पुष्करिणी (puSkariNI)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Spoken Sanskrit
English पुष्करिणी puSkariNI lotus pool
पौष्करिणी pauSkariNI lotus pool
पद्माकर padmAkara lotus-pool or an assemblage of lotuses
सुपर्णा suparNA pool abounding with lotuses
सुपर्णा suparNA pool with plenty of lotuses
कमलाकर kamalAkara lake or pool where lotuses abound
पुष्करिणी puSkariNI any pool or pond
पुष्करिणी puSkariNI female elephant
पुष्करिणी puSkariNI lotus pool
पुष्करिणी puSkariNI crape ginger or Variegated ginger [ Costus Speciosus or Arabicus - Bot. ]
पुष्करिणी puSkariNI Confederate rose [ Hibiscus Mutabilis - Bot. ]
Apte
Englishपुष्करिणी [puṣkariṇī], 1 A female elephant.
A lotus-pool.
A piece of water, lake or pool in general
ततः पुष्करिणीं वीरौ पम्पां नाम गमिष्यथ 3.73.11.
The lotus-plant.
Apte 1890
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Monier Williams Cologne
EnglishApte Hindi
Hindiपुष्करिणी
- पुष्करिन् + ङीप्
हथिनी
पुष्करिणी
- पुष्करिन् + ङीप्
कमलसरोवर
पुष्करिणी
- पुष्करिन् + ङीप्
"सरोवर, जलाशय"
पुष्करिणी
- पुष्करिन् + ङीप्
कमल का पोधा
Shabdartha Kaustubha
Kannadaपुष्करिणी
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಸರಸ್ಸು /ಕೊಳ
निष्पत्तिः - > "इनिः" (५-२-११५)
व्युत्पत्तिः - > पुष्कराणि पद्मानि सन्त्यस्मिन्
पुष्करिणी
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ನೆಲತಾವರೆ
पुष्करिणी
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಚಂಗಲುಕೋಷ್ಠದ ಬೇರು
निष्पत्तिः - > पुष्कर - "इनिः" । "ङीप्" (४-१-५)
व्युत्पत्तिः - > पुष्करवदाकृतिरस्याः
पुष्करिणी
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಹೆಣ್ಣು ಆನೆ
निष्पत्तिः - > पुष्कर - "इनिः" । "ङीप्" (४-१-५)
व्युत्पत्तिः - > पुष्करं शुण्डादण्डः अस्त्यस्याः
पुष्करिणी
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ತಾವರೆಯ ಬಳ್ಳಿ
पुष्करिणी
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಚಾಕ್ಷುಷಮನುವಿನ ಪತ್ನಿ
L R Vaidya
EnglishBopp
LatinEdgerton Buddhist Hybrid
EnglishWordnet
Sanskrit कुञ्जरी, गजी, पद्मिनी, हस्तिनी, करेणुका, करभी, पुष्करिणी, इभ्या
स्त्रीत्वविशिष्टः गजः।
"व्याधात् शावकं मोचयितुं कुञ्जरी आक्रमणम् अकरोत्।"
पुष्करिणी
भुमन्योः पत्नी ।
"पुष्करिण्याः उल्लेखः महाभारते अस्ति"
पुष्करिणी
मरुप्रान्ते वर्तमानः एकः देवालयः ।
"पुष्करिण्याः उल्लेखः बौद्धसाहित्ये वर्तते"
पुष्करिणी
उल्मुकस्य पत्नी ।
"पुष्करिण्याः उल्लेखः कोशे वर्तते"
पुष्करिणी
व्युष्टस्य पत्नी ।
"पुष्करिण्याः उल्लेखः भागवतपुराणे वर्तते"
पुष्करिणी
चाक्षुषस्य पत्नी ।
"पुष्करिणी मनोः माता अस्ति"
पुष्करिणी
एका नदी ।
"पुष्करिण्याः उल्लेखः शिवपुराणे वर्तते"
Sanskrit Tibetan
Tibetankhrus kyi rdzing bu
पुष्करिणी
अभिधानचिन्तामणिः
Sanskritअखातं तु देवखातं पुष्करिण्यां तु खातकम् ।
अखात (क्ली), देवखात (क्ली), पुष्करिणी (स्त्री), खातक (क्ली)
अभिधानरत्नमाला
Sanskritखाता
खाता, पुष्करिणी
आखातो देवखातः स्यात्खाता पुष्करिणी भवेत् ॥ ६७५ ॥
verse 3.1.1.675
page 0077
Tamil
Tamilபுஷ்கரிணீ : குளம், தாமரைக் குளம், பெண் யானை, தாமரைச் செடி.
Mahabharata
EnglishPushkariṇī, wife of Bhumanyu. § 152 (Pūruvaṃś.): I, 94, 3714 (mother of Diviratha, Suhotra, etc.).
पुराणम्
Englishपुष्करिणी १ / PUṢKARIṆĪ I. Wife of cākṣuṣa manu. cākṣuṣa got of puṣkariṇī a son named manu. (Chapter 18, agni purāṇa).
पुष्करिणी २ / PUṢKARIṆĪ II. Wife of Bhumanyu, emperor of bhārata. Bhumanyu got of his wife puṣkariṇī, six sons named suhotra, diviratha, suhotā, Suhavis, Suyajus and Ṛcika. (Chapter 94, Ādi Parva).
पुष्करिणी ३ / PUṢKARIṆĪ III Wife of king Unmukha. Unmukha got of his wife puṣkariṇī six sons named aṅga, sumanas, khyāti, kratu, aṅgiras and gaya. (4th skandha, bhāgavata).
