| YouTube Channel

पुष्करमूलं (puSkaramUlaM)

 
शब्दकल्पद्रुमः
Sanskrit
पुष्करमूलं,
क्ली,
(पुष्करस्य मूलमिव मूलमस्य ।पुष्करजातं मूलं वा ।) पुष्करदेशप्रसिद्धौषधि-विशेषः अस्य स्थाने कुष्ठं योजयन्ति तस्य-पर्य्यायः मूलम् पुष्करम् पद्मपत्रकम् ४पुष्करिणी वीरम् पौष्करम् पुष्करा-ह्वयम् काश्मीरम् ब्रह्मतीर्थम् १० श्वासारिः११ मूलपुष्करम् १२ पुष्करजटा १३ पुष्कर-शिफा १४ अस्य गुणाः कटुत्वम् उष्णत्वम् ।कफवातज्वरश्वासारोचककाशशोफपाण्डुनाशि-त्वञ्च इति राजनिर्घण्टः
“विशेषात् पार्श्व-शूलनुत् ।” इति भावप्रकाशः
(व्यवहारोऽस्ययथा, --“भार्गीं पुष्करमूलञ्च रास्नां विल्वं यमानिकाम् ।नागरं दशमूलञ्च पिप्पलीञ्चाप्सु साधयेत्
”इति वैद्यकचक्रपाणिसंग्रहे ज्वराधिकारेभार्ग्यादिक्वाथे
)