पुष्करः (puSkaraH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte Hindi
Hindiपुष्करः
- पुष्कं पुष्टि राति- रा + क
"सरोवर, तालाब"
पुष्करः
- पुष्कं पुष्टि राति- रा + क
"एक प्रकार का ढोल, धौंसा, ताशा"
पुष्करः
- पुष्कं पुष्टि राति- रा + क
सूर्य
पुष्करः
- पुष्कं पुष्टि राति- रा + क
अनावृष्टि या दुर्भिक्ष पैदा करने वाले बादलों का समूह
पुष्करः
- पुष्कं पुष्टि राति- रा + क
शिव का विशेषण
पुष्करः
- पुष्कं पुष्टि राति- रा + क
शिव के सात विशाल प्रभागों में से एक
Wordnet
Sanskrit सारसः, गोनर्दः, गृहसारसः, कामिवल्लभः, कामी, नीलकण्ठः, पुष्करः, पुष्कराख्यः, पुष्कराह्वः, पुष्कराह्वयः, रसिकः, लक्षणः, मैथुनी, लक्ष्मणः, श्येनाख्यः
बादामस्य वर्णस्य एकः बकः।
"सारसस्य चञ्चुः कृशः दृढः च भवति।"
पुष्करः
भरतस्य एकः पुत्रः।
"पुष्करस्य वर्णनं रामायणे वर्तते।"
पुष्करः
कृष्णस्य एकः पुत्रः।
"पुष्करस्य वर्णनं भागवते वर्तते।"
पुष्करः
एकः असुरः।
"पुष्करस्य वर्णनं पुराणेषु वर्तते।"
पुष्करः
राज्ञः नलस्य एकः भ्राता।
"पुष्करः नलस्य अनुजः आसीत्।"
पुष्करः
राजस्थाने वर्तमानं ख्यातं तीर्थस्थानं यद् अजमेरस्य समीपे वर्तते।
"ब्रह्मणः मूर्तिः पुष्करे वर्तते।"
पुष्करः
पुराणानुसारेण ब्रह्माण्डस्य सप्तभागेषु एकः।
"पुष्करम् इति महाद्वीपम् न कोऽपि जानाति।"
पुष्करः
एकः नक्षत्रसमूहः ।
"पुनर्वसुउत्तराषाढाकृत्तिकाउत्तरफल्गुनीपूर्वभाद्रपदाविशाखानक्षत्राणां समूहाय पुष्करः उच्यते"
पुष्करः
एकः जनसमूहः ।
"पुष्करः कुशद्वीपे निवसन्ति"
पुष्करः
मेघविशेषः ।
"पुष्करः दुर्भिक्षस्य वेलां दर्शयति"
पुष्करः
वृकस्य पुत्रः ।
"पुष्करस्य माता दूर्वाक्षी आसीत्"
पुष्करः
वरुणस्य पुत्रः ।
"पुष्करस्य उल्लेखः महाभारते वर्तते"
पुष्करः
जैनानां पञ्चभारतेषु एकः ।
"पुष्करस्य उल्लेखः कोशे वर्तते"
Tamil
Tamilபுஷ்கர: : ஏரி, குளம், பேரிகை, மத்தளம், சூரியன், சிவன்.
