पूरुष (pUruSa)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
In this section, you'll find information about the dhatus (verbal roots) related to your search. This includes details like dhatu information, forms, and any available commentaries.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Wilson
EnglishApte
Englishपूरुषः [pūruṣḥ], पुरुष q. v.
1.75.
Apte Hindi
Hindiपूरुषः
-
Shabdartha Kaustubha
Kannadaपूरुष
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಮನುಷ್ಯ
पूरुष
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಗಂಡಸು
निष्पत्तिः - > पूरी (आप्यायने) - "कुषन्" बाहु० ।, पुर (अग्रगमने) - "कुषन्" (उ० ४-७४) वा । पृषो० दीर्घः ।
अभिधानचिन्तामणिः
Sanskritमर्त्यः पञ्चजनो भूस्पृक्पुरुषः पूरुषो नरः ।
मनुष्यो मानुषो ना विट् मनुजो मानवः पुमान् ॥ ३३७ ॥
मर्त्य (पुं), पञ्चजन (पुं), भूस्पृश् (पुं), पुरुष (पुं), पूरुष (पुं), नर (पुं), मनुष्य (पुं), मानुष (पुं), नृ (पुं), विष् (पुं), मनुज (पुं), मानव (पुं), पुंस् (पुं)
अभिधानरत्नमाला
Sanskritमनुष्य
मनुष्य, मानुष, मर्त्य, मनुज, मानव, पुंस्, पञ्चजन, नृ, पुरुष, पूरुष, विष्
मनुष्यो मानुषो मर्त्यो मनुजो मानवो नरः ।
पुमान्पञ्चजनो ना च पुरुषः पूरुषश्च विट् ॥ ३३१ ॥
verse 2.1.1.331
page 0039
Mahabharata
EnglishPūrusha = Purusha: XII, 11335 (Prakṛti-Pºau).
Vedic Reference
Englishशब्दकल्पद्रुमः
Sanskritपूरुषः, (पुरति अग्रे गच्छतीति । पुर + “पुरःकुषन् ।” उणा० ४ । ७४ । इति कुषन् । “अन्येषा-मपि दृश्यते ।” ६ । ३ । १३७ । इति निपातनात्दीर्घः ।) पुरुषः । पुमान् । इत्यमरः । २ । ६ । १ ॥
अथ पूरुषलक्षणम् ।“पञ्चदीर्घं चतुर्ह्रस्वं पञ्चसूक्ष्मं षडुन्नतम् ।सप्तरक्तं त्रिगम्भीरं त्रिविशालं प्रशस्यते ॥
बाहुनेत्रद्वयं कुक्षिद्वौ तु नासा तथैव च ।स्तनयोरन्तरञ्चैव पञ्चदीर्घं प्रशस्यते ॥
ग्रीवाथ कर्णौ पृष्ठञ्च ह्रस्वे जङ्घे सुपूजिते ।चत्वारि यस्य ह्रस्वानि पूजां प्राप्नोति नित्यशः ॥
सूक्ष्माण्यङ्गुलिपर्व्वाणि दन्तकेशनखत्वचम् ।पञ्च सूक्ष्माणि येषां हि ते नरा दीर्घजीविनः ॥
नासा नेत्रञ्च दन्ताश्च ललाटञ्च शिरस्तथा ।हृदयञ्चैव विज्ञेयमुन्नतं षट् प्रशस्यते ॥
पाणिपादतलौ रक्तौ नेत्रान्तरनखानि च ।तालुकोऽधरजिह्वा च सप्तरक्तं प्रशस्यते ॥
स्वरो बुद्धिश्च नाभिश्च त्रिगम्भीरमुदाहृतम् ।उरः शिरो ललाटञ्च त्रिविस्तीर्णं प्रशस्यते ॥
* ॥
कटिर्विशाला बहुपुत्त्रभागीविशालहस्तो नरपुङ्गवः स्यात् ।उरो विशालं धनधान्यभागीशिरो विशालं नरपूजितः स्यात् ॥
