पुष (puSa)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
In this section, you'll find information about the dhatus (verbal roots) related to your search. This includes details like dhatu information, forms, and any available commentaries.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
Englishपुष r. 1st cl. (पोषति) पुष्टौ भ्वा० पर० अक० सेट् । 4th cl. (पुष्यति) and 9th cl.
(पुष्णाति)
1. To cherish or nurture, to rear, to bring up.
2. To
cause to thrive, to develop.
3. To support, to maintain, to bear.
4. To further, to augment, to enhance, to increase.
5. To get, to
possess, to have, to enjoy.
6. To show, to display, to evince.
7.
To be increased. पुष्टौ अक० पोषणे सक० क्र्या० प० सेट् । (इर) पुषिर r. 4th cl.
(पुष्यति) पुष्टौ दिवा० पर० अक० अनिट् । r. 10th cl. (पोषयति-ते)
1. To
put on, to wear.
2. To promote.
3. To maintain. धृतौ चु० उभ० सक०
सेट् । With परि or सम् to cherish much, or bring up with care.
Wilson
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Monier Williams 1872
EnglishBenfey
Englishधातुपाठः (Krishnacharya)
Sanskrit पुष्
पुष
पुष्टौ
भ्वादिः
सकर्मकः
सेट्
परस्मैपदी
पोषति
पुष्
पुष
पुष्टौ
दिवादिः
सकर्मकः
अनिट्
परस्मैपदी
पुष्यति
पुष्
पुष
पुष्टौ
क्र्यादिः
सकर्मकः
सेट्
परस्मैपदी
पुष्णाति
पुष्
पुष
धारणे
चुरादिः
सकर्मकः
सेट्
उभयपदी
पोषयति-ते
धातुप्रदीपः
Sanskritपुषँ पुष पुष्टौ
- पोषति । पोषिता । अपोषीत् । पोषितः । पुष्णाति । पुष्यतीति । गणान्तरपाठात् ।। 700 ।।
पुषँ पुष पुष्टौ
- पुष्यति पुपोष पोष्टा पोक्ष्यति अपुषत् अपुषताम् अपोषि अपुक्षाताम् व्यत्यपुक्षत अपूपुषत् पुपुक्षति पोपुष्यते स्वपोषम् पुष्यः 76
पुषँ पुष पुष्टौ
- पुष्णाति अपोषीत् पोषिता पोषतीति भ्वादौ, पुष्यतीति दैवादिकस्य 60
पुषँ पुष धारणे
- पोषयत्याभरणम् अन्यत्र पोषति, पुष्णाति, पुष्यति 212
Wordnet
Sanskrit पौष्टिक, पुष्टिकर, पुष्टिद, पोष, पोषक, पोषिन्, क्षुमत्, परिपोषक, पुष, भरि, भरिमन्
यः पुष्टिं ददाति।
"भृतकानां कृते पौष्टिकम् अन्नं दुर्लभम् अस्ति।"
शब्दकल्पद्रुमः
Sanskritवाचस्पत्यम्
Sanskritक्षीरतरङ्गिणी
Sanskritपुषँ पुष पुष्टौ
- पोषति पोषिता अपोषीत् पुषः कित् (उ0 44) पुष्करम् कलश्च (तु0उ0 45) पुष्कलम् स्तनिहृषिपुषि (उ0 329) इति पोषयित्नुः स्वे पुषः (3440) इति णमुल्-स्वपोषं पुष्टः दिवादौ (473) पुष्यति पुषादिद्युतादि (3155) इति लुङ्यङ्-अपुषत् क्र्य्यादौ (960) पुष्णाति चुरादौ पुष धाणे (10195) पोषयति 679
पुषँ पुष पुष्टौ
- अकर्मकममुमाहुः-वराह इव पुष्यति पुषादिद्युतादि (3155) इति अङ्-अपुषत् आगणन्तात् पुषादयः पोष्टा पुष्यसिद्धौ नक्षत्रे (31116) भ्वादौ (1462) पोषति क्र्य्यादौ (960) पुष्णाति चुरादौ पुष धारणे (10195)-पोषयति 70