शब्दकल्पद्रुमः
Sanskritपुष्करिणी, (पुष्करवत् आकृतिरस्त्यस्या इति ।पुष्कर + इनिः । ततो ङीप् ।) स्थलपद्मिनी ।पुष्करमूलम् । इति राजनिर्घण्टः ॥
(पुष्करंशुण्डादण्डस्तदस्त्यस्या इति । इनिः ।) हस्तिनी ।सरोजिनी । (पुष्कराणि पद्माणि सन्त्यत्रेति ।)जलाशयः । इति मेदिनी । णे, १०४ ॥
शतधनुःपरि-मितसमचतुरस्रजलाधारः । पुकुर इति पुखरिइति च भाषा । तत्पर्य्यायः । खातम् २ ।इत्यमरः । १ । १० । २७ ॥
जलकूपी ३ । इति जटा-धरः ॥
पौष्करिणी ४ । इति शब्दरत्नावली ॥
* ॥
सा तु दक्षिणोत्तरायता कार्य्या ।यथा, --“कूपवापीपुष्करिण्यो दीर्घिका द्रोण एव च ।तडागः सरसी चैव सागरश्चाष्टमो मतः ॥
सद्भिर्जलाशयः कार्य्यो यत्नाद्याम्योत्तरायतः ॥
”इति कल्पतरौ वायुपुराणम् ॥
* ॥
तस्या लक्षणं यथा । “पुष्करिणीतडागावाहवशिष्ठसंहितायाम् ।‘चतुर्विंशाङ्गुलो हस्तो धनुस्तच्चतुरुत्तरः ।शतधन्वन्तरञ्चैव तावत् पुष्करिणी मता ।एतत्पञ्चगुणः प्रोक्तस्तडाग इति निश्चयः ॥
तेन चतुर्द्दिक्षु विंशतिहस्तान्यूनतायां चतुःशत-हस्तान्यूनाभ्यन्तरत्वेन पुष्करिणी । एतज्जला-शयाधारपरं न तु उपरितटम् । शतेन धनुर्भिःपुष्करिणी । इति नव्यवर्द्धमानधृतो वशिष्ठः ॥
* ॥
तत्करणे वास्तुयागः कर्त्तव्यः । महाकपिल-पञ्चरात्रम् ।‘जलाधारगृहार्थञ्च यजेद्वास्तुं विशेषतः ।ब्रह्माद्यदितिपर्य्यन्ताः पञ्चाशत्त्रयसंयुताः ।सर्व्वेषां किल वास्तूनां नायकाः परिकीर्त्तिताः ॥
असंपूज्य हि तान् सर्व्वान् प्रासादादीन्न कार-येत् ।अनिष्पत्तिर्विनाशः स्यादुभयोर्धर्म्मधर्म्मिणोः ॥
’ब्रह्माद्यदितिपर्य्यन्ता इति कल्पान्तरम् । देवी-पुराणोक्त ईशादिकल्प एव व्यवह्नियते । धर्म्म-धर्म्मिणोस्तडागादितत्कर्त्रोः । आरम्भदिनेतदकरणे उत्सर्गादिनेऽपि आदौतत्करणम् ।यथा, --‘प्रासादभवनोद्यानप्रारम्भे परिवर्त्तने ।पुरवेश्मप्रवेशेषु सर्व्वदोषापनुत्तये ॥
वास्तूपशमनं कृत्वा ततः सूत्रेण वेष्टयेत् ।वास्तुपूजामकुर्व्वाणस्तवाहारो भविष्यति ॥
’इति मत्स्यपुराणे पुरवेश्मप्रवेशे वास्तुयागप्राप्तेःपूर्व्वोक्तवचने प्रासादधर्म्मातिदेशादत्र वाप्यादि-प्रतिष्ठादिनेऽपि वास्तुयागकरणम् ॥
* ॥
तदारम्भे नक्षत्रादि दीपिकायाम् ।‘पुष्यामित्रकरोत्तरस्ववरुणब्रह्माम्बुपित्र्येन्दुभिःशस्तेऽर्के शुभयोगवारतिथिषु क्रूरेष्ववीर्य्येषु च ।पुष्टेन्दौ जलराशिगे दशमगे शुक्रे शुभांशोदयेप्रारम्भः सलिलाशयस्य शुभदो जीवेन्दुपुत्त्रोदये ॥
’पुष्यानुराधा-हस्तोत्तरात्रय-धनिष्ठा-शतभिषा-रोहिणी-पूर्व्वाषाढा-मघा-मृगशिरोभिर्भैः ॥
मात्स्ये ।‘चन्द्रादित्यबलं लब्धा लग्नं शुभनिरीक्षितम् ।स्तम्भोच्छ्रायादि कर्त्तव्यमन्यत्र परिवर्जयेत् ॥
अश्विनी रोहिणी मूलमुत्तरात्रयमैन्दवम् ।स्वाती हस्तानुराधा च गृहारम्भे प्रशस्यते ॥
वज्रव्याघातशूले च व्यतीपातातिगण्डयोः ।विष्कम्भगण्डपरिघवर्जं योगेषु कारयेत् ॥
आदित्यभौमवर्जन्तु सर्व्वे वाराः शुभावहाः ।प्रासादेऽप्येवमेव स्यात् कूपवापीषु चैव हि ॥
’ज्योतिषे । गुरोर्भृगोरस्तबाल्ये इत्यभिधायप्रतिष्ठारम्भणे देवकूपादेर्वर्जयन्ति हि ॥
* ॥
उत्सर्गफलमाह । कपिलपञ्चरात्रे ।‘संक्षेपात्तु प्रवक्ष्यामि जलदानफलं शृणु ।पुष्करिण्यादिदानेन विष्णुः प्रीणाति विश्वधृक् ॥
’जलाशयकरणार्थभूमिदानफलमाह चित्रगुप्तः ।‘जलाशयार्थं यो दद्यात् वारुणं लोकमाप्नुयात् ॥
’भूमिमिति शेषः ॥
* ॥
तत्प्रतिष्ठाकालमाह ।मत्स्यपुराणम् ।‘शृणु राजन् ! महाबाहो ! तडागादिषु योविधिः ।चैत्रे वा फाल्गुने वापि ज्यैष्ठे वा माधवे तथा ॥
