूत्रञ्च नानावृक्षरसा यथा ।यथा नद्यः समुद्राश्च शुद्धोदलवणे यथा चारापहार्यौच यथा यथा पुंविषयावपि तथा जीवेश्वरा भिन्नौसर्वदैव विलक्षणौ तथापि सूक्ष्मरूपत्वान्न जीवात्परसो हरिः भेदेन मन्ददृष्टीनां दृश्यते प्रेरकोऽपिसन् वैलक्षण्यं तयोर्ज्ञात्वा मुच्यते बध्यतेऽन्ययेति ।ब्रह्मा शिवः सुराद्याश्च शरीरक्षरणात् क्षराः लक्ष्मी-रक्षरदेहत्वादक्षरातः परो हरिः स्वातन्त्र्यशक्ति-विज्ञानसुखाद्यैरखिलैर्गुणैः निसीमत्वेन ते सर्वेतद्वशाः सर्वदेवता” इति विष्णुं सर्वगुणैः पूर्णं ज्ञात्वासंसारवर्जितः निर्दुःखानन्दभुग्नित्यं तत्समीपे समोदते मुक्तानाञ्चाश्रयो विष्णुरधिकाधिपतिस्तथा ।तद्वशा एव ते सर्वे सर्वदैव ईश्वर” इति एक-विज्ञानेन सर्वविज्ञानञ्च प्रधानत्वकारणत्वादिना युज्यतेन तु सर्वमिथ्यात्वेन हि सत्यज्ञानेन मिथ्याज्ञानंसम्भवति यथा प्रधानपुरुषाणां ज्ञानाज्ञानाभ्यां ग्रामोज्ञातः अज्ञात इत्येवमादिव्यपदेशो दृष्ट एव यथा चकारणे पितरि ज्ञाते जानात्यस्य पुत्रमिति अन्यथा“यथा सौम्यैकेन मृत्पिण्डेन विज्ञातेन सर्वं मृण्मयं वि-ज्ञातम्” इत्यत्र एकपिण्डशब्दौ वृथा प्रसज्येयातां मृदा वि-ज्ञातयेत्येतावतैव वाक्यस्य पूर्णत्वात् वाचारम्भणंविकारो नामधेयं मृत्तिकेत्येव सत्यसित्येतत् कार्यस्य मि-थ्यात्वमाचष्टे इत्येष्टव्यं वाचारम्भणं विकारो यस्य तत्अविकृतं नित्यं नामधेयं मृत्तिकेत्यादिकमित्येतद्वचनंसत्यमिति तथ्यस्य स्वीकारात् अपरथा नामधेयमेवेतिशब्दयोर्वैयर्थ्यं प्रसज्येत अतो कुत्रापि जगतोमिथ्यात्वसिद्धिः किञ्च प्रपञ्चो मिथ्येत्यत्र मिथ्यात्वंतथ्यमतथ्यं वा प्रथमे सत्याद्वैतभङ्गप्रसङ्गः चरमेप्रपञ्चसत्यत्वापातः नन्वनित्यत्वं नित्यमनित्यं वा उभ-यथाप्यनुपपत्तिरित्याक्षेपवदयमपि नित्यसमजातिभेदःस्यात् तदुक्तं न्यायनिर्वाणवेधसा “नित्यमनित्यभावा-दनित्यनित्यत्वोपपत्तेर्नित्यसमः” इति तार्किकरक्षायाञ्च“धर्मस्य तदतदूपविकल्पानुपपत्तितः धर्मिणस्तद्विशिष्टत्व-भङ्गो नित्यसमो भवेत्” इति अस्याः संज्ञायाः उप-लक्षणत्वमभिप्रेत्याभिहितं प्रबोधतिद्धौ “अन्वर्थित्वात्तूप-रञ्जकधर्मसमेति” तस्मादसदुत्तरमेतदिति चेत् अशि-क्षितत्रासनमेतत् दुष्टत्वमूलानिरूपणात् तद्द्विविधंसाधारणमसाधारणञ्च तत्राद्य स्वव्याघातकं द्वितीयंत्रिविधं युक्ताङ्गहीनत्वमयुक्ताङ्गाधिकत्वमविषयवृत्तित्व-ञ्चेति तत्र साधारणमसम्मावितमेव उक्तस्याक्षेपस्यस्वात्मव्यापनानुपलम्भात् एवमसाधारणमपि घटस्यनास्तितायां नास्तितोक्तावस्तित्ववत् प्रकृतेऽप्युपपत्तेः ।ननु प्रपञ्चस्य मिथ्यात्वमभ्युपेयते नासत्त्वमिति वेतगदेतत् सोऽयं शिरश्छेदेऽपि शतं ददाति विंशति-शञ्चकन्तु प्रयच्छतीति शाकटिकदृत्तान्तमनुहरेत् मिथ्या-त्वासत्त्वयोः पर्थ्यायत्वादित्यलमतिप्रपञ्चेन तत्र “अथातोब्रह्म जिज्ञासेति” प्रथमसूत्रस्यायमर्थः तत्राथशब्दो मङ्ग-लार्णोऽधिकारानन्तर्य्यार्थश्च स्वीक्रियते अतःशब्दीहेत्वर्थः तदुक्तं गारुडे “अथातःशब्दपूर्वाणि सूत्राणिनिखिलान्यपि प्रारभेत नियत्यैव तत्किमत्रं निया-मकम् कश्चार्थस्तु तयोर्विद्वान् कथमुत्तमता तयोः ।