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
शब्दकल्पद्रुमः
Sanskritपुष्करः, (पुष + “पुषः कित् ।” उणा० ४ । ४ ।इति करन् । स च कित् ।) रोगविशेषः । नाग-विशेषः । सारसपक्षी । नृपभेदः । स तु नल-राजभ्राता । (यथा, महाभारते । ३ । ५९ । ४ ।“स समाविश्य च नलं समीपं पुष्करस्य च ।गत्वा पुष्करमाहेदमेहि दीव्य नलेन वै ॥
”अयं हि कलिसाहाय्येन अक्षद्यूते नलं विजित्यनिषधाधिपोऽभवत् । एतद्वृत्तान्तं महा-भारते वनपर्व्वणि ५९ अध्याये द्रष्टव्यम् ॥
)वरुणपुत्त्रः । इति मेदिनी । रे, १८७ ॥
(वाद्य-विशेषः । यथा, मार्कण्डेये । १०६ । ६१ ।“प्रावाद्यन्त ततस्त्रत्र वेणुवीणादिदर्द्दुराः ।पणवाः पुष्कराश्चैव मृदङ्गाः पटहानकाः ॥
”)पर्व्वतविशेषः । इति शब्दरत्नावली ॥
* ॥
सप्तद्वीपानां मध्ये द्वीपविशेषः । पुष्करद्वीपवर्णनंयथा, --सूत उवाच ।“शाकद्बीपस्य विस्ताराद्द्विगुणेन समन्ततः ।क्षीरार्णवं समावृत्य द्वीपः पुष्करसंज्ञितः ॥
एक एवात्र विप्रेन्द्राः पर्व्वतो मानसोत्तरः ।योजनानां सहस्राणि चोर्द्ध्वं पञ्चाशदुच्छ्रितः ॥
तावदेव च विस्तीर्णः सर्व्वत्र परिमण्डलः ।स एव द्वीपो यश्चार्द्धमानसोत्तरसंज्ञितः ॥
एक एव महासानुः सन्निवेशाद्द्विधाकृतः ।तस्मिन्द्वीपे स्मृतौ तु द्वौ पुण्यौ जनपदौ शुभौ ॥
अपरौ मानवस्याथ पर्व्वतस्यानुमण्डलौ ।महावीतं स्मृतं वर्षं धातकीषण्डमेव च ॥
स्वादूदकेनोदधिना पुष्करः परिभावितः ।तस्मिन्द्वीपे महावृक्षो न्यग्रोधोऽमरपूजितः ॥
तस्मिन्निवसति ब्रह्मा विश्वात्मा विश्वभावनः ।तत्रैव मुनिशार्दूलाः शिवनारायणालयम् ॥
वसन्त्यत्र महादेवो हरार्द्धो हरिरव्ययः ।संपूज्यमानो ब्रह्माद्यैः कुमाराद्यैश्च योगिभिः ॥
गन्धर्व्वैः किन्नरैर्यक्षैरीश्वरः कृष्णपिङ्गलैः ।सुस्थास्तत्र प्रजाः सर्व्वा ब्राह्मणाः सदृशत्विषः ॥
निरामया विशोकाश्च रागद्वेषविवर्ज्जिताः ।सत्यानृते न तत्रास्तां नोत्तमाधममध्यमाः ॥
न वर्णाश्रमधर्म्माश्च न नद्यो न च पर्व्वताः ।परेण पुष्करस्याथ समावृत्य स्थितो महान् ॥
स्वादूदकः समुद्रस्तु समन्ताद्द्विजसत्तमाः ।परेण तस्य महती दृश्यते लोकसंस्थितिः ॥
”इति कौर्म्मे ४७ अध्यायः ॥
* ॥
पुष्करद्वीपस्थराजा । तस्य रथः । यथा, --“लोकेश्वरः सोऽपि नृभिर्मुनीन्द्रै-र्दैवैः सहेन्द्रैरथ ब्रह्मचारीद्वीपे शुभे पुण्यजनैरुपेतेउवास राजा स तु पुष्करस्थः ॥