माघे वा सर्व्वदेवानां प्रतिष्ठा शुभदा भवेत् ।प्राप्य पक्षं शुभं शुक्लमतीते चोत्तरायणे ॥
पुण्येऽह्रि विप्रकथिते कृत्वा ब्राह्मणवाचनम् ॥
’अतीते प्रवृत्ते । तथा च प्रतिष्ठासमुच्चये ।‘माघेऽथ फाल्गुने वापि चैत्रवैशाखयोरपि ।ज्यैष्ठाषाढकयोर्वापि प्रवृत्ते चोत्तरायणे ॥
’ब्राह्मणवाचनं पुण्याहस्वस्तिऋद्धिवाचनम् ॥
* ॥
‘पञ्चमी च द्वितीया च तृतीया सप्तमी तथा ।दशमी पौर्णमासी च तथा श्रेष्ठा त्रयोदशी ।आसु प्रतिष्ठा विधिवत् कृत्वा बहुफला भवेत् ॥
आषाढे द्वे तथा मूलमुत्तरात्रयमेव च ।ज्येष्ठाश्रवणरोहिण्यः पूर्व्वभाद्रपदा तथा ॥
हस्ताश्विनी रेवती च पुष्यो मृगशिरस्तथा ।अनुराधा तथा स्वाती प्रतिष्ठादिषु शस्यते ॥
* ॥
बुधो बृहस्पतिः शुक्रस्त्रय एते शुभावहाः ।एतन्निरीक्ष्य तं लग्नं नक्षत्रञ्च प्रशस्यते ॥
ग्रहताराबलं लब्ध्वा ग्रहपूजां विधाय च ।निमित्तं सकलं ज्ञात्वा वर्जयित्वाद्भुतादिकम् ॥
शुभयोगे शुभगृहे क्रूरग्रहविवर्जिते ।लग्ने ऋक्षे च कुर्व्वीत प्रतिष्ठादिकमुत्तमम् ॥
* ॥
अयने विषुवे तद्वत् षडशीतिमुखे तथा ।एतेषु स्थापनं कार्य्यं विधिदृष्टेन कर्म्मणा ॥
’भविष्ये ।‘प्रतिपच्च द्वितीया च तृतीया पञ्चमी तथा ।दशमी त्रयोदशी चैव पौर्णमासी च कीर्त्तिता ॥
सोमो बृहस्पतिश्चैव शुक्रश्चैव तथा बुधः ।एते सौम्यग्रहाः प्रोक्ताः प्रतिष्ठायागकर्म्मणि ॥
’प्रतिष्ठाधिकारे व्यवहारसमुच्चयः ।‘कृष्णपक्षे च पञ्चम्यामष्टम्याञ्चैव शस्यते ॥
’दीपिकायाम् ।‘पुष्याश्विशक्रभगदैवतवासवेषुसौम्यानिलेशमघरोहिणिमूलहस्ते ।पौष्णानुराधहरिभेषु पुनर्व्वसौ चकार्य्याभिषेकतरुभूतपतिप्रतिष्ठा ॥
’वासवं धनिष्ठा । ईश आर्द्रा । आर्द्रायाञ्चैवसौभाग्यमिति प्रतिष्ठासारसमुच्चयात् ॥
* ॥
वापीत्यादीनां पूर्त्तत्वाभिधानात् शूद्रस्याधिकार-माह जातूकर्णः ।‘वापीकूपतडागादि देवतायतनादि च ।अन्नप्रदानमारामाः पूर्त्तमित्यभिधीयते ॥
अग्निहोत्रं तपः सत्यं वेदानामनुपालनम् ।आतिथ्यं वैश्वदेवश्च इष्टमित्यभिधीयते ॥
ग्रहोपरागे यद्दानं पूर्त्तमित्यभिधीयते ।इष्टापूर्त्तं द्विजातीनां धर्म्मः सामान्य उच्यते ॥
अधिकारी भवेत् शूद्रः पूर्त्ते धर्म्मे न वैदिके ॥
’वैदिके वेदाध्ययनसाध्ये अग्निहोत्रादाविति रत्ना-करः ॥
एवं स्त्रीणामपि पूर्त्ताधिकारः । यथा, नारीत्यनुवृत्तौ बृहस्पतिः ।‘पितृव्यगुरुदौहित्रान् भत्तुः स्वस्रीयमातुलान् ।पूजयेत् कव्यपूर्त्ताभ्यां वृद्धानाथातिथीन् स्त्रियः ॥
’अस्य पूर्त्तत्वात् वृद्धिश्राद्धमप्यादौ कर्त्तव्यम् ।यथा, गोभिलः । ‘वृद्धिः पूर्त्तेषु युग्मा नाशयेत्प्रदक्षिणमुपचारः । यवैस्तिलार्थ इति ॥
’ * ॥
हयशीषपञ्चरात्रे ।‘वापीकूपतडागानां पश्चिमे यागमण्डपम् ।कुर्य्याद्यथाक्रमेणैव कन्यसं मध्यमुत्तमम् ॥
कन्यसं दशहस्तन्तु कूपे शस्तं तथानघ ! ।द्विषट्कं कारयेद्वाप्यां पुष्करिण्यां चतुर्द्दश ।द्विरष्टहस्तं कुर्व्वीत तडागे मण्डपं शुभम् ॥
’कन्यसं कनीयांसम् ॥
* ॥
सङ्कल्पविधिमाहभविष्ये ।‘गृहीत्वौडुम्बरं पात्रं वारिपूर्णं गुणान्वितम् ।दर्भत्रयं साग्रमूलं फलपुष्पसमन्वितम् ॥
जलाशयारामकूपे सङ्कल्पे पूर्व्वदिङ्मुखः ।साधारणे चोत्तरास्य ऐशान्यां निक्षिपेत् पयः ॥
’मत्स्यपुराणे ।‘प्रागुदक्प्रवणे देशे तडागस्य समीपतः ।चतुर्हस्तां शुभां वेदीं चतुरस्रां चतुर्मुखीम् ॥
’कारयेदित्यर्थः । तथा, --‘सर्व्वतः समवर्णाः स्युः पताका ध्वजसंयुताः ॥
