| YouTube Channel

पुष्पकासीसं (puSpakAsIsaM)

 
शब्दकल्पद्रुमः
Sanskrit
पुष्पकासीसं,
क्ली,
(पुष्पमिव कासीसम् ।) पीत-वर्णकासीसम् यथा, भावप्रकाशे ।“अथ कासीसं भस्मवन्मृत्तिकाम्लम् ।कासीसं धातुकासीसं पांशुकासीसमित्यपि ।तदेव किञ्चित् पीतन्तु पुष्पकासीसमुच्यते
कासीसमम्लमुष्णञ्च तिक्तञ्च तुवरं तथा ।वातश्लेष्महरं केश्यं नेत्र्यं कण्डूविषप्रणुत् ।मूत्रकृच्छ्राश्मरीश्वित्रनाशनं परिकीर्त्तितम्
”तत्पर्य्यायः कंसकम् नेत्रौषधम् इतिहेमचन्द्रः
वत्सकम् मलीमसम् ह्रस्वम् ६विषदम् नीलमृत्तिका अस्य गुणाः ।तिक्तत्वम् शीतत्वम् नेत्रामयापहत्वम् ।लेपेन पामाकुष्ठादिनानात्वग्दोषनाशित्वञ्च ।इति राजनिर्घण्टः