एतदाख्याहि मे व्रह्मन् यथा ज्ञास्यामि तत्त्वतः ।एवमुक्तो नारदेन व्रह्मा प्रोवाच सत्तमः आनन्तर्य्याधि-कारे लङ्गलार्थे तथेव अथशब्दस्ततःशब्दोहेत्वर्थे समुदीरितः” इति यतो नारायणप्रसादमन्तरेणन मोक्षो लभ्यते प्रसादश्च ज्ञानमन्तरेण अतो ब्रह्मजिज्ञासा कर्त्तव्येति सिद्धम् जिज्ञास्यब्रह्मणो लक्षण-मुक्तं “जन्माद्यस्य यतः” इति सृष्टिस्थित्यादि यतोभवति तद्व्रह्मेति वाक्यार्थः तथाच स्कान्दं वचः“उत्पत्तिस्थितिसंहारा नियतिर्ज्ञानमावृतिः बन्धमोक्षौच पुरुषाद् यस्मात् हरिरेकराड्” इति “यतो वाइमानीत्यादि” श्रुतिभ्यश्च तत्र प्रमाणमप्युक्तं यथा “शा-स्त्रयोनित्वादिति” “नावेदविन्मनुते तं वृहन्तम्” “तन्त्वोप-निषदम्” इत्यादिश्रुतिभ्यः तस्यानुमानिकत्वं निराक्रियतेन चानुमानस्व स्वातन्त्र्येण प्रामाण्यमस्ति तदुक्तंकौर्मे “श्रुतिसाहाय्यरहितमनुमानं कुत्रचित् निश्च-यात् साधयेदर्थं प्रमाणान्तरमेव श्रुगिस्मृतिसहायंयत् प्रमाणान्तरमुत्तमम् प्रमाणपदवीं गच्छेन्नात्रकार्य्या विचारणा” इति शास्रस्वरूपमुक्तं स्कान्दे “ऋग्-यजुः सामाथर्वा भारतं पाञ्चरात्रकम् मूलरामायणञ्चैव शास्त्रमित्यमिधीयते यच्चानुकूलमेतस्य तच्चशास्त्रं प्रकीर्त्तितम् अतोऽन्यो ग्रन्थविस्तारो नैवशास्त्रं कुवर्त्मतः” इति तदनेनानन्यलभ्यः शास्त्रार्थइति न्यायेन भेदस्य प्राप्तत्वेन तत्र तात्पर्यं किन्त्वद्वैतएव वेदवाक्यानां तात्पर्यमिति अद्वैतप्रत्याशा प्रतिक्षिप्ताअनुमानादीश्वरस्य सिद्ध्यभावेन तद्भेदस्यापि ततः सिद्ध्यभावात् तस्मान्न भेदानुवादकत्वमिति तत्परत्वमवगभ्यतेअत एवोक्तम् “सदागमैकविज्ञेयं समतीतक्षराक्षरम् ।नारायण सदा वन्दे निर्दोषाशेषसद्गुणम्” इति शा-स्त्रस्य तत्र प्रामाण्यमुपपादितं “ततु समन्वयादिति” उप-न्तय उपक्रनादितिङ्गम् उक्तं घृहत्संहितायाम “उप-क्रमोपसंहारावभ्यासोऽपूर्वता फलम् अर्थवादोपपत्ती-च लिङ्गं तात्पर्यनिर्णये” इति एवं वेदान्ततात्पर्य-वशात्तदेव ब्रह्म शास्त्रगम्यमित्युक्तं भवति दिड्मार्त्र-मत्र प्रादर्शि शिष्टमानन्दतीर्थभाष्यव्याख्यानादौ द्रष्टव्यंग्रन्थवहुत्वभियोपरम्यत इति एतच्च रहस्यं पूर्णप्रज्ञेनमध्यमन्दिरेण वायोस्तृतीयावतार मन्येन निरूपित-मिति “प्रथमस्तु हनूमान् स्यात् द्वितीयो भीम एवच पूर्णप्रज्ञस्तृतीयश्च भगवत्कार्यसाधकः” इति एत-देवाभिप्रेत्य तत्र तत्र ग्रन्थसमाप्ताविदं पद्यं लिख्यते“यस्य त्रीण्युदितानि वेदवचने दिव्यानि रूपाण्यलं ह्येत-द्दर्शितमित्थमेतदखिलं वेदस्य गर्भे महः वायो राम-वचोनतं प्रथमकं वृक्षो द्वितीयं वपुर्मध्यो यस्तु तृतीय-मेतदमुना ग्रन्घः कृतः केशवे” तस्मात् सर्वस्य शास्त्रस्यविष्णुतत्त्वं सर्वोत्तममित्यत्र तात्पर्यमिति सर्वं निरवद्यम्”