’समवर्णा वक्ष्यमाणलोकपालवर्णाः ।‘अश्वत्थोडुम्बरप्लक्षवटशाखायुतानि च ।मण्डपस्य प्रतिदिशं द्वाराण्येतानि कारयेत् ॥
’तथा ।‘कुलशीलसमापन्नः स्थापकः स्याद्द्विजोत्तमः ॥
’स्थापक आचार्य्य इति रत्नाकरः ॥
* ॥
‘सौवर्णौ कूर्म्ममकरौ राजतौ मत्स्यडुण्डुभौ ।ताम्रौ कुलीरमण्डूकावायसः शिशुमारकः ॥
एवमासाद्य तान् सर्व्वानादौ चैव विशाम्पते ! ।शुक्लमाल्याम्बरधरः शुक्लगन्धविलेपनः ॥
सर्व्वौषध्युदकस्नानस्नापितो वेदपुङ्गवः ।यजमानः सपत्नीकः पुत्त्रपौत्त्रसमन्वितः ।पश्चिमं द्वारमाश्रित्य प्रविशेद्यागमण्डपम् ॥
ततो मङ्गलशब्देन भेरीणां निःस्वनेन च ।रजसा मण्डलं कुर्य्यात् पञ्चवर्णेन तत्त्ववित् ॥
षोडशारं ततश्चक्रं पद्मगर्भं चतुर्मुखम् ।चतुरस्रञ्च परितो वृत्तं मध्ये सुशोभनम् ॥
वेद्याश्चोपरि तत् कृत्वा ग्रहाँल्लोकपतींस्तथा ।विन्यसेन्मन्त्रतः सर्व्वान् प्रतिदिक्षु विचक्षणः ।झसादीन् स्थापयेन्मध्ये वारुणं मन्त्रमाश्रितः ॥
’झसादीन् कूर्म्मादीन् ।‘ब्रह्माणञ्च शिवं विष्णुं तत्रैव स्थापयेद्बुधः ।विनायकन्तु विन्यस्य कमलामम्बिकान्तथा ॥
’पूजयेदिति शेषः । तथा, --‘नवग्रहमखं कृत्वा ततः कर्म्म समारभेत् ।अन्यथा फलदं पुंसां न काम्यं जायते क्वचित् ॥
’ग्रजपूजामण्डलं शान्तिदीपिकायाम् ।‘वर्त्तलो भास्करः कार्य्यो ह्यर्द्धचन्द्रो निशाकरः ।अङ्गारकस्त्रिकोणस्तु बुधश्चापाकृतिस्तथा ॥
पद्माकृतिर्गुरुः कार्य्यश्चतुष्कोणस्तु भार्गवः ।खड्गाकृतिः शनिः कार्य्योराहुस्तु मकराकृतिः ।सर्पाकृतिस्तथा केतुः कार्य्यो मण्डलपूजने ॥
’मत्स्यपुराणे ।‘देवतानां ततः स्थाप्या विंशतिर्द्वादशाधिका ।सूर्य्यः सोमस्तथा भौमो बुधजीवसितार्कजाः ॥
राहुः केतुरिति प्रोक्ता ग्रहा लोकहिते रताः ।मध्ये तु भास्करं विद्याल्लोहितं दक्षिणेन तु ॥
उत्तरेण गुरुं विद्याद्बुधं पूर्व्वोत्तरेण तु ।पूर्व्वेण भार्गवं विद्यात् सोमं दक्षिणपूर्व्वके ॥
पश्चिमेन शनिं विद्याद्राहुं पश्चिमदक्षिणे ।पश्चिमोत्तरतः केतुं स्थापयेत् शुक्लतण्डुलैः ॥
* ॥
भास्करस्येश्वरं विद्यादुमाञ्च शशिनस्तथा ।स्कन्दमङ्गारकस्यापि बुधस्यापि तथा हरिम् ॥
ब्रह्माणञ्च गुरोर्व्विद्यात् शुक्रस्यापि प्रजापतिम् ।शनैश्चरस्य तु यमं राहोः कालन्तथैव च ।केतूनाञ्चित्रगुप्तञ्च सर्व्वेषामधिदेवताः ॥
* ॥
अग्निरापः क्षितिर्विष्णुरिन्द्र ऐन्द्री च देवताः ।प्रजापतिश्च सर्पश्च ब्रह्मा प्रत्यधिदेवताः ॥
* ॥
विनायकं तथा दुर्गां वायुमाकाशमेव च ।आवाहयेद्व्याहृतिभिस्तथैवाश्विकुमारकौ ॥
संस्मरेद्रक्तमादित्यमङ्गारकसमन्वितम् ।सोमशुक्रौ तथा श्वेतौ बुधजीवौ च पिङ्गलौ ॥
मन्दराहू तथा कृष्णौ धूम्रं केतुगणं विदुः ।ग्रहवर्णानि देयानि वासांसि कुसुमानि च ॥
धूपामोदोऽत्र सुरमिरुपरिष्टाद्वितानकम् ।शोभनं स्थापयेत् प्राज्ञः फलपुष्पसमन्वितम् ॥
गुडौदनं रवेः कुर्य्यात् सोमाय घृतपायसम् ।संयावकं कुजे दद्यात् क्षीरान्नं सोमसूनवे ॥
दध्योदनन्तु जीवाय शुक्राय च घृतोदनम् ।शनैश्चराय कृषरमाजमांसञ्च राहवे ।चित्रोदनन्तु केतुभ्यः सर्व्वभक्षैः समर्च्चयेत् ॥
’स्कन्दपुराणम् ।‘जन्मभूर्गोत्रमेतेषां वर्णस्थानमुखानि च ।योऽज्ञात्वाकुरुते शान्तिं ग्रहास्तेनावमानिताः ॥
उत्पन्नोऽर्कः कलिङ्गेषु यमुनायाञ्च चन्द्रमाः ।अङ्गारकस्त्ववन्त्यान्तु मगधे तु हिमांशुजः ॥
सैन्धवेषु गुरुर्जातः शुक्रो भोजकटे तथा ।शनैश्चरस्तु सौराष्ट्रे राहुर्वैराटिकापुरे ।अन्तर्वेद्यां तथा केतुरित्येता ग्रहभूमयः ॥
आदित्यः काश्यपो गोत्र आत्रेयश्चन्द्रमाभवेत् ।भारद्वाजो भवेद्भौमस्तथात्रेयश्च सोमजः ॥