न श्रीस्त्यजति रक्ताक्षं नार्थः कनकपिङ्गलम् ।दीर्घबाहुं न चैश्वर्य्यं न मांसोपचितांसकम् ॥
कदाचिद्दन्तुरो मूर्खः कदाचिल्लोमशः सुखी ।कदाचित्तुन्दिलो दुःखी कदाचिच्चञ्चला सती ॥
नेत्रस्नेहेन सौभाग्यं दन्तस्नेहेन भोजनम् ।हस्तस्नेहेन चैश्वर्य्यं पादस्नेहेन वाहनम् ॥
अकर्म्मकठिनौ हस्तौ पादावध्वनि कोमलौ ।यस्य पाणितलौ रक्तौ तस्य राज्यं विनिर्द्दिशेत् ॥
दीर्घलिङ्गेन दारिद्र्यं स्थूललिङ्गेन निर्धनः ।कृशलिङ्गेन सौभाग्यं ह्रस्वलिङ्गेन भूपतिः ॥
रेखाभिर्ब्बहुभिर्दुःखं स्वल्पाभिर्धनहीनता ।रक्ताभिः श्रियमाप्नोति कृष्णाभिर्लोकपूजितः ॥
अङ्गुष्ठोदरमध्ये तु यवो यस्य विराजितः ।उन्नतं भोजनं तस्य शतं जीवति मानवः ॥
अङ्कुशं कुलिशं छत्रं यस्य पाणितले भवेत् ।ऐश्वर्य्यञ्च विनिर्द्दिष्टमशीत्यायुर्भवेद्घ्रुवम् ॥
धनुर्यस्य भवेत् पाणौ पङ्कजं वाथ तोरणम् ।तस्यैश्वर्य्यञ्च राज्यञ्च अशीत्यायुर्भवेद्ध्रुवम् ॥
कनिष्ठातर्ज्जनीं यावत् रेखा भवति चाक्षता ।विंशत्यब्दाधिकशतं नरा जीवन्त्यनामयाः ॥
कनिष्ठामध्यमां यावत् रेखा भवति चाक्षता ।शताब्दं वाथ वाशीतिर्नरो जीवेन्न संशयः ॥
कनिष्ठानामिकायाञ्चेत् रेखा भवति चाक्षता ।षष्टिं पञ्चाशदब्दं वा नरा जीवन्त्यसंशयम् ॥
रेखया भिद्यते रेखा स्वल्पायुश्च भवेन्नरः ।कनिष्ठायां स्थिता रेखा संख्या यावतिका स्मृता ।तावती पुरुषाणान्तु नारी भवति निश्चितम् ॥
करमध्यगता रेखा ध्रुवा ऊर्द्ध्वम्भवेद्यदि ।नृपो वा नृपतुल्यो वा चिरं ख्यातोऽर्थवान्भवेत् ॥
मत्स्यपुच्छप्रकीर्णेन विद्यावित्तसमन्वितः ।पितामहस्य वा किञ्चित् धनञ्च लभते ध्रुवम् ॥
मध्यमायां यदि यवा दृश्यन्तेऽत्यन्तशोभनाः ।तदान्यसञ्चितं वित्तं प्राप्नोत्यङ्गुष्ठके यवे ॥
यस्याथ चक्रमङ्गुष्ठे यवादूर्द्ध्वञ्च दृश्यते ।तदा वै पामरादीनामज्जितं धनमाप्नुयात् ॥
तर्ज्जन्यामथ चक्रञ्च मित्रद्वारा धनम्भवेत् ।तेनैव विपरीतन्तु व्ययो भवति निश्चितम् ॥
मध्यमायां स्थिते चक्रे देवद्वारा धनं लभेत् ।तेनैव विपरीतन्तु व्ययो भवति निश्चितम् ॥
अनामायां भवेत् चक्रं सर्व्वद्बारा भवेद्धनम् ।तेनैव विपरीतन्तु व्ययो भवति निश्चितम् ॥
कनिष्ठायां भवेच्चक्रं बाणिज्येन धनं भवेत् ।तेनैव विपरीतन्तु व्ययो भवति निश्चितम् ॥
* ॥
ललाटे दृश्यते यस्य चक्ररेखाचतुष्टयम् ।अशीत्यायुः समाप्नोति पञ्चरेखाः शतं समाः ॥
यस्योन्नतं ललाटञ्च ताम्रकर्णञ्च दृश्यते ।रेखाहीनश्च कक्षश्च स चोन्मत्तो महीं भ्रमेत् ॥
यस्य जिह्वा भवेद्दीर्घा नासाग्रं लेढि सर्व्वदा ।भोगी भवति निर्व्वाणः पृथ्वीं भ्रमति सर्व्वदा ॥
दन्ताश्च विरला यस्य नीचवन्नीचकर्म्मकृत् ।प्रगल्भो दन्तुरः सत्यं वेदान्तपारगो भवेत् ॥
