| YouTube Channel

पूयी (pUyI)

 
Shabdartha Kaustubha
Kannada
पूयी - विशरणे दुर्गन्धे (भ्वा० आत्म० अक० ०) पूयते अपूयिष्ट
कन्नडार्थः - > ಒಡೆ /ಎರಡು ತುಂಡು ಮಾಡು /ಸೀಳು
पूयी - विशरणे दुर्गन्धे (भ्वा० आत्म० अक० ०) पूयते अपूयिष्ट
कन्नडार्थः - > ಕೊಳೆತು ಹೋಗು /ಕೊಳೆತು ನಾರು /ಕೀವುಗಟ್ಟು
व्युत्पत्तिः - > पूतये मत्स्यः
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
पूय्
मूलधातुः:
पूयी
धात्वर्थः:
विशरणे, दुर्गन्धे
गणः:
भ्वादिः
कर्मकत्वं:
अकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
आत्मनेपदी
रूपम्:
पूयते
धातुप्रदीपः
Sanskrit
पूयीँ पूयी विशरणे, दुर्गन्धे
- पूयते पुपूये पूतः पूतिः पूयः ।। 483 ।।
क्षीरतरङ्गिणी
Sanskrit
पूयीँ पूयी विशरणे, दुर्गन्धे
- पूयन्ते यवाः व्रणः पूयते पूयिता पूतः, पूतिः 472
धातुवृत्तिः
Sanskrit
पूयीँ पूयी (अर्थः) विशरणे, दुर्गन्धे
( पूयते पुपूये पूयितेत्यादि पुपूयिषते पोपूययते पोपूयीति पोपोति पोपूतः) इत्यादि वयतिवत् तसादौ ङित्त्वान्न गुणः (पूययति अपूयुत् पूयित्वा पूतः पूतवान् ) ईदित्त्वान्निष्ठायामनिट्त्वम् (पूतिः) "गन्धस्येदुत्पूति'' इत्यादिनिर्देशात् क्तिन् (पूयः) पचाद्यच् 480
कृदन्तरूपमाला
Sanskrit
1 {@“पूयी विशरणे दुर्गन्धे च”@} 2 पूयकः-यिका, पूयकः-यिका, पुपूयिषकः-षिका, पोपूयकः-यिका
पूयिता-त्री, पूययिता-त्री, पुपूयिषिता-त्री, पोपूयिता-त्री
-- पूययन्-न्ती, पूययिष्यन्-न्ती
-- पूयमानः, पूययमानः, पुपूयिषमाणः, पोपूय्यमानः
पूयिष्यमाणः, पूययिष्यमाणः, पुपूयिषिष्यमाणः, पोपूयिष्यमाणः
3 सुपूः-सुपुवौ-सुपुवः
-- -- -- 4 पूतम्-पूतः-पूतवान्, पूयितः, पुपूयिषितः, पोपूयितः-तवान्
5 पूयः, 6 पूयिता, पूयः, पुपूयिषुः, पोपूयः
पूयितव्यम्, पूययितव्यम्, पुपूयिषितव्यम्, पोपूयितव्यम्
पूयनीयम्, पूयनीयम्, पुपूयिषणीयम्, पोपूयनीयम्
पूय्यम्, पूय्यम्, पुपूयिष्यम्, पोपूय्यम्
ईषत्पूयः-दुष्पूयः-सुपूयः
-- -- पूय्यमानः, पूय्यमानः, पुपूयिष्यमाणः, पोपूय्यमानः
पूयः, पूयः, पुपूयिषः, पोपूयः
पूयितुम्, पूययितुम्, पुपूयिषितुम्, पोपूयितुम्
7 पूतिः, 8 पूयना, पुपूयिषा, पोपूया
पूयनम्, पूयनम्, पुपूयिषणम्, पोपूयनम्
पूयित्वा, पूययित्वा, पुपूयिषित्वा, पोपूयित्वा
प्रपूय्य, प्रपूय्य, प्रपुपूयिष्य, प्रपोपूय्य
पूयम्
पूयित्वा
पूयम्
पूययित्वा
पुपूयिषम्
पुपूयिषित्वा
पोपूयम्
पोपूयित्वा २।
प्रासङ्गिक्यः
01
=>
(१०३६)
02
=>
(१-भ्वादिः-४८४। अक। सेट्। आत्म।)
03
=>
[[८। क्विपि, वलि लोपे, ऊकारान्तत्वं ज्ञेयम्। द्विवचनादौ उवङ् ज्ञेयः।]]
04
=>
[[९। ‘श्वीदितो निष्ठायाम्’ (७-२-१४) इतीण्निषेधः। वलि लोपे रूपमेवम्।]]
05
=>
[पृष्ठम्०८८१+ २५]
06
=>
[[१। धातोरस्यानुदात्तेत्त्वात्, हलादित्वाच्च तच्छीलादिषु कर्तृषु प्राप्तो युच्, ‘न यः’ (३-२-१५२) इति निषिध्यते। तेन, ‘तृन्’ (३-२-१३५) इति औत्सर्गिकः तृन्नेव।]]
07
=>
[[२। स्त्रियां भावादौ, ‘गुरोश्च हलः’ (३-३-१०३) इति प्राप्तमकारप्रत्ययं बाधित्वा, बाहुलकात्, ‘क्तिन् आबादिभ्यः’ (वा। ३-३-९४) इत्याबादित्वात्, ‘गन्धस्येद् उत्पूतिसुसुरभिभ्यः’ (५-४-१३५) इत्यत्र ‘पूति--’ इति निर्देशाच्च क्तिन्नेव भवति। क्तिनि वलिलोपे रूपमेवम्।]]
08
=>
[[आ। ‘गोदोहदेशे रयितं सहाग्रजं तमूतसत्कीर्तिम् अपूतिभिर्गुणैः।।’ धा। का। १। ६२।]]