| YouTube Channel

पूतिनस्यः (pUtinasyaH)

 
शब्दकल्पद्रुमः
Sanskrit
पूतिनस्यः,
पुं,
(पूतिर्दुर्गन्धो नस्यः नासिकाभवोरोगः ।) नासारोगभेदः तस्य लक्षणम् यथा, “दोषैर्विदग्धैर्गलतालुमूलेसंमूर्च्छितो यस्य समीरणस्तु ।निरेति पूतिर्मुखनासिकाभ्यांतं पूतिनस्यं प्रवदन्ति रोगम्
”इति माधवकरः
औषधं यथा, --“व्याघ्रीदन्तीवचाशिग्रुस्वरसव्योषसम्भवैः ।पाचितं लावणं तैलं पूतिनासागदं जयेत्
”अथवा ।“त्रिकटुविडङ्गकसैन्धवबृहतीफलशिग्रुस्वरस-दन्तीभिः ।तैलं गोजलसिद्धं नस्यं स्यात् पूतिनस्यस्य
”इति चक्रपाणिदत्तः
(अस्य व्याख्याने श्रीकण्ठदत्तेन यद्बिदेहवचन-माहृतं तद्यथा “नासिका भवो नस्यः पूति-र्नस्यो वायुर्यत्र तं पूतिनस्यम् ।” इहैव विदेहः ।“कफपित्तमसृङ्मिश्रं सञ्चितं मूर्द्ध्नि देहिनाम् ।विदह्यमुष्मणोद्गाढं रुजां कृत्वाक्षिशङ्खजाम्
ततः प्रस्यन्दते घ्राणात् सरक्तं पूति पीतकम् ।पूतिनस्यन्तु तं विद्याद्घ्राणकण्डूल्वणप्रदम्
”चिकित्सान्तरमस्य यथा, --“पूर्व्वोद्दिष्टे पूतिनस्ये जन्तोःस्नेहस्वेदौ छर्द्दनं श्रंसनञ्च ।युक्तं भक्तं तीक्ष्णमल्पं लघुस्या-दुष्णं तोयं धूमपानञ्च काले
”इत्युत्तरतन्त्रे त्रयोविंशेऽध्याये सुश्रुतेनोक्तम्
)