”प्रकारान्तरम् ।“दन्ताश्च विरला यस्य गण्डे कूपोऽपि जायते ।परस्त्रीरमणो नित्यं परवित्तेन वित्तवान् ॥
दीर्घलिङ्गे च सौभाग्यं सूक्ष्मलिङ्गे नृपो भवेत् ।वक्रास्यकठिनैर्लिङ्गैः प्रमाणान्निर्गतः सदा ॥
रमते च सदा दास्यां निर्घनो भवति ध्रुवम् ।कृशलिङ्गेन सूक्ष्मेण रक्तवर्णेन भूपतिः ।बहुस्त्रीरमणो नित्यं नारीणां वल्लभो भवेत् ॥
कृशलिङ्गेन रक्तेन लभते चोत्तमाङ्गनाम् ।राज्यं सुखञ्च दिव्याङ्ग्याः कन्यकायाः पतिर्भवेत् ॥
यस्य पादतले पद्मं चक्रं वाप्यथ तोरणम् ।अङ्कुशं कुलिशं वापि स राजा भवति ध्रुवम् ॥
कृशनिर्लोमशा ये स्युः केकराक्षाः कुचेलकाः ।कातरा व्यालजिह्वाश्च ते दरिद्रा न संशयः ।कपिला मलिनाङ्गाश्च ह्रस्वाश्चैव बृहन्नखाः ॥
कृशातिदीर्घा मनुजास्ते दरिद्रा न संशयः ।चिवुके श्मश्रुशून्या ये निर्लोमहृदयाश्च ये ।ते धूर्त्ता नैव सन्देहः समुद्रवचनं यथा ॥
सूचीमुखा भग्नपृष्ठाः कृष्णदन्ताः कुचेलकाः ।वक्रनासा वज्रनासास्ते नरा दुष्टमानसाः ॥
दयालवश्च दातारो रूपवन्तो जितेन्द्रियाः ।परोपकारिणश्चैव तेऽपूर्व्वा मानवाः स्मृताः ॥
”इति सामुद्रके पुरुषलक्षणम् ॥
* ॥
दानवीरदयावीरयुद्धवीरसत्यवीरसंज्ञकपुरुष-लक्षणन्तु पुरुषपरीक्षाग्रन्थे द्रष्टव्यम् ॥
वाचस्पत्यम्
Sanskritपूरुष पूर--उषन् । १ पुरुषे २ नरे च अमरः तस्य शुभा-शुभलक्षणं पुरुषशब्दे उक्तं किञ्चिदधिकमत्रोच्यते“कटिर्विवशाला बहुपुत्रभागी विशालहस्तो नरपुङ्कवःस्यात् । उरो विशालं धनधान्यभागी शिरोविशालंनरपूजितः स्यःत् । न श्रीस्त्यजति रक्ताक्षं नार्थकनकपिङ्गलम् । दीर्थबाहुं न चैश्वर्य्यं न मांसोपचितांसकम् । कदाचिद्दन्तुरो मूर्खः कदाचल्लोमशः मुखी ।कदाचित् तुन्दिलो दुःखी कदाचिच्चञ्चला सती । नेत्र-स्नेहेन सौभाग्यं दन्तस्नेहेन भोजनम् । हस्तस्नेहेनचैश्वर्य्यं पादस्नेहेन वाहनम् । अकर्मकठिनौ हस्तौपादावध्वनि कोमलौ । यस्य पाणितले रक्ते तस्यराज्यं विनिर्दिशेत् । दीर्घलिङ्गन दारिद्र्यं स्थूल-लिङ्गेन निर्धनः । कृशलिङ्गेन सौभाग्यं ह्रस्वलिङ्गेनभूपतिः । रेखाभिर्बहुभिर्दुःखं स्वल्पामिर्धनहीनता ।रक्ताभिः श्रियमाप्नोति कृष्णाभिर्लोकपूजितः । अङ्गुष्ठो-दरमध्ये तु यवो यस्य विराजितः । उन्नतं भोजनंतस्य शतं जीवति मानयः । अङ्कुशं कुलिशं छत्रं यस्यपाणितले भवेत् । ऐश्वर्य्यञ्च विनिर्दिष्टमशीत्यायुर्भवेद्र-ध्रुवम् । धनुर्यस्य भयेत् पाणौ पङ्कजं वाथ तोरणम् ।तस्यैश्वर्य्यञ्च राज्यञ्च अशीत्यायुर्भवेद् ध्रुवम् । कनिष्ठातर्जनीं यावत् रेखा भवति चाक्षता । विंशत्यव्दाधिक-शतं नरा जीवन्त्यनामयाः । कनिष्ठामध्यमां यावत्रेखा भवति चाक्षता । शताब्दं वाथ वाशीतिर्नरोजीवेन्न संशयः । कनिष्ठानामिकायाञ्चेत् रेखा भवतिचाक्षता । विंशत्यब्दाधिकं शतं नरा जीवन्त्यनामय्नाः ।