| YouTube Channel

पुस्फुरिषकः-षिका (pusphuriSakaH-SikA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“स्फुर स्फुरणे”@} 2 कुटादिः।
‘चलने’ इति न्यासे 3।
एवं क्षीरस्वाभ्यपि।
‘स्फर इत्येके’ इति माधवः।
‘--स्फुरणे संचलने दीप्तौ च’ इति मैत्रेयः।
‘स्फूर्त्तौ चले’ इति वोपदेवः।
स्फोरकः-रिका, स्फोरकः-रिका, पुस्फुरिषकः-षिका, पोस्फुरकः-रिका
विस्फूः, विष्फूः, 4 विस्फुरन्, 5 विस्फारः, इत्यादिकानि सर्वाण्यपि रूपाणि तौदादिककुरतिवत् 6 ज्ञेयानि।
अस्य धातोः कुटादित्वात् सन्नन्ते ‘रलो व्यु- पधात्--’ 7 इति कित्त्वविकल्पो न।
तेन एकमेव रूपमिति ज्ञेयम्।
8 निःष्फारः-निःस्फारः-निष्फारः-निस्फारः-विष्फारः-विस्फारः।
प्रासङ्गिक्यः
01
=>
(१९६३)
02
=>
(६-तुदादिः-१३८९। अक। सेट्। पर।)
03
=>
(६-१-४७)
04
=>
[[आ। ‘अबध्नादपरिस्कन्दं ब्रह्मपाशेन विस्फुरन्।।’ भ। का। ९-७५।]]
05
=>
[[१। घञि ‘स्फुरतिस्फुलत्योर्घञि’ (६-१-४७) इत्यात्वमत्रेति ज्ञेयम्।]]
06
=>
(२२९)
07
=>
(१-२-२६)
08
=>
[[२। ‘स्फुरतिस्फुलत्योर्निर्निबिभ्यः’ (८-३-७६) इति षत्वं विकल्पेन भवति। तेन प्रत्येकं रूपद्वयम्।]]