| YouTube Channel

पूजाधार (pUjAdhAra)

 
वाचस्पत्यम्
Sanskrit
पूजाधार
पु०
त० देवतानां पूजनाधारे जलादौ यथोक्ततन्त्रसारे नारदीये “आपोऽग्निर्हृदयं चक्रं विष्णोःक्षेत्रसमुद्भवम् यन्त्रञ्च प्रतिमास्थानं अर्चने सर्वदाहरेः” गौतमीये “शालग्रामे मनौ यन्त्रे प्रतिमा-मण्डलेषु वा नित्यं पूजा हरेः कार्य्या तु केवल-भूतले शालग्रामशिलास्पर्शात् कोटिजन्माघनाशनम् ।किं पुनश्चार्चनं तत्र हरिसान्निध्यकारणम् बहुभि-र्जन्मभिः पुण्यैर्यदि कृष्णशिलां लभेत् गोष्पदेनैवचिह्नेन तेन जन्म समाप्यते” एतेन विष्णुपूजायांशिलाया अतिप्राधान्यम् मण्डलादीनान्तु सर्वसाधा-रणत्वात्” योगिनी तन्त्रे “लिङ्गस्थां पूजयेन्देवीं पुस्त-कस्थां तथैव मण्डलस्थां महामायां यन्त्रस्थां प्रति-मासु जलस्थां वा शिलास्थां वा पूजयेत् परमे-श्वरीम्” कौलावलीये “यत्रापराजितापुष्पं जवापुष्पञ्चविद्यते करवीरे शुक्लरक्ते द्रोणं वा यत्र तिष्ठतिः तत्रदेवी वसेन्नित्यं यद्यन्त्रे चण्डिकार्चनम्” एतत् सर्वंयन्त्राभावे तथा “यन्त्रं मन्त्रमयं प्रोक्तं मन्त्राणांदेवतैव हि देवात्मनोर्यथाऽभेदो यन्त्रदेवतयोस्तथा ।तथा आदौ लिखेद्यन्त्रराजं देवतायाश्च विग्रहम् ।कामक्रोधादिदोषोत्थ सर्वदुःखनियन्त्रणात् यन्त्रमित्याहुरेतस्मिन् देवः प्रीणाति पूजितः विना यन्त्रेण पूजायांदेवता प्रसीदति दुःखनिर्यन्त्रणात् यन्त्रमिताहुस्तन्त्र-वेदिन”