| YouTube Channel

पुष्कलं (puSkalaM)

 
शब्दकल्पद्रुमः
Sanskrit
पुष्कलं,
क्ली,
(पुष्यति पुष्टिं गच्छत्यनेनेति पुष +“कलंश्च ।” उणा इति कलन् चकित् ।) ग्रासचतुष्टयात्मकभिक्षा यथा, --“भिक्षामाहुर्ग्रासमा्रमन्नं तस्माच्चतुर्गुणम् ।पुष्कलं हन्तकारन्तु तच्चतुर्गुणमुच्यते
”इति कौर्म्मे उपविभागे १७ अध्यायः
अष्टकुञ्चिपरिमाणम् यथा, प्रायश्चित्ततत्त्वे ।“अष्टमुष्टिर्भवेत् कुञ्चिः कुञ्चयोऽष्टौ पुष्कलम् ।पुष्कलानि चत्वारि आढकः परिकीर्त्तितः
”(नगरविशेषः यथा, रामायणे ११४ ११ ।“हतेषु तेषु सर्व्वेषु भरतः केकयीसुतः ।निवेशयामास तदा समृद्धे द्वे पुरोत्तमे
तक्षं तक्षशिलायान्तु पुष्कलं पुष्कलावते ।गन्धर्व्वदेशे रुचिदे गान्धारविषये सः
”)