| YouTube Channel

पूजार्हः (pUjArhaH)

 
शब्दकल्पद्रुमः
Sanskrit
पूजार्हः, त्रि, (पूजामर्हतीति पूजा + अर्ह +“अर्हः ।” १२ इत्यच् ।) पूजा-योग्यः मान्यः इति शब्दरत्नावली
(यथा, मनुः २६ ।“प्रजनार्थं महाभागाः पूजार्हा गृहदीप्तयः ।स्त्रियः श्रियश्च गेहेषु विशेषोऽस्ति कश्चन
”)