सुरपूज्योऽङ्गिरोगोत्रः शुक्रो वै भार्गवस्तथा ।शनिः काश्यप एवायं राहुः पैठीनसिस्तथा ।केतवो जैमिनेयाश्च ग्रहा लोकहिते रताः ॥
’कात्यायनः ।‘तद्गोत्रजाती अज्ञात्वा होमं यः कुरुते नरः ।न तस्य फलमाप्नोति न सन्तुष्यन्ति देवताः ॥
न हुतं न च संस्कारो न च यज्ञफलं लभेत् ।ब्राह्मणौ भार्गवाचार्य्यौ क्षत्त्रियावर्कलोहितौ ॥
वैश्यौ सोमबुधौ चैव शेषान् शूद्रान् विनि-र्द्दिशेत् ॥
’शान्तिदीपिकायाम् ।‘शुक्रार्कौ प्राङ्मुखौ स्थाप्यौ शशाङ्कार्की चदक्षिणौ ।उत्तरास्यौ गुरुबुधौ पश्चिमास्यास्तथापरे ॥
’अग्निप्रणयनानन्तरं ग्रहावाहनमाह वैशम्पा-यनः ।‘अग्निप्रणयनं कृत्वा पश्चादावाहयेत् सुरान् ।मध्ये तु भास्करं विद्याल्लोहितं दक्षिणेन तु ॥
’यद्यपि ग्रहादीनां बहवः शब्दा वाचकाः सन्तिशब्दोपहितश्चार्थोठर्थोपहितः शब्दो वा देवताउभयथापि शब्दनियमात् अविनिगमकः स्यात्तथापि बहुषु दृष्टत्वात् सूर्य्यादिशब्देन ग्रहाणांदेवतात्वम् । तेन सूर्य्यसोमकुजबुधबृहस्पतिशुक्र-शनैश्चरराहुकेतुपदैर्देवतात्वम् । अधिदेयता-नान्तु त्र्यम्बकोमास्कन्दविष्णुब्रह्मेन्द्रयमकाल-चित्रगुप्तानामेभिरेव पदैः । तथा प्रत्यधिदेव-तानाञ्च अग्न्यप्पृथिवीविष्ण्विन्द्रशचीप्रजापति-ब्रह्मणामेभिरेव पदैः । तथा विनायकदुर्गावा-य्वाकाशाश्विनामेभिरेव । इति कृत्यप्रदीपः ॥
* ॥
शान्तिदीपिकोक्तध्यानानि प्रयोगे वक्ष्यन्ते ।लोकपालमन्त्रानाह भविष्ये ।‘न्यासमन्त्रानहं वक्ष्ये लोकपालात्मकानिह ।इन्द्रस्तु महसा दीप्तः सर्व्वदेवाधिपो महान् ।वज्रहस्तो महासत्त्वस्तस्मै नित्यं नमो नमः ॥
आग्नेयः पुरुषो रक्तः सर्व्वदेवमयोऽव्ययः ।धूमकेतुरनाधृष्यस्तस्मै नित्यं नमो नमः ॥
यमश्चोत्पलवर्णाभः किरीटी दण्डधृक् सदा ।धर्म्मसाक्षी विशुद्धात्मा तस्मै नित्यं नमो नमः ॥
निरृतिस्तु पुमान् कृष्णः सर्व्वरक्षोऽधिपोमहान् ।खड्गहस्तो महासत्त्वस्तस्मै नित्यं नमो नमः ॥
वरुणो धवलो जिष्णुः पुरुषो निम्नगाधिपः ।पाशहस्तो महाबाहुस्तस्मै नित्यं नमो नमः ॥
वायुश्च सर्व्ववर्णोऽयं सर्व्वगन्धवहः शुभः ।पुरुषो ध्वजहस्तश्च तस्मै नित्य नमो नमः ॥
गौरो यस्तु पुमान् सौम्यः सर्व्वौषधिसमन्वितः ।नक्षत्राधिपतिः सोमस्तस्मै नित्यं नमो नमः ॥
ईशानः पुरुषः शुक्लः सर्व्वविद्याधिपो महान् ।शूलहस्तो विरूपाक्षस्तस्मै नित्यं नमो नमः ॥
पद्मयोनिश्चतुर्मूर्त्तिर्हेमवासाः पितामहः ।यज्ञाध्यक्षश्चतुर्वक्त्रस्तस्मै नित्यं नमो नमः ॥
योऽसावनन्तरूपेण ब्रह्माण्डं सचराचरम् ॥
पुष्पवद्धारयेन्मूर्द्ध्नि तस्मै नित्यं नमो नमः ।ओँकारपूर्व्वका ह्येते न्यासे बलिनिवेदने ।मन्त्राः स्युः सर्व्वकार्य्याणां बृद्धिपुष्टिफलप्रदाः ॥
’हयशीर्षपञ्चरात्रे ।‘अथवा कामतः कुर्य्यात् सूक्ष्मरत्नादिनिर्म्मितम् ।द्विभुजं हंसपृष्ठस्थं दक्षिणेनाभयप्रदम् ॥
वामेन नागपाशन्तु धारयन्तं सुभोगिनम् ।मौलिनं वा महाभागं कारयेद्यादसां पतिम् ॥
वामे तु कारयेद्वृद्धिं दक्षिणे पुष्करं शुभम् ।नागैर्नदीभिर्यादोभिः समुद्रैः परिवारितम् ॥
कृत्वैवं व्नरुणं देवं प्रतिष्ठाविधिमाचरेत् ॥
’पुष्करं तत्पुत्त्रम् । तथा प्रसन्नवदनमिति ध्यानंवक्ष्यते । वरुणमन्त्रोद्धारस्तु तत्रैव ।‘अष्टाविंशान्तबीजेन चतुर्द्दशयुतेन च ।अर्द्धेन्दुविन्दुयुक्तेन प्रणवोद्दीपितेन च ॥
’तेन ओँ वौं इति मन्त्रः ।‘प्रतिमायां स्थितिं कृत्वा प्रणवेन निरोधयेत् ।पूजयेत् गन्धपुष्पाद्यैः सान्निध्यं पाशमुद्रया ॥
