| YouTube Channel

पुष्परागः (puSparAgaH)

 
Apte Hindi
Hindi
पुष्परागः
पुं*
पुष्पम्-रागः -
पुखराज
पुष्परागः
"पुं* , ष*त*" - -
एक प्रकार की मणि
Wordnet
Sanskrit
Synonyms:
गुरुरत्नम्, पीतमणिः, पीतस्फटिकम्, पीताश्मः, पुष्परागः, मञ्जुमणिः, वाचस्पतिवल्लभः, सोमालकः
noun
मूल्यवत् पीतरत्नम्।
"तस्य अङ्गुलिः गुरुरत्नेन शोभते।"
शब्दकल्पद्रुमः
Sanskrit
पुष्परागः,
पुं,
(पुष्पस्येव रागो वर्णोऽस्य ।)मणिविशेषः पुखराज इति भाषा तत्-पर्य्यायः मञ्जुमणिः वाचस्पतिवल्लभः ।इति भावप्रकाशः
पीतः पीतस्फटिकः ५पीतरक्तः पीताश्म गुरुरत्नम् पीत-मणिः पुष्पराजः १०
(यथा, रघौ १८ ३२ ।“तस्य प्रभा निर्ज्जितपुष्परागंपौष्यान्तिमौ पुष्यमसूत पत्नी
”“प्रभया निर्ज्जितः पुष्परागो मणिविशेषो येन ।”इति तट्टीकायां मल्लिनाथः
) अस्य गुणाः ।अम्लत्वम् शीतत्वम् वातनाशित्वम् दीपन-त्वञ्च
*
तस्य धारणगुणः आयुःश्रीप्रज्ञा-कारित्वम्
*
तस्य लक्षणं यथा, --“सुच्छायपीतगुरुगात्रसुरङ्गशुद्धंस्निग्धञ्च निर्म्मलमतीव सुवृत्तशीतम् ।यः पुष्परागसकलं कलयेदमुष्यपुष्णाति कीर्त्तिमतिशौर्य्यसुखायुरथान्
*
तस्य कुलक्षणं यथा, --“कृष्णविन्द्वङ्कितं रूक्षं धवलं मलिनं लघु ।विच्छायं शर्करागारं पुष्परागं सदोषकम्
”तस्य परीक्षालक्षणे यथा, राजनिर्घण्टे ।“घृष्टो विकाशयेत् पुष्परागमधिकमात्मीयम् ।न खलु पुष्परागो जात्यतया परीक्षकैरुक्तः
”तस्योत्पत्त्यादि यथा, --सूत उवाच ।“पतिता या हिमाद्रौ हि त्वचस्तस्य सुरद्विषः ।प्रादुर्भवन्ति ताभ्यस्तु पुष्परागा महागुणाः
आपीतपाण्डुरुचिरः पाषाणः पुष्परागसंज्ञस्तु ।कौरुण्टकनामा स्यात् एव यदि लोहितापीतः
आलोहितस्तु पीतः स्वच्छः काषायकः सएवोक्तः ।आनीलशुक्लवर्णः स्निग्धः सोमालकः स्वगुणैः
अत्यन्तलोहितो यः एव खलु पद्मरागसंज्ञःस्यात् ।अपि चेन्द्रनीलसंज्ञः एवं कथितः सुनीलःसन्
मूल्यं वैदुर्य्यमणेरिव गदितं ह्यस्य रत्नशास्त्र-विदा ।धारणफलञ्च तद्वत् किन्तु स्त्रीणां सुतप्रदोभवति
”इति गारडे ७५ अध्यायः
*
प्रकारान्तरम् ।“शणपुष्पसमः कान्त्या स्वच्छभावस्तु चिक्कणः ।पुत्त्रदो धनदः पुण्यः पुष्परागमणिर्धृतः
दैत्यधातुसमुद्भूतः पुष्परागमणिर्द्बिधा ।पद्मरागाकरे कश्चित् कश्चित्तार्क्ष्योपलाकरे
ईषत्पीतच्छविच्छायास्वच्छं कान्त्या मनो-हरम्
पुष्परागमिति प्रोक्तं रङ्गसोममहीभुजा
ब्रह्मादिजातिभेदेन तद्विज्ञेयं चतुर्विधम् ।छाया चतुर्व्विधा तस्य सिता पीता सिता-सिता
”इति युक्तिकल्पतरुः