तेनैव नाम्ना स तु पुष्करोऽपिसदोच्यते देवगणैः ससिद्धैः ।तेनैव यानेन तथाम्बुजेनबभूव नाम्ना तमथाह्वयन्ति ॥
”इत्यग्निपुराणम् ॥
* ॥
ब्रह्मकृततीर्थविशेषः । तस्य नामान्तरम् । रूप-तीर्थम् २ मुखदर्शनम् ३ । तत्र ज्येष्ठपुष्कर-मध्यमपुष्करकनिष्ठपुष्करनामकास्त्रयो ह्रदाः ।तस्य परिमाणं शतयोजनमण्डलम् । इति पद्म-पुराणम् ॥
* ॥
योगविशेषे गङ्गादीनां पुष्करत्वंयथा, --“मकरस्थो यदा भानुस्तदा देवगुरुर्यदि ।पूर्णिमायां भानुवारे गङ्गा पुष्कर ईरितः ॥
गङ्गोत्तर्य्यां प्रयागे च कोटिसूर्य्यग्रहैः समः ।सिंहसंस्थे दिनकरे तथा जीवेन संयुते ॥
पूर्णिमायां गुरोर्व्वारे गोदावर्य्यास्तु पुष्करः ।तत्र स्नानञ्च दानञ्च सर्व्वं कोटिगुणं भवेत् ॥
मेषसंस्थे दिवानाथे देवानाञ्च पुरोहिते ।सोमवारे सिताष्टम्यां कावेरी पुष्करो मतः ॥
कर्क्कटस्थे दिवानाथे तथा जीवेन्दुवासरे ।अमायां पूर्णिमायां वा कृष्णा पुष्कर उच्यते ॥
”इति स्कन्दपुराणे पुष्करखण्डे श्रीशैलमाहात्म्यम् ॥
मेघनायकविशेषः । तत्परिज्ञानं यथा, --“त्रियुते शाकवर्षे तु चतुर्भिः शेषिते क्रमात् ।आवर्त्तं विद्धि सम्बर्त्तं पुष्करं द्रोणमम्बुदम् ॥
”इति ज्योतिस्तत्त्वम् ॥
तस्य फलम् । यथा, --“पुष्करे दुष्करं वारि शस्यहीना वसुन्धरा ।विग्रहोपहता लोकाः पुष्करे जलदाधिपे ॥
”इति ज्योतिषम् ॥
* ॥
क्रूरवार-भद्रातिथि-भग्नपादनक्षत्र-घटिताशुभ-जनकयोगविशेषः । यथा, --“पुनर्व्वसूत्तराषाढा कृत्तिकोत्तरफल्गुनी ।पूर्व्वभाद्रं विशाखा च रविभौमशनैश्चराः ॥
द्वितीया सप्तमी चैव द्वादशी तिथिरेव च ।एतेषामेकदा योगे भवतीति त्रिपुष्करः ॥
* ॥
जाते तु जारजो योगो मृते भवति पुष्करः ।त्रिगुणं फलदो वृद्धौ नष्टे हृते मृते तथा ॥
प्रथमे मासि वर्षे वा कुटुम्बमपि पीडयेत् ।देवोऽपि यदि वा रक्षेत् तस्य पुत्त्रो न जीवति ॥
अतस्तद्दोषशान्त्यर्थं होमयेदयुतं बुधः ।अशक्तश्च सुवर्णादिदानं कुर्य्याद्यथाविधि ॥
”समर्थश्चेद् वराहसंहितोक्तं अयुतहोमादिकंकुर्य्यात् । वाक्यं यथा, --श्रीविष्णुरोम् तत् सदद्यामुके मास्यमुकपक्षेऽमुक-तिथौ अमुकगोत्रः श्रीअमुकदेवशर्म्मा अमुक-गोत्रस्य प्रेतस्यामुकदेवशर्म्मणस्त्रिपुष्करयोग-कालीनमरणजन्यदोषशमनकामः इदं काञ्चनंश्रीविष्णुदैवतं यथासम्भवगोत्रनाम्ने ब्राह्मणायाहंददे । ततो दक्षिणां दद्यात् । अन्यत्र पूजाहोम-कर्म्मणी करिष्ये । इति विशेषः । एतत् सर्व्व-मशौचेऽपि कर्त्तव्यम् । यथा दक्षः ।सुस्थकाले त्विदं सर्व्वं सूतकं परिकीर्त्तितम् ।आपद्गतस्य सर्व्वस्य सूतकेऽपि न सूतकम् ॥
