| YouTube Channel

पूतिकर्णः (pUtikarNaH)

 
Wordnet
Sanskrit
Synonyms:
पूतिकर्णः
noun
कर्णररोगविशेषः।
"पूतिकर्णे कर्णात् दुर्गन्धयुक्तं पूयम् आगच्छति।"
शब्दकल्पद्रुमः
Sanskrit
पूतिकर्णः,
पुं,
(पूतिर्दुर्गन्धः कर्णो यस्मात् ।) कर्ण-रोगविशेषः तल्लक्षणं यथा, --पूतिकर्णमाह ।“कर्णविद्रधिपाकाद्वा कर्णो वारिपूरणात् ।पूयं स्रवति यत् पूति ज्ञेयः पूतिकर्णकः
”कर्णस्रावाद्भेदार्थमाह ।पूतीति नियमेन पूति यथा स्यादेवं स्रवति
तच्चिकित्सा यथा, --“कर्णस्रवे पूतिकर्णे तथैव कृमिकर्णके ।सामान्यं कर्म्म कुर्व्वीत योगान् वैशेषिकानपि
सर्ज्जिकाचूर्णसंयुक्तबीजपूररसं क्षिपेत् ।कर्णस्रावरुजा दाहास्तेन नश्यन्त्यसंशयम्
आम्रजम्बुप्रवालानां मधुकस्य वटस्य ।एभिस्तु साधितं तैलं पूतिकर्णगदं हरेत्
जातीपत्ररसे तैलं विपक्वं पूतिकर्णजित्
घृष्टं रसाञ्जनं नार्य्याः क्षीरेण क्षौद्रसंयुतम् ।प्रशस्यते चिरोत्थे तत् सास्रावे पूतिकर्णके
कुष्ठहिङ्गुवचादारुशताह्वाविश्वसैन्धवैः ।पूतिकर्णापहं तैलं वस्तमूत्रेण साधितम्
कुष्ठादितैलम्
“शम्बूकस्य तु मांसेन कटुतैलं विपाचयेत् ।तस्य पूरणमात्रेण कर्णनाडी प्रशाम्यति
चूर्णेन गन्धकशिलारजनीभवेनमुष्ट्यंशकेन कटुतैलपलाष्ठके तु ।धत्तूरपत्ररसतुल्यमिदं विपक्वंनाडीं जयेच्चिरभवामपि कर्णजाताम्
मुष्टिः पलम्
कृमिकर्णविनाशाय कृमिघ्नीं कारयेत् क्रियाम् ।वार्त्ताकुधूमश्च हितः सार्षपस्नेह एव
पूरणं हरितालेन गव्यमूत्रयुतेन ।धूपने कर्णदौर्गन्ध्ये गुग्गुलुः श्रेष्ठ उच्यते
”इति भावप्रकाशः
(चिकित्सास्य यथा, --“निर्गुण्डी स्वरसे तैलं सिन्धुधूमरजो गुडः ।पूरणः पूतिकर्णस्य शमनो मधुसंयुतः
”इत्युत्तरतन्त्रे एकविंशेऽध्याये सुश्रुतेनोक्तम्
)