कनिष्ठानामिकायाञ्चेत् रेखा भवति चाक्षता । षष्ठिपञ्चा-शदव्दं वा नरा जीवन्त्यसंशयम् । रेखया भिद्यते रेखास्वल्पायुश्च भवेन्नरः । कनिष्ठायां स्थिता रेखा संख्यायावतिका स्मृता । तावती पुरुषाणान्तु नारी भवतिनिश्चित्म् । करमध्यगता रेखा ध्रुवा ऊर्द्ध्वं भवेद् यदि ।नृपो वा नृपतुल्यो वा चिरं ख्यातोऽर्थवान् भवेत् ।मत्स्यपुच्छप्रकीर्णेन विद्यावित्तसमन्वितः । पितामहस्यवा” किञ्चित् धनञ्च लभते ध्रुवम् । मध्यमायां यदि यवादृश्यन्तेऽत्यन्तशोभनाः । तदान्यसञ्चितं वित्तं प्राप्नो-त्यङ्गुष्ठके यवे । यस्याऽथ चक्रमङ्गुष्ठे यवादूर्द्ध्वञ्चदृश्यते । तदा वै पामरादीनामर्ज्जितं धनमाप्नुयात् ।गर्जन्यामथ चक्रञ्च मित्रद्वारा धनं मवेत् । तेनैव विप-रीतन्तु व्ययो भवति निश्चितम् । अनामायां भवेत् चक्रंसर्वद्वारा भवेद्धनम् । तेवैव विपरीतन्तु व्ययो भवतिनिश्चितम् । कनिष्ठायां भवेच्चक्रं बाणिज्येन धनं भवेत् ।तेनैव विपरीतन्तु व्ययो भवति निश्चितम् । ललाटेदृश्यते यस्य चक्ररेखाचतुष्टयम् । अशीत्यायुः समा-प्नोति पञ्च रेखाः शतं समाः । यस्योन्नतं ललाटञ्चताम्रवर्णञ्च दृश्यते । रेखाहीनश्च कक्षश्च स चोन्मत्तोमहीं भ्रमेत् । यस्य जिह्वा भवेद्दीर्घा नासाग्रं लेढिसर्वदा । भोगी भवति निर्विण्ण पृथ्वीं भ्रमति सर्वदा ।दन्ताश्च विरला यस्य नीचवन्नीचकर्मकृत् । प्रगल्भोदन्तुरः सत्यं वेदान्तपारगो भवेत्” । प्राकारान्तरम् ।“दन्ताश्च विरला यस्य गण्डे कूपोऽपि जायते । परस्त्रीरमणो नित्यं परवित्तेन वित्तवान् । दीर्घलिङ्गे चसौमाग्यं सूक्ष्मलिङ्गे नृपो भवेत् । वक्रस्य कठिनै-र्लिङ्गैः प्रमाणान्निर्गतः सदा । रमते च सदा दास्यांनिर्धनो भवति ध्रुवम् । कृशलिङ्गेन सूक्ष्मेणारक्तवर्णेनमूपतिः । बहुस्त्रीरमणो नित्यं नारीणां वल्लभो भवेत् ।कृशलिङ्गेन रक्तेन लभते चोत्तमाङ्गनाम् । राज्यंसुखञ्च दिव्याङ्ग्याः कन्ययायाः पतिर्भवेत् । यस्य पाद-तले पश्नं चक्रं वाप्यथ तोरणम् । अङ्कुशं कुलिशंवापि स राजा भवति ध्रुवम् । कृशनिर्लोमशा ये स्युःकेकराक्षाः कुचेलकाः । कातरा व्यालजिह्वाश्च तेदरिद्रा न संशयः । कपिला मलिनाङ्गाश्च ह्रस्वाश्चैववृहन्नस्वाः । कृशातिदीर्घा मनुजास्ते दरिद्रा न संशयः ।चिवुके श्मश्रुशून्या ये निर्लोमहृदयाश्च ये । ते धूर्त्तानैव सन्देहः समुद्रवचनं यथा । सूचीमुखाः भग्नपृष्ठाःकृष्णदन्ताः कुचेलकाः । वक्रनासा वज्रनासास्ते नरादुष्टमानसाः । दयालवश्च दातारो रूपवन्तो जितेन्द्रियाः ।परोपकारिणैश्चैव तेऽपूर्वा मानवाः स्मृताः” ।
Grassman
GermanNo entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