’स्थितिं प्राणप्रतिष्ठाम् । निरोधयेत् अन्तर्गता-ङ्गुष्ठमुष्टिभ्यां निरोधमुद्रां दर्शयेत् । दानकल्प-तरुरत्नाकरयोर्ब्बह्वृचगृह्यपरिशिष्टम् ॥
अथातोवरुणविधिं वापीकूपतडागयज्ञं व्याख्यास्यामः ।पुण्ये तिथिकरणे शुभे नक्षत्रे प्रतीचीं दिश-मास्थाय प्राक्प्रवणे उदक्प्रवणे वा उदक्-समीपे अग्निमुपसमाधाय वारुणं श्रपयित्वाआज्यभागान्तं हुत्वा चतस्र आज्याहुतीर्जुहु-यात् । समुद्रज्येष्ठा इति प्रत्यृचं ततो हविषाअष्टभिर्जुहुयात् । तद्वायामि ब्राह्मणा वन्द-मानः इति पञ्च । त्वन्नोऽग्ने वरुणस्य विद्वा-निति द्वे इमं मे वरुणं स्रग्वी हवेति च स्विष्टि-कृतञ्च नवमं नव वै प्राणाः प्राण इव आप-स्तस्मादापो नवभिर्जुहोति ॥
* ॥
मार्जनान्तेधेनुमवतारयेत् । अवतार्य्यमाणान्तामनुमन्त्र-येत् । इदं सलिलं पवित्रं कुरुष्व शुद्धः पूतोमृतः सन्तु नित्यं तारयन्ती सर्व्वतीर्थाभिषिक्तंलोकालोकं तरते तीर्य्यते च । इत्यनेन पुच्छाग्रेयजमानः स्वयं लग्न आचार्य्येणान्वारब्ध उत्तीर्य्यआपोऽस्मान्मातरः शुन्धयन्त्विति ऐशान्यां दिशिउत्थापयेत् । सुयवसा भगवतीह भूया इतिहिं कृतञ्चेत् तदा हिं कृण्वती वसुमती वसूना-मिति जपेत् । तां सचेलकण्ठां कनकशृङ्गींवृषप्रजां रूप्यखुरां कांस्योपदोहां विप्राय साम-गाय दद्यात् इतरां वा । यथाशक्ति दक्षिणा चदेया इति । तत उत्सर्गं कुर्य्यात् । देवपितृ-मनुष्याः प्रीयन्तां इत्याह शौनकः । यजमानोब्राह्मणान् भोजयित्वा स्वस्ति वाचयीतेति ।अस्यार्थः । तिथ्यादीनां शुभत्वं पूर्व्ववचनेभ्योज्ञेयम् । एष एव विधिर्गोभिलपारस्करगृह्योक्त-कर्म्मानुष्ठातृभ्यामनुष्ठीयते ।‘यन्नाम्ना तं स्वशाखायां परोक्तमविरोधि च ।विद्वद्भिस्तदनुष्ठेयमग्निहोत्रादि कर्म्मवत् ॥
’इति छन्दोगपरिशिष्टात् ॥
ततश्च अग्निमुपसमाधायेति स्वस्वगृह्योक्तविधि-नाग्निं संस्थाप्य वारुणं वरुणदेवताकंचरुं निष्पाद्य आज्यभागान्तं हुत्वा इतिछन्दोगेतरपरम् । स तु विरूपाक्षजपान्तांकुशण्डिकां समाप्य महाव्याहृतीर्हुत्वा प्रकृतंकर्म्म कुर्य्यात् । तत्र प्रथमतः पिङ्गभ्रूश्मश्रुइत्यादि पुराणीयं ध्यात्वा अग्ने त्वं वरुणनामा-सीति नाम कुर्य्यात् ।‘प्रतिष्ठायां रोहितश्च वास्तुयुगे प्रजापतिः ।जलाशयप्रतिष्ठायां वरुणः समुदाहृतः ॥
’इति स्मृतेः ।तत आवाह्य पूजयित्वा समित्प्रक्षेपानन्तरंमहाव्याहृतिहोमं कृत्वा समुद्रा ज्येष्ठा इत्यादिचतुर्भिर्मन्त्रैश्चतस्र आहुतीर्जुहुयात् । ओँ तद्वा-यामीति ओँ तदिदन्नक्तमिति ओँ शुनःशेफो-हीति ओँ अवते हेलौ वरुण इति ओँ डदु-त्तममिति पञ्चभिः ओँ त्वन्नोऽग्ने इति द्वाभ्यांओँ इमां वरुण इत्येकेन एवं स्थानत्रयोक्तैर्ब्बह्वृ-चोक्तैः प्रत्येकमष्टभिर्मन्त्रैश्चरुं चतुरावर्त्तं भृगु-गोत्रो भार्गवप्रवरश्च पञ्चावर्त्तं स्रुचा जुहुयात् ।अग्नये स्विष्टिकृते च । ततः कुशण्डिकोक्त-विधिना शेषं समापयेत् । नव वै प्राणा इतिनवाहुतिस्तुतिः । मार्जनान्त इति यजमानाभि-षेकः । तद्विधानन्तु मत्स्यपुराणे ।‘गजाश्वरथ्यावल्मीकसङ्गमात् ह्रदगोकुलात् ।मृदमादाय कुम्भेषु प्रक्षिपेच्चत्वरात्तथा ॥
गोरोचनाञ्च सिद्धार्थान् गन्धान् गुग्गुलुमेव च ।स्नपनं तस्य कर्त्तव्यं पञ्चभङ्गसमन्वितम् ।पूर्त्तकर्त्तुर्महामन्त्रैरेवं कृत्वा विधानतः ॥
’पञ्चभङ्गाश्च शान्तिकपौष्टिककल्पतरूक्ताः ।‘अश्वत्थोडुम्बरप्लक्षवटचूतस्य पल्लवाः ॥