पुषँ पुष पुष्टौ
- पुष्णाति पोषिता दिवादौ (473) पुष्यति
पोष्टा, पुष्करं पुष्कलम् भ्वादौ (1462) पोषति 56
पुषँ पुष धारणे
- पोषयत्याभरणान् भ्वादौ (1462) पोषति, दिवादौ (473) पुष्यति, क्र्यादौ (960) पुष्णाति 214
धातुवृत्तिः
Sanskritपुषँ पुष (अर्थः) पुष्टौ
( पोषति पुपोषु पुपोषिथ पोषिता षोषिष्यति अपोषीत् ) शिर्षि पिर्षि शुष्यतिपुष्यती इति श्यना निर्देशादयं सेट् तथा पुषादीत्यड्विधावपि दैवादिकस्य ग्रहणं, सेट्कत्वात् क्सोपि न भवति (स्वपोषं पोषति) "स्वे पुषः'' इति णमुल् अत्र स्वशब्दः पिव्रिर्हिश्यते तेन पित्पर्यायवचनस्य तद्विशेषार्थस्य च द्व्यर्थमित्युक्तत्वात् स्वशब्दे तत्पर्यायवाचिनि विशेषवाचिनि चोपपदे प्रत्यय इति गोपोषां धनपोषमिति दैवादिकस्य भवति ( पोषितः पुषितः पुष्टमिति पोषितमिति ण्यन्तस्य पोषयतीति पोपयित्नुः ) "स्तनिर्हाषेगदिमदिपु पिभ्यो णेरित्नुच्'' इति ण्यन्तादित्नुच् "अयामन्ता'' इति णेरयोदेशः अयं दिवादिः क्र्यादिश्च धारणार्थश्चरादिः नन्वेक एव पुषिः विकरणभेदाय पुनः पठ्यते क्क चिच्चायां सेट् अन्यत्र पाठादनिट् इत्यर्थादार्धधातुके विकल्पितेट्कत्वात् "यस्य विभाषा'' इतीटा न भविव्यं निष्ठायाम् नैतत् यस्य वाचनिक इङ्किल्पस्तस्यैव तत्राश्रयणात् 687
पुषँ पुष (अर्थः) पुष्टौ
(पुष्यति पुपोष, पुपोषिथ, ) क्र्यादिनियमान्नित्यमिट् भारद्वाजनियमस्तुउपदेशेऽजन्तानामत्वतां चेदिह न भवति ( पोष्टा पोक्ष्यति पुष्यतु अपुष्यत्, पुष्येत्, पुष्यात्, ) लिङौ (अपुषत्) "पुषादि'' इत्यादिनाङ्परस्मैपदे तङि तु (व्यत्यपुक्षत) इति क्सो भवति कर्मणि तु ( अपोषि, अपुक्षाताम्, अपुक्षत ) इति चिण्क्सौ भवतः (पुपुक्षति पोपुक्ष्यते पोपोष्टि पोषयति, अपूपुषत्) पुष्यन्त्यस्मिन्नारब्धानि कार्याणीति (पुष्यः, ) "पुष्यसिद्धौ नक्षत्रे'' इति क्यप् निपात्यते पुष्येण युक्तः ( पौषाः, ) "नक्षत्रेण युक्तः कालः'' इत्यण् (पौषमहः, ) "तिष्युपुष्ययोर्नक्षत्राणि'' इति यलोपः स्वपोषां पुष्यतीत्यादि पोषतिवन्नेयम् "स्वे पुषः'' इति णमुल् ( पुषति, पोषति, ) इति द्वयं शपि पुष्णातीति क्र्यादौ पोषयतीति चुरादौ 74
पुषँ पुष (अर्थः) पुष्टौ
(पुष्णाति पुष्णीतः पुषाण अपुष्णात् पष्णीयात् पुपोष पुपोषिथ पोषिता ) इत्यादि पोषतिवत् पुष्यतीत्यनिट् (पूषा) पु( 1 ) ( 1 ) पोषतीति पाठो युक्तः पुषतीति पाठे संज्ञापूर्वका विधिरनित्य इति गुणाभावः षतीति पुष वृद्धावित्यस्य शपि 57
पुषँ पुष (अर्थः) धारणे
( पोषयति ) आभरणम् पोषति, पुष्यति, पुष्णाति, इति शप्श्यन्श्नासुपुष्टौ 215
कृदन्तरूपमाला
Sanskrit1 {@“पुष पुष्टौ”@} 2 ‘धारणे पोषयेत्, पुष्टौ पुष्येत् पुष्णाति पोषति।
3 इति देवः।
पोषकः-षिका, पोषकः-षिका, 4 पुपोषिषकः-पुपुषिषकः-षिका, पोपुषकः-षिका
