| YouTube Channel

पूर्णपात्रं (pUrNapAtraM)

 
शब्दकल्पद्रुमः
Sanskrit
पूर्णपात्रं,
क्ली,
(पूर्णञ्च तत् पात्रञ्चेति नित्यकर्म्म-धारयः ।) वस्तुपूर्णपात्रम् बर्द्धापकः इतिमेदिनी रे, २८४
उत्सवकाले हर्षात्गृहीतवस्त्रालङ्कारादि तत्पर्य्यायः पूर्णा-लकम् यथा, --“हर्षादुत्सवकाले यदलङ्कारांशुकादिकम् ।आकृष्य गृह्यते पूर्णपात्रं पूर्णालकञ्च तत्
”इति जटाधरः
(यथा, अनर्घराघवे ४५ ।“शाम्भवं चापमारोप्य योऽस्मानानन्दयिष्यति ।पूर्णपात्रमियं तस्मै मैथिली कल्पयिष्यते
”)होमकर्म्मणि ब्रह्मदक्षिणा यथा, गोभिलेनापिदर्शादियागमभिधाय पूर्णपात्रो दक्षिणा ब्रह्मणेदद्यादित्युक्तम् त्रान्तत्वेऽपि पुंस्त्वं छान्दसम् ।तस्य प्रमाणन्तु गृह्यसंग्रहे यज्ञपार्श्वपरिशिष्टयोः ।अष्टमुष्टिर्भवेत् कुञ्चिः कुञ्चयोऽष्टौ पुष्कलम् ।पुष्कलानि चत्वारि पूर्णपात्रं विधीयते
अत्र षट्पञ्चाशदधिकशतद्वयमुष्टिमितं पूर्ण-पात्रम् असम्भवे तु छन्दोगपरिशिष्टम् ।यावता बहुभोक्तुस्तु तुष्टिः पूर्णेन जायते ।नावरार्द्धमतः कुर्य्यात् पूर्णपात्रमिति स्थितिः
”इति संस्कारतत्त्वम्