| YouTube Channel

पूयरक्तः (pUyaraktaH)

 
Apte Hindi
Hindi
पूयरक्तः
पुं*
पूयः-रक्तः -
"नाक का एक रोग विशेष (इसमें पीप से युक्त रक्त, या मवाद नाक से बहता है)"
Wordnet
Sanskrit
Synonyms:
पूयरक्तः
noun
नासिकायाः रोगविशेषः।
"पूयरक्ते नासिकायाः पूयमिश्रितं रक्तं स्रवति।"
शब्दकल्पद्रुमः
Sanskrit
पूयरक्तः,
पुं,
(पूयविशिष्टं रक्तमस्मिन् ।) नासा-रोगभेदः तस्य लक्षणम् यथाह माधवकरः ।“दोषैर्विदग्धैरथवापि जन्तो-र्ललाटदेशेऽभिहतस्य तैस्तैः ।नासा स्रवेत् पूयमसृग्विमिश्रंतं पूयरक्तं प्रवदन्ति रोगम्
”(क्लीवलिङ्गेऽपि दृश्यते यथा, --“निचयादभिघाताद्वा पूयासृङ्मासिका स्रवेत् ।तत् पूयरक्तमाख्यातं शिरोदाहरुजाकरम्
”इति वाभटे उत्तरस्थाने ऊनविंशेऽध्याये
चिकित्सास्य यथा, --“वक्ष्यामूर्द्धं रक्तपित्तोपशान्तिंनाडीवत्स्यात् पूयरक्ते चिकित्सा ।वान्ते सम्यक् चावपीडं वदन्तितीक्ष्णं धूमं शोधनञ्चात्र नस्यम्
”इत्युत्तरतन्त्रे त्रयोविंशेऽध्याये सुश्रुतेनोक्तम्
)