”इति शुद्धिकारिका ॥
* ॥
अपि च ।“पुनर्व्वसूत्तराषाढा कृत्तिकोत्तरफल्गुनी ।पूर्व्वभाद्रं विशाखा च षडेते वै त्रिपुष्कराः ॥
द्वितीया सप्तमी चैव द्वादशी तिथिरेव च ।शनिर्भौमो रविश्चैव वाराश्चैते त्रिपुष्कराः ॥
एते त्रिपुष्करा ज्ञेयास्तथा द्बादशमासिके ।द्विमासे च तथा प्राप्ते षण्मासे च चतुर्थके ॥
षोडशे मासि संपूर्णे कुटुम्बं पीडयेदध्रुवम् ।अन्तेऽप्युपान्ते मध्ये च पुष्करो हन्ति नान्यथा ॥
तद्दोषप्रशमार्थन्तु होमयेदयुतं बुधः ।तिलब्रीहियवांश्चैव कृत्वाज्येन समन्तथा ॥
क्षीरेणैव तथाचार्य्यो जुहुयाद्भक्तिभावतः ।चरुञ्च श्रपयेत्तत्र प्रास्ते कुर्य्याद्वलिन्तथा ॥
वैकङ्कोडुम्बराश्वत्थैः प्रत्येकाष्टोत्तरं शतम् ।एकैकं त्रित्रिसंयुक्तं दर्भेण परिवेष्टितम् ॥
यमाय वकङ्कतेन धर्म्मायोडुम्बरेण च ।अश्वत्थैश्चित्रगुप्ताय जुहुयात् क्रमशस्तथा ॥
तद्वद् घृततिलांश्चैव तथा समिधमेव च ।एकीकृत्य समं सर्व्वं चरुमाश्रित्य होमयेत् ॥
यवव्रीहितिलैर्युक्तं तण्डुलं श्रपयेच्चरुम् ।दधिमध्वाज्यसंयुक्तं होमः सहस्रसंख्यया ॥
वैकङ्कोडुम्बराश्वत्थैर्होमयेद्विधिपूर्व्वकम् ।यमं धर्म्मं चित्रगुप्तं पुष्करं पुरुषं तथा ॥
तिथिं वारं तथा ऋक्षं पूजयित्वा तु होमयेत् ।पञ्चवर्णेन चूर्णेन कुर्य्याद्धि पद्ममण्डलम् ॥
यमं धर्म्मं चित्रगुप्तं स्थापयेत् क्रमशस्ततः ।तिलप्रपूरिते पात्रे लौहे च कृष्णवाससा ॥
वेष्टयित्वा यमं तत्र स्थापयेल्लौहनिर्म्मितम् ।घृतप्रपूरिते पात्रे कांस्यपात्रे निरञ्जनम् ॥
रौप्याकृतिं शुक्लवस्त्रवेष्टितं तत्र पूजयेत् ।गुडप्रपूरिते पात्रे ताम्रपात्रे च मन्त्रिणम् ॥
स्वर्णाकृतिं रक्तवस्त्रवेष्टितं तत्र पूजयेत् ।क्षीरप्रपूरिते पात्रे प्रस्तरपात्रे च पुष्करम् ॥
कृष्णाकृतिं कृष्णवस्त्रवेष्टितं तत्र पूजयेत् ।सुवर्णतुल्यमर्द्धं वा अथवा शक्तिभावतः ॥
प्रतिमाश्च समाः सर्व्वाः क्रमात्तत्र नियोजिताःव्रीहौ यवे तथा धान्ये क्रमात् पात्रत्रयन्ततः ॥
नूतने च क्रमात् पीठे स्थापयेद्विधिपूर्व्वकम् ।मण्डलस्य चतुर्द्दिक्षु चतुःकुम्भांश्च स्थापयेत् ॥
दधिगुडक्षीरपूर्णान् प्रकल्प्य संयुतेऽन्ततः ।अथवा तन्मूलदेशे सचूतपल्लवांस्तथा ॥
पीतवस्त्रेण संयुक्तं कुर्य्याद्घटचतुष्टयम् ।चन्द्रातपं तदुपरि विचित्रं परिकल्पितम् ॥