’महामन्त्रैः । सुरास्त्वामभिषिञ्चन्त्वित्यादिभिः ।एतत्पर्य्यन्तं कूपेऽपि । कापिले ।‘ऐशान्यां स्थापयेद्यूपं स्वातात् पञ्चकरान्तरम् ।यूपवृक्षेतिमन्त्रेण सर्पाकारं सुशोभनम् ।पूजयित्वा तु वस्त्राद्यैस्ततो यष्टिं प्रचालयेत् ॥
’मात्स्ये ।‘त्र्यरत्निमात्रो यूपः स्यात् क्षीरिवृक्षविनिर्म्मितः ।यजमानप्रमाणो वा संस्थाप्यो भूतिमिच्छता ॥
’क्षीरिवृक्षोऽश्वत्थादिः । ततो धेनुं सचेलकण्ठांकांस्याद्युक्तविशेषणयुक्तां जलाशयेऽवतारयेत् ।तथा हयशीर्षपञ्चरात्रे ।‘गां सवत्स्यां समानीय सुशीलाञ्च पयस्विनीम् ।कांस्योपदोहां घण्टादिवस्त्रपुष्पोपशोभिताम् ।स्वर्णशृङ्गीं रौप्यखुरां ताम्रपृष्ठां सुशोभनाम् ॥
लाङ्गूलन्यस्तहस्तोऽसौ यजमानः सबान्धवः ।शनैः सन्तारयित्वा तामाचार्य्याय निवेदयेत् ॥
’कांस्योपदोहां कांस्यक्रोडामिति यावत् ।कापिले ।‘अजले जलमुत्पाद्य यजमानः सभार्य्यकः ।तरेद्वै प्राङ्मुखो भूत्वा कृतगोलाङ्गूलाङ्गुलिः ॥
’इदं सलिलं पवित्रं इतिमन्त्रेणावतार्य्यमाणा-मनुमन्त्रयेत् । ततः प्राङ्मुखः सन्नवतारयेत् ।सा च गौः पश्चिमतोऽवतार्य्या । ततः कूल-समीपं गत्वा तर्पयेत् । यथा कापिलम् ।‘पुनः पुच्छोदकेनाथ सतिलेन कुशेन तु ।भुग्नेनैवापसव्येन पितृतीर्थेन तर्पयेत् ॥
गताश्चात्रागमिष्यन्ति ये कुले मम बान्धवाः ।ते सर्व्वे तृप्तिमायान्तु मया दत्तजलेन वै ।ततो मुञ्चामि मन्त्रेण मुञ्चेद्गां वत्ससंयुताम् ॥
’आचार्य्येणान्वारब्ध उत्तीर्य्य आपोऽस्मान्मातरःशुन्धयन्त्वितिमन्त्रेण ऐशान्यामुत्थापयेत् । सुय-वसा भगवतीह भूया इति ब्रयात् । सा यदिहिंकारं करोति तदा हिं कृण्वतीत्यादि जपेत् ।तत उक्तविशेषणयुक्तां धेनुमाचार्य्याय सामगायदद्यात् । ततो यथाशक्ति दक्षिणाञ्च दद्यात् ।एतत्पर्य्यन्तं न कूपे व्यवह्रियतेऽसम्भवात् ॥
* ॥
तत उत्सर्गं कुर्य्यात् । अत्र विशेषमाह रत्ना-करधृतमत्स्यपुराणम् ।‘फलान्याचिन्त्य मनसा विविधानि शुभानि च ।प्रदद्यात् सर्व्वभूतेभ्यो जलपूर्णं जलाशयम् ॥
’कापिलञ्च ।‘ततस्तत्पश्चिमं तीरं गत्वा पूर्व्वाननस्थितः ।जलोत्मर्गं प्रकुर्व्वीत सर्व्वसत्त्वार्थकं ध्रुवम् ॥
’सर्व्वसत्त्वार्थकं सर्व्वभूतप्रयोजनकम् । सर्व्वभूतेभ्यउत्सृजेदित्यर्थः । देवपितृमानुष्याः प्रीयन्ता-मिति पठेदिति शेषः । उत्सृज्य यजमानोब्राह्मणान् स्वस्ति वाचयीतेति दक्षिणाभिरितिशेषः । एतत्पर्य्यन्तं कूपेऽपि । जलाशयोत्सर्गस्यसर्व्वभूतोद्देश्यकत्वेन अपकृष्टचेतनोद्देश्यकत्वेऽपित्यागत्त्वमपि । ततश्च कीटादेर्ममेदमिति स्वीका-रायोग्यत्वेन वेदमेयोद्देश्यगतस्वत्वाजनकत्यागरू-पत्वात् अस्य यागत्वम् । अतएव जलाशयोत्-सर्गमुपक्रम्य मत्स्यपुराणेऽपि । प्राप्नोति तद्-यागबलेन भूय इति यागत्वेनाभिहितम् । ततश्चतज्जलं स्वस्वत्वदूरीकरणेन नद्यादिवत् साधा-रणीकृतम् । अतएव‘सामान्यं सर्व्वभूतेभ्यो मया दत्तमिदं जलम् ।रमन्तु सर्व्वभूतानि स्नानपानावगाहनैः ॥
’इति मन्त्रलिङ्गेन उपादानं विना कस्यापि नस्वत्वमिति । ततश्चास्य यागवदुत्तराप्रतिपत्तेर-श्रुतत्वात् साधारणजनस्य परिग्रहमात्रेण गोत-मोक्तेन स्वामित्वश्रुतेर्यजमानस्यापि तथात्वेनस्वामित्वात् तत्र स्नानादावदोष इति तत्त्वम् ।यथा गोतमः । स्वामी रिक्थक्रयस्रम्बिभाग-परिग्रहाधिगमेषु ब्राह्मणस्याधिकं लब्धं क्षत्त्रि-यस्य विजितं निर्द्दिष्टं वैश्यशूद्रयोरिति । परि-ग्रहोऽनन्यपूर्व्वस्य जलतृणकाष्ठादेः स्वीकारइति मिताक्षरा ॥
ऋक्थाधिकारे व्यक्तमाहा-पस्तम्बः । दायाद्यं शिलोञ्छौ चान्यच्चापरि-गृहीतमिति । अपरिगृहीतमन्यास्वीकृतमस्वा-मिकमिति यावत् । निर्व्विष्टं वेतनलब्धं निर्वेशोभृतिभोगयोरित्यमरकोषजिकाण्डशेषयोः ॥
