| YouTube Channel

पूतिकरञ्जः (pUtikaraJjaH)

 
शब्दकल्पद्रुमः
Sanskrit
पूतिकरञ्जः,
पुं,
(पूतियुक्तः करञ्जः ।) करञ्ज-विशेषः नाटाकरञ्ज इति भाषा कठकरेजइति हिन्दी भाषा तत्पर्य्यायः प्रकीर्य्यः २पूतिकरजः पूतीकरजः पूतिकः पूतीकः६ कलिकारकः कलिमालकः कलह-नाशनः इत्यमरभरतौ
प्रकीर्णः १०रजनीपुष्पः ११ सुमनाः १२ पूतिकर्णिकः १३कैडर्य्यः १४ कलिमाल्यः १५ अस्य गुणाः ।कटुत्वम् तिक्तत्वम् उष्णत्वम् विषवातार्त्ति-कण्डूविचर्च्चिकाकुष्ठस्पर्शत्वग्दोषनाशित्वञ्च ।इति राजनिर्घण्टः
(अस्य पर्य्यायान्तरं यथा, “स चोक्तः पूतिकरजः सोमवल्कश्च स्मृतः
”इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे
)