| YouTube Channel

पुष्पितः (puSpitaH)

 
शब्दकल्पद्रुमः
Sanskrit
पुष्पितः, त्रि, (पुष्प + क्तः पुष्पं जातमस्येति ।पुष्प + तारकादित्वात् इतच् वा ।) जातपुष्पः ।पुष्पविशिष्टः कुसुमितः यथा, --“एकेनापि सुवृक्षेण पुष्पितेन सुगन्धिना ।वासितं तद्वनं सर्व्वं सुपुत्त्रेण कुलं यथा
”इति चाणक्यः