पोषिता-त्री, पोषयिता-त्री, पुपोषिषिता-पुपुषिषिता-त्री, पोपुषिता-त्री
5 प्रपोषन्-न्ती, पोषयन्-न्ती, पुपोषिषन्-न्ती, पुपुषिषन्-न्ती
-- पोषिष्यन्-न्ती-ती, पोषयिष्यन्, पुपोषिषिष्यन्-पुपुषिषिष्यन्-न्ती-ती
-- -- पोषयमाणः, पोषयिष्यमाणः, -- पोपुष्यमाणः, पोपुषिष्यमाणः
प्रपुट्-प्रपुड्-पुषौ-पुषः
-- -- -- 6 पोषितम्-पुषितम्-तः, पोषितः, पुपोषिषितः-पुपुषिषितः-पोपुषितः-तवान्
पुषः, 7 पोषणः, 8 प्रपोषी-धनपोषी, पोषः, पुपोषिषुः-पुपुषिषुः, पोपुषः
पोषितव्यम्, पोषयितव्यम्, पुपोषिषितव्यम्-पुपुषिषितव्यम्, पोपुषितव्यम्
पोषणीयम्, पोषणीयम्, पुपोषिषणीयम्-पुपुषिषणीयम्, पोपुषणीयम्
पोष्यम्, पोष्यम्, पुपोषिष्यम्-पुपुषिष्यम्, पोपुष्यम्
ईषत्पोषः-दुष्पोषः-सुपोषः
-- -- पुष्यमाणः, पोष्यमाणः, पुपोषिष्यमाणः-पुपुषिष्यमाणः, पोपुष्यमाणः
पोषः, पोषः, पुपोषिषः-पुपुषिषः, पोपुषः
C।
‘स्वपोषमपुषद् युष्मान् या पक्षिमृगशावकाः।’ भ।
का।
६। २६। 9 पोषितुम्, पोषयितुम्, पुपोषिषितुम्-पुपुषिषितुम्, पोपुषितुम्
पुष्टिः, पोषणा, पुपोषिषा-पुपुषिषा, पोपुषा
पोषणम्, पोषणम्, पुपोषिषणम्-पुपुषिषणम्, पोपुषणम्
पोषित्वा-पुषित्वा, पोषयित्वा, पुपोषिषित्वा-पुपुषिषित्वा, पोपुषित्वा
प्रपुष्य, प्रपोष्य, प्रपुपोषिष्य-प्रपुपुषिष्य, प्रपोपुष्य
10 स्वपोषं-धनपोषं-गोपोषं-रैपोषं वा पोषति।
पोषम् २, पुषित्वा २ -पोषित्वा २, पोषम् २, पोषयित्वा २, पुपोषिषम् २ -पुपुषिषम् २, पुपोषिषित्वा २ -पुपुषिषित्वा २, पोपुषम् २
पोपुषित्वा २
11 इतीत्नुच्प्रत्ययः।
‘अयामन्ताल्वा- य्येत्न्विष्णुषु’ 12 इति णेरयादेशः।
पोषयित्नुः = पोषणकर्ता।]] पोषयित्नुः, 13 इति करन्प्रत्यये, तस्य कित्त्वेन, बाहुलकात् प्रत्ययादेः ककारस्येत्संज्ञाभावे च रूपम्।]] पुष्करम्, 14 इति कलन्प्रत्यये रूपम्।
अत्रापि बाहुलकात् प्रत्ययककारस्य न लोप इति ज्ञेयम्।]] पुष्कलम्।
01 (१०२६)
02 (१-भ्वादिः-७००। अक। सेट्। पर।)
03 (श्लो। १७१)
04 [[१। ‘रलो व्युपधाद्धलादेः संश्च’ (१-२-२६) इति सन्नन्ते सर्वत्र कित्त्वविकल्पः। तेन रूपद्वयं बोध्यम्। एवं शुद्धात् क्त्वायामपि ज्ञेयम्।]]
05 [[B। ‘वेषैर्मेष्यतमैः प्रपोषदशुभप्रश्रेषिभिः श्लेषति प्रोष्यन्…।’ धा। का। १। ८८।]]
06 [[२। निष्ठायाम्, ‘उदुपधाद् भावादिकर्मणोरन्यतरस्याम्’ (१-२-२१) इति कित्त्व- विकल्पः। तेन रूपद्वयम्।]]
07 [[३। नन्द्यादित्वात् कर्तरि ल्युप्रत्यये ऽनादेशे च रूपम्।]]
08 [[४। ताच्छीलिके णिनिप्रत्यये गुणे च रूपम्।]]
09 [पृष्ठम्०८७३+ २४]
10 [[१। ‘स्वे पुषः’ (३-४-४०) इति णमुल्। ‘कषादिषु यथाविध्यनुप्रयोगः’ (३-४-४६) इति णमुल्प्रयोजकस्यैव धातोरनुप्रयोगः। सूत्रे ‘स्वे--’ इति अर्थग्रहणम्, स्वरूपग्रहण च। तेन रैपोषम्, गोपोषम् इत्यादिषु ‘स्व’ इत्यस्यार्थस्य सदृशार्थकेषु च णमुल् भवति।]]