हयशीर्षे ।‘आपोहिष्टेति तिसृभिः पञ्चगव्यं विनिःक्षिपेत् ।तीर्थतोयं तथा पुण्यं शान्तितोयं द्विजैः कृतम् ॥
गोकुलं पाययेत् पश्चात् द्बिजान् वेदविदस्तथा ।ततोऽन्नं भोजयेद्बिप्रान् दद्यात्तेभ्यश्च दक्षिणाम् ॥
’एतत्पर्य्यन्तं कूपेऽपि ॥
* ॥
कापिले ।‘नागानामष्ट नामानि लिखितानि पृथक् पृथक् ।ततः कुम्भे च निःक्षिप्य गायत्त्र्या च विलोड्य वै ॥
उद्धरेत् पत्रिकामेकां तत्रैव नागमीक्षयेत् ।यस्य नामोद्धरेद्वत्स स वै जलाधिपः स्मृतः ॥
तञ्च संपूज्य गन्धाद्यैर्दद्यात् क्षीरञ्च पायसम् ॥
’पत्र्याण्याम्रस्य योगीश्वरधृतवचनाद्यथा ।‘अष्ठौ नामान्याम्रपत्रे कृत्वा चैव प्रयत्नतः ॥
’तानि च गारुडे ।‘अनन्तो वासुकिः पद्मो महापद्मोऽथ तक्षकः ।कुलीरः कर्कटः शङ्खो ह्यष्टौ नागाः प्रकीर्त्तिताः ॥
’एतानि नामानि आम्रपत्रे लिखित्वा कलस-मध्ये निःक्षिप्य गायत्त्र्या छन्दसा मथ्नामि इतिरघुनाथधृतमन्त्रेणालोड्य यस्य नामोत्तिष्ठति तंयष्ट्यां समावाह्यानेन नागेनास्य जलस्य रक्षाकर्त्तव्या इति ब्राह्मणान् श्रावयेत् । हयशीर्षे ।‘वैणुकं वारुणञ्चैव पुन्नागं नागकेशरम् ।वकुलं चम्पकञ्चैव निम्बञ्चैवाथ खादिरम् ॥
एतेषामेव दारूणां नागयष्ठिः प्रकीर्त्तिता ।सवक्रकोटरं त्यक्त्वा तस्मात् कुर्य्याद्यथेप्सितम् ॥
’तथा च बृहस्पतिः ।‘शूलचक्राङ्कितां कृत्वा स्थापयित्वा जलाशये ।द्वादशाङ्गुलमानन्तु वापीचक्रं प्रकल्पयेत् ॥
षोडशं पुष्करिण्यान्तु विंशतिञ्च सरोवरे ।सागरे हस्तमात्रन्तु लौहं ताम्रन्तु पैत्तलम् ॥
चक्रञ्च विविधं प्रोक्तं कुर्य्यात्तेषां यथेप्सितम् ।शतहस्ता भवेद्बापी द्विगुणा पुष्करिण्यपि ॥
त्रिगुणन्तु सरोमानमत ऊर्द्ध्वन्तु सागरः ॥
’ततो द्वादशपञ्चदशविंशत्येकविंशत्यन्यतमकनि-ष्ठाङ्गुल्यवच्छिन्नहस्तप्रमाणां यष्टिं वक्ष्यमाण-मन्त्रेण स्थापयेत् । ओँ गन्धद्वारेति गन्धवारिणाओँ भद्रं कर्णेभिरिति तैलहरिद्रया ओँ काण्डात्काण्डादिति दूर्व्वाभिः ओँ द्रुपदादिव इत्यादिनासप्तमृत्तिकादिभिः ओँ मधुवातेति पञ्चामृतेनयाः फलिनीरिति फलोदकेन ओँ युवासुवासाइति क्षुद्रघण्टिकायुतां पताकां यष्ट्यां बध्नीयात् ।ओँ यष्ट्यै नमः इतिमन्त्रेण पूजयेत् । पुष्पाद्यल-ङ्कुतां यष्टिं कन्दरसमीपं नयेत् । गुरुस्तु शङ्खादि-निःस्वनै राजतवरुणप्रतिमां उत्तिष्ठेति समुत्थायप्रदक्षिणत्रयं कृत्वा आपोहिष्टा इत्यादिनामन्त्रेण वरुणस्योत्तम्भनमसि इतिमन्त्रेण चजले क्षिपेत् । ततस्तत्रैव खाते शाद्बलगोमय-दधिमधुकुशमहानदीजलपञ्चरत्नानि ओँ येते-वापी रोचने दिव इतिमन्त्रेण क्षिपेत् । ओँ घ्रुवंध्रुवेण मनसा इतिमन्त्रेण यष्टिमभिमन्त्र्य ओँयूपवृक्षेतिमन्त्रेण जलमध्ये आरोपयेत् । ततोजलमातॄः पूजयेत् । यथा ह्रीं पूर्व्वस्याम् ।श्रियं आग्नेय्याम् । शचीं दक्षिणस्याम् । मेधांनैरृत्याम् । श्रद्धां पश्चिमायाम् । विद्यां वाय-व्याम् । लक्ष्मीं उत्तरस्याम् । सरस्वतीं ऐशा-न्याम् । अधो विद्याम् । ऊर्द्ध्वे लक्ष्मीम् । पाद्या-दिभिः संपूज्य अग्निं प्रदक्षिणीकृत्य सूर्य्यादि-द्वात्रिंशद्देवताः पूजयेत् । क्षमस्वेति वरुणंक्षामयेत् । कापिलम् ।‘शङ्खतूर्य्यादिनिनदैस्तथा वै क्षीरधारया ॥
’जलाशयं प्रवेष्टयेदिति शेषः । प्रतिष्ठानन्तरंमात्स्ये ।ततः सहसं विप्राणामथवाष्टशतन्तथा ।भोजयेच्च यथाशक्त्या पञ्चाशद्वाथ विंशतिम् ॥
”इति जलाशयोत्सर्गतत्त्वम् ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
