| YouTube Channel

पूतिकर्णकः (pUtikarNakaH)

 
शब्दकल्पद्रुमः
Sanskrit
पूतिकर्णकः,
पुं,
(पूतिः कर्णो यस्मात् कप् ।)कर्णरोगभेदः तस्य लक्षणम् यथा, --“कर्णविद्रधिपाकाद्वा जायते चाम्बुपूरणात् ।पूयं स्रवति वा पूति ज्ञेयः पूतिकर्णकः
”इति माधवकरः
(लक्षणान्तरमस्य यथा, --“स्थिते कफे स्रोतसि पित्ततेजसाविलाप्यमाने भृशसम्प्रतापवान् ।अवेदनो वाप्यथवा सवेदनोघनं स्रवेत् पूति पूतिकर्गकः
”इत्युत्तरतन्त्रे विंशेऽध्याये सुश्रुतेनोक्तम्
)औषधं यथा, --“निर्गुण्डी स्वरसे तैलं सिन्धुधूमरजो गुडः ।पूरणात् पूतिकर्णस्य शमनो मधुसंयुतः
”अथवा ।“वरुणार्द्रकपित्थाम्रजम्बूपल्लवसाधितम् ।पूतिकर्णापहं तैलं जातीपत्ररसेन वा
”इति चक्रपाणिदत्तः
(चिकित्सास्य यथा, --“घृष्टं रसाञ्जनं नार्य्याः क्षीरेण क्षौद्वसंयुतम् ।प्रशस्यते चिरोत्थेऽपि सास्रावे पूतिकर्णके
”इति चोत्तरतन्त्रे एकविंशतितमेऽध्याये सुश्रुते-नोक्तम्
)