11 [[२। ण्यन्तात्, ‘स्तनिहृषिपुषि--’ [द। उ। १-१४०]
12 (६-४-५५)
13 [[३। ‘पुषः कित्’ [द। उ। ८। ७१]
14 [[४। ‘पुषः कलन् किच्च’ [द। उ। ८-११८]
1 {@“पुष पुष्टौ”@} 2 3 ‘सूर्यापाये न खलु कमलं पुष्यति स्वामभिख्याम्।’ इति 4, ‘पुपोष लावण्यमयान् विशेषान् ज्योत्स्नान्तराणीव कलान्तराणि।।’ इति 5 च महाकविप्रयोगात् सकर्मकत्वम्।
‘वराह इव पुष्यति--’ इत्यादिप्रयोगदर्शनादकर्मकत्वमप्यस्य धातोः संगच्छत इति ज्ञेयम्।]] ‘धारणे पोषयेत् पुष्टौ पुष्येत् पुष्णाति पोषति।’ 6 इति देवः।
पोषकः-षिका, पोषकः-षिका, पुपुक्षकः-क्षिका, पोपुषकः-षिका
इत्यादीनि सर्वाण्यपि रूपाणि दैवादिकतुष्यतिवत् 7 ज्ञेयानि।
8 9 पुष्यः, 10 11 स्वपोषं 12 रैपोषम्, गोपोषम् धान्यपोषम् वा पुष्यति।
13 गोपोषी।
01 (१०२७)
02 (४-दिवादिः-११८२। सक। अनि। पर।)
03 [[[अ]
04 (मेघसन्देशे ईई-१३)
05 (कुमारसम्भवे १-२५)
06 (श्लो। १७१)
07 (७५८)
08 [पृष्ठम्०८७४+ २९]
09 [[१। ‘पुष्यसिध्यौ नक्षत्रे’ (३-१-११६) इति नक्षत्रेऽभिधेये क्यप्। अन्यत्र पोष्यम् इति ण्यदेव। पुष्यन्त्यर्था अस्मिन् इति पुष्यः = नक्षत्रविशेषः।]]
10 [[आ। ‘महारथः पुष्यरथं रथाङ्गी क्षिप्रं क्षपानाथ इवाधिरूढः।।’ शि। व। ३। २२।]]
11 [[२। ‘स्वे पुषः’ (३-४-४०) इति णमुल्। ‘स्वे’ इति पर्यायाणामपि ग्रहणात् रैपोषम् इत्यादीनां साधुत्वम्। ‘कषादिषु यथाविध्यनुप्रयोगः’ (३-४-४६) इति णमुलन्तस्यैव धातोरनुप्रयोगः।]]
12 [[B। ‘प्रस्थापयत् पूगकृतान् स्वपोपं पुष्टान् प्रयत्नाद् दृढगात्रबन्धान्।’ भ। का। ३। ४।]]
13 [[३। ‘सुप्यजातौ--’ (३-२-७८) इति ताच्छील्ये णिनिः।]]
1 {@“पुष पुष्टौ”@} 2 ‘धारणे पोषयेत्, पुष्टौ पुष्येत् पुष्णाति पोषति।’ 3 इति देवः।
पोषकः-षिका, पोषकः-षिका, पुपोषिषकः-पुपुषिषकः-षिका, पोपुषकः-षिका
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिकपोषतिवत् 4 ज्ञेयानि।
शतरि 5 पुष्णन् 6 -ती, इति रूपमिति विशेषः।
01 (१०२८)
02 (९-क्र्यादिः-१५२९। अक। सेट्। पर।)
03 (श्लो। १७१)
04 (१०२६)
05 [[४। ‘क्र्यादिभ्यः--’ (३-१-८१) इति श्ना विकरणप्रत्ययः। ‘श्नाऽभ्यस्तयोरातः’ (६-४-११२) इत्याकारलोपः। णत्वम्।]]
06 [[C। ‘प्रुष्णन् सतां प्रियमयं प्लुषिताङ्गरागः पुष्णन् मुदं मृगदृशां रिपुधाम मुष्णन्।’ धा। का। ३। १२।]]
1 {@“पुष धारणे”@} 2 आस्वदीयः।
‘धारणे पोषयेत्, पुष्टौ पुष्येत् पुष्णाति पोषति।’ 3 इति देवः।
पोषकः-षिका, पुपोषयिषकः-षिका
इत्यादीनि सर्वाण्यपि रूपाणि चौरादिकतोलयतिवत् 4 ज्ञेयानि।
5 प्रपोषितः।
01 (१०२९)
02 (१०-चुरादिः-१७५१। सक। सेट्। उभ।)
03 (श्लो। १७१)
04 (७५७)
05 [[ड्। ‘दोर्भ्या ग्रासयतां प्रपोषितरुषां निर्दालनोद्योगिनां तेषां विक्रमणैरपाटि पटिमा शिक्षाऽष्यपोटि स्फुटम्। धा। का। ३। ४३।]]
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