कुम्भानाञ्च चतुःपार्श्वे यवतिलैर्युक्ततण्डुलान् ।स्थापयेयुः क्रमात्तत्र पूजाकाले द्विजोत्तमाः ॥
मण्डलस्य तथा पूर्व्वे वारुणं घटमर्पयेत् ।नानादेवान् गणेशादीन् ग्रहादींश्च समर्चयेत् ॥
हुत्वा यथाक्रमं तत्र वलिं दद्याद्विचक्षणः ।पयोघृतेन क्षीरेण स्नापयित्वा यथाक्रमम् ॥
स्वेन स्वेनैव मन्त्रेण पूजयित्वा च होमयेत् ॥
एवं विधिप्रकारेण यः प्रेतं न तु होमयेत् ।पुष्करारिष्टदोषस्तु चतुष्पात्तस्य सम्भवेत् ॥
संवत्सरे तथा पूर्णे षोडशे मासि वै तथा ।षण्मासाभ्यन्तरे तस्य सुतहानिं विनिर्द्दिशेत् ॥
अथवा स्वामिनं हन्ति द्वितीयं भ्रातरन्तथा ।तृतीयं सर्व्वहानिः स्यात् सुतवित्तविनाशनम् ॥
प्रेतारिष्टविनाशाय यमादीन् यो न होमयेत् ।सर्व्वाणि तस्य नश्यन्ति गोमहिषादीनि सर्व्वतः ॥
एवंविधिकृतं होमं यः कर्त्तुमक्षमो भवेत् ।होमं कृत्वा यथाशक्त्या धेनुमेकां प्रदापयेत् ॥
अस्मिन् कृते न सन्देहः प्रेतारिष्टं न पीडयेत् ।न विघ्नो यजमानस्य न चारिष्टं प्रजायते ॥
एतद्धोमं विनिर्द्दिष्टं यत्नतो न करोति यः ।न रक्षति यमस्तस्य एभिर्मासैश्च वंशजम् ॥
सुतो भ्राता तथा जाया पतिः श्वशुर एव च ।माता पिता स्वसा वापि पितृव्यो भगिनीपतिः ॥
ज्येष्ठभ्राता पतिश्चापि स्वामी चापत्यमेव च ।एकैकं वर्षसंपूर्णे कुटुम्बं पीडयेदध्रुवम् ॥
षोडशे मासि संपूर्णे बान्धवान् परिपीडयेत् ॥
बान्धवानामभावे च वास्तुवृक्षो न जीवति ॥
त्रिपुष्करे तथा दोषे यः प्रेतं न तु होमयेत् ।देवता यदि वा रक्षेत् तस्य पुत्त्रो न जीवति ॥
यत्किञ्चिद्दानमुत्सृज्य शुद्धो भवति मानवः ।न रक्षति यमस्तस्य यदि होमं न कारयेत् ॥
तस्मात् विधिप्रकारेण पुष्करारिष्टशान्तये ।यमं धर्म्मं चित्रगुप्तं पूजयित्वा च होमयेत् ॥
मण्डले घटमारोप्य पूजयित्वा यथाक्रमम् ।विधिपूर्व्वं तथा हुत्वा प्रान्ते दद्याद्वलिं बुधः ॥
प्रभाते च तथा रात्रावशौचान्तदिने तथा ।आचार्य्यश्च प्रकुर्व्वीत श्रपयेच्च चरुं ततः ॥
विप्रक्षत्त्रिययोर्दर्भैः पिष्टैर्वैश्यस्य निर्म्मितम् ।शूद्रस्य गोमयेनापि प्रतिमां दापयेत्ततः ॥
दत्त्वा मधुघृताक्तञ्च चरुं पश्चाच्च दापयेत् ।ततोऽरिष्टः प्रशान्तः स्यात्ततो होमं समापयेत् ॥
संकल्प्य विधिना पूर्व्वं वस्त्रयुग्मेन यत्नतः ।आचार्य्यं वृणुयात्तत्र पश्चादृत्विजमेव च ॥
”इति वराहसंहितोक्तपुष्करशान्तिप्रमाणम् ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
