| YouTube Channel

पुलिन्दः (pulindaH)

 
Apte
English
पुलिन्दः [pulindḥ] पुलिन्दकः [pulindakḥ], पुलिन्दकः 1
N.
of a barbarous tribe (usually in
pl.
).
A man of this tribe, a savage, barbarian, mountaineer
वन्यैः पुलिन्दैरिव वानरैस्ताः क्लिश्यन्त उद्यानलता मदीयाः
R.*
16.19, 32.
A hunter
तेषामन्तराणि वागुरिकशबरपुलिन्दचण्डालारण्यचरा रक्षेयुः Kau.
A.
2.1.19.
Apte Hindi
Hindi
पुलिन्