| YouTube Channel

पूरकः (pUrakaH)

 
Apte Hindi
Hindi
पूरकः
पुं*
- पूर् + ण्वुल्
नींबू का पौधा
पूरकः
पुं*
- पूर् + ण्वुल्
श्राद्ध की समाप्ति पर पितरों को दिया जाने वाला पिंड
पूरकः
पुं*
- पूर् + ण्वुल्
(अंकगणित में) गुणक
पूरकः
पुं*
- पूर्+ण्वुल्
" बाढ़, जलप्लावन"
वैजयन्तीकोषः
Sanskrit
Word: पूरकः
Root: पूरक
Gender: पुं
Number: all
अर्थः
Meaning(s):
Kind of citron
Tamil Mādul̤aibhēdam
Shloka(s):
3|3|33|2 बीजपूरे मातुलुङ्गो लुङ्गः सुफलपूरकौ॥ (भूमिकाण्डः/वनाध्यायः)
Synonym(s):
3|3|33|2 पूरकः (पूरक) (पुं) Kind of citron
Tamil Mādul̤aibhēdam
Related word(s):
शब्दकल्पद्रुमः
Sanskrit
पूरकः,
पुं,
(पूरयतीति पूरि + ण्वुल् ।) वीज-पूरः इति राजनिर्घण्टः
(अस्य पर्य्यायोयथा, --“बीजपूरो मातुलुङ्गः सुफलः फलपूरकः ।लुङ्गुषः पूरकः पूरो बोजपूर्णोऽम्बुकेशरः
”इति वैद्यकरत्नमालायाम्
)गुणकाङ्कः इति लीलावती
ध्यानादिकर्त्तृ-नासिकागतोच्छ्वासः ब्रह्मध्यानपूर्व्वकप्राणाया-माङ्गतत्तन्मन्त्रं जपन् वामनासिकया वायुनादेहपूरणम् (यथा, हठयोगप्रदीपिकायाम् ।२ ७१ ।“प्राणायामस्त्रिधा प्रोक्तो रेचपूरककुम्भकैः ।सहितः केवलश्चेति कुम्भको द्विविधो मतः
”)यथाच व्यासः ।“आदानं रोधमुत्सर्गं वायोस्त्रिस्त्रिः समभ्यसेत् ।ब्रह्माणं केशवं शम्भुं ध्यायेद्देवाननुक्रमात्
पूर्व्ववचने त्रिर्जपमात्राभिधानादत्र त्रिस्त्रिरितिवीप्सा सन्ध्यात्रयापेक्षया ।ब्रह्माणं केशवं शम्भुं ध्यायन् मुच्येत बन्धनात्
इति योगियाज्ञवल्क्यः ।‘भूर्भुवःस्वर्महर्जनस्तपः सत्यं तथैव ।प्रत्योङ्कारसमायुक्तं तथा तत् सवितुः पदम्
ओँ आपो ज्योतिरित्येतच्छिरः पश्चात्तु योज-येत् ।त्रिरावर्त्तनयोगात्तु प्राणायामस्तु शब्दितः
पूरकः कुम्भको रेच्यः प्राणायामास्त्रलक्षणः ।नासिकाकृष्ट उच्छ्वासो ध्यातुः पूरक उच्यते
कुम्भको निश्चलः श्वासो मुच्यमानस्तु रेचकः
मोचनं विशेषयति विष्णुपुराणम् ।नासंवृतमुखो जृम्भेद्धासकाशौ वर्ज्जयेत् ।नोच्चेर्हसेत् सशब्दञ्च मुञ्चेत् पवनं बुधः
”इत्याह्निकाचारतत्त्वम्
षोडशचतुरन्यतरसंख्यकप्रणवबीजान्यतरजपे-नैकनासापुटकरणकप्राणायामाङ्गवायुपूरणम् ।यथा, मूलमन्त्रस्य बीजस्य प्रणवस्य वा षोडश-वारजपेन वामनासापुटे वायुपूरकं कुर्य्यादितितन्त्रसारः
*
क्ली,
प्रेतदेहनिष्पादकाशौच-कालदेयदशपिण्डम् यथा, --“पूरकेण तु पिण्डेन देहो निष्पाद्यते यतः ।कृतस्य करणायोगात् पुनर्नावर्त्तयेत् क्रियाम्
”इति वायुपुराणम्
ऋष्यशृङ्गः ।“न स्वधाञ्च प्रयुञ्जीत प्रेतपिण्डे दशाहिके ।भाषेतैतच्च वै पिण्डं यज्ञदत्तस्य पूरकम्
”अत्र भाषणविधौ एतत्पिण्डं यज्ञदत्तस्य पूरक-मित्येतावन्मात्रश्रुतेः शिरःपूरकमित्यादिविशे-षोल्लेखे प्रमाणं नास्ति इति स्मार्त्तभट्टा-चार्य्याः
प्रेतपिण्डैस्तथा दत्तैर्देहमाप्नोति भार्ग-वेति विष्णुधर्म्मोत्तरे देहश्रुतेर्देहपूरकमितिप्रयोगापत्तेश्च तस्मादनिरुद्धभट्टाद्युक्तः केवल-पूरकप्रयोग एव युक्त इति शातातपः ।“भर्त्तुः पिण्डप्रदाने तु साध्वी स्त्री चेद्रजस्वला ।वस्त्रं त्यक्त्वा पुनः स्नात्वा सैव दद्याच्च पूरकम्
”इति शुद्धितत्त्वम्
*
पूरणकर्त्तरि, त्रि इति शब्दरत्नावली
(यथा, मनुः २८९ ।“प्राकारस्य भेत्तारं परिखाणाञ्च पूरकम् ।द्वाराणाञ्चैव भङ्क्तारं क्षिप्रमेव प्रवासयेत्
”)