| YouTube Channel

पुष्पवर्ग (puSpavarga)

 
वाचस्पत्यम्
Sanskrit
पुष्पवर्ग
पु०
त० सुश्रुतोक्ते कुसुमविशेषसमुदाये तेषांविशेषगुणाश्च तत्रोक्ता यथा“कोविदारशणशाल्मलीपुष्पाणि मधुराणि मधुरविपा-कानि रक्तपित्तहराणि वृषागस्त्ययोः पुष्पाणितिक्तानि कटविपाकानि क्षयकासापहानि मधुशिग्रु-करीरकुसुमानि कटुविपाकानि वातहराणि सृष्टमूत्र-पुरीषाणि “आगस्त्यं नातिशीतोष्णं नक्तान्धार्नाप्रशस्यते रक्तवृक्षस्य निम्बस्य मुष्ककार्कासनस्य ।कफपित्तहरं पुष्पं कुष्ठघ्नं कुटजस्य सुतिक्तं मधुरंशीतं पद्मं पित्तकफापहम् मधुरं पिच्छिलं स्निग्धंकुमुदं ह्लादि शीतलम् तस्मादल्पान्तरगुणे विद्यात्कुवलयोत्पले सिन्धुवारं विजानीयाद्धितं पित्तवि-नाशनम् मालतीमल्लिके तिक्ते सौरभ्यात् पित्तनाशने ।सगन्धिविशदं हृद्यं बकुलं प्राटलानि श्लेष्मपित्त-विषघ्नन्तु नागं तद्वच्च कुङ्कुमम् चम्पकं रक्तपित्तघ्नंशीतोष्णं कफनाशनम् किंशुकं कफपित्तघ्नं तद्वदेवकुरण्टकम् यथावृक्षं विजानीयात् पुष्पं वृक्षोचितंतथा मधुशिग्रुकरीराणि कटुश्लेष्महराणि च” ।अन्येषां गुणा भावप्र० विशेषत उक्तास्तत्र दृश्याः