| YouTube Channel

पुस्तकम् (pustakam)

 
Apte Hindi
Hindi
पुस्तकम्
नपुं*
- पुस्त + कन्
"पोथी, हाथ की लिखी पुस्तक"
पुस्तकम्
नपुं*
- पुस्त्+कन्
पाण्डुलिपि
पुस्तकम्
नपुं*
- पुस्त्+कन्
एक उभरा हुआ आभूषण
Wordnet
Sanskrit
Synonyms:
हस्तलिखितम्, पुस्तकम्, काचनकी, पुस्तम्, लेखः
noun
हस्तेन लिखितं पत्रम्।
"सङ्ग्रहालयेऽस्मिन् बहूनि प्राचीनानि हस्तलिखितानि सन्ति।"
Synonyms:
पुस्तकम्
noun
पत्राणां संकलनं यस्मिन् कश्चित् विषयः विचारः विवेचनं वा सूत्रबद्धरीत्या लिखितं मुद्रितं वा अस्ति।
"एतद् व्याकरणस्य पुस्तकम्।"
शब्दकल्पद्रुमः
Sanskrit
पुस्तकम्,
क्ली,
स्त्री,
(पुस्त + स्वार्थे कन् ।)पुस्तम् पुति इति भाषा (यथा, हरि-वंशे २५६ ७६ ।“शुक्लाम्बरधरः श्रीमान् शुचिर्भूत्वा स्वलङ्कृतः ।अर्च्चयेत यथान्यायं गन्धमालैः पृथक् पृथक्
संहितापुस्तकान् राजन् ! प्रयतः शिष्टसम्मतः
”)तस्य परिमाणं यथा, --“मानं वक्ष्ये पुस्तकस्य शृणु देवि ! समासतः ।मानेनापि फलं विन्द्यादमाने श्रीर्हता भवेत्
हस्तमात्रं मुष्टिमात्रमाबाहुद्वादशाङ्गुलम् ।दशाङ्गुलं तथाष्टौ ततो हीनं कारयेत्
”तस्य वेधो यथा, --“वेधद्वयं मुष्टिहस्तं बाहुमात्रे चिरन्तकम् ।समभागे महेशानि ! हस्तादौ रूपरन्ध्रकम्
अष्टाङ्गुलं परित्यज्य भध्ये वेधं कारयेत् ।प्रादेशादौ भवेद्रन्ध्रो द्व्यङ्गुले वा समाचरेत्
पुस्तकस्य आद्यन्ते यन्त्रवेधं विकल्पयेत् ।भार्य्याहानिर्भवेदाशु धनानां वा क्षयो भवेत्
दग्धरन्ध्रे भवेत् पीडा वर्त्तुलं शुभदं भवेत् ।”चतुष्कोणे विप्लवस्तु त्रिकोणे मरणं भवेत्
पुस्तककरणपत्रं यथा, --“भूर्जे वा तेजपत्रे वा ताले वा ताडिपत्रके ।अगुरुणापि देवेशि ! पुस्तकं कारयेत् प्रिये !
सम्भवे स्वर्णपत्रे ताम्रपत्रे शङ्करि ! ।अन्यवृक्षत्वचि देवि ! तथा केतकिपत्रके
मार्त्तण्डपत्रे रौप्ये वा वटपत्रे वरानने ! ।अन्यपात्रे वसुदले लिखित्वा यः समभ्यसेत् ।स दुर्गतिमवाप्नोति धनहानिर्भवेद्ध्रुवम्
”पुस्तके वेदलिखननिषेघो यथा, --“वेदस्य लिखनं कृत्वा यः पठेद्ब्रह्महा भवेत् ।पुस्तकंवा गृहे स्थाप्यं वज्रपातो भवेद्ध्रुवम्
”युगभेदे पुस्तकाक्षरस्थदेवा यथा, --“सत्येऽक्षरे स्थितः शम्भुः शूलपाणिस्त्रिलोचनः ।प्रजापतिर्द्वापरे त्रेतायां सूर्य्य एव ।कृते युगे पिनाकी कलौ लिप्यक्षरे हरिः
”तल्लेखकपूजाफलं यथा, --“आरम्भे समाप्तौ लेखकं प्रतिपूजयेत् ।हरिञ्च गन्धपुष्याद्यैर्वस्त्रैश्च सुमनोहरैः
यावदक्षरसंख्यानं प्रतिपत्रे सुन्दरि ! ।तावद्युगसहस्राणि ब्रह्मलोके वसेच्चिरम्
”वेतनग्रहणे लेखकस्य दोषो यथा, --“वेतनं यस्तु गृह्णीयात् लिखित्वा पुस्तकं तु ।यावदक्षरसंख्यानं तावच्च नरके वसेत्
”भूमौ पुस्तकलेखनस्थापननिषेधो यथा, --“न भूमौ विलिखेद्वर्णं मन्त्रं पुस्तकं लिखेत् ।न मुक्त्वा पुस्तकं स्थाप्यं मुक्तमाहरेत्तु तत्
भूकम्पग्रहणे चैव अक्षरं वाथ पुस्तकम् ।भूमौ तिष्ठति देवेशि ! जन्मजन्मसु मूर्खता ।तदा भवति देवेशि ! तस्मात्तत् परिवर्ज्जयेत्
”इति योगिनीतन्त्रे तृतीयभागे सप्तमपटलः
*
तस्य दानफलं यथा, --विप्राय पुस्तकं दत्त्वा धर्म्मशास्त्रस्य द्विज ! ।पुराणस्य यो दद्यात् देवत्वमवाप्नुयात्
शास्त्रदृष्ट्या जगत् सर्व्वं सुश्रुतञ्च शुभाशुभम् ।तस्मात् शास्त्रं प्रयत्नेन दद्याद्बिप्राय कार्त्तिके
वेदविद्याञ्च यो दद्यात् स्वर्गे कल्पत्रयं वसेत् ।आत्मविद्याञ्च यो दद्यात्तस्य संख्या विद्यते
त्रीणि तुल्यप्रदानानि त्रीणि तुल्यफलानि ।शास्त्रं कामदुधा धेनुः पृथिवी चैव शाश्वती
”इति पाद्मोत्तरखण्डे ११७ अध्यायः
*
वेदशास्त्रादिदानफलं यथा, --“वेदार्थयज्ञशास्त्राणि धर्म्मशास्त्राणि चैव हि ।मूल्येन लेखयित्वा यो दद्याद्याति वैदिकम्
इतिहास्पुराणानि लिखित्वा यः प्रयच्छति ।ब्रह्मदानसमं पुण्यं प्राप्नोति द्बिगुणीकृतम्
”इति गारुड २१५ अध्यायः
*
भागवतदानविधानं तु पारायणशब्दे द्रष्टव्यम्