| YouTube Channel

पुष्करावर्त्तक (puSkarAvarttaka)

 
वाचस्पत्यम्
Sanskrit
पुष्करावर्त्तक
पु०
पुष्करं जलमावर्त्तयति + वृत--णिच्-अण् उपस० मेघाधिपभेदे “पुष्करावर्त्तका नाम येमेघाः पक्षम्भवाः संयोगाद्वायुनोच्छिन्नाः पर्वतानांमहौजसाम् कामगानां प्रवृद्धानां लोकानां शिवमिच्छताम् पुष्करा नाम ते मेघा वृहतस्तोयमत्सराः पुष्क-रावर्त्तकास्तेन कारणेनेह शब्दिताः” विष्णुपु० भीमोभीमसेनवत् उत्तरपदलोपे पुष्करोऽप्यत्र ३०६३ पृष्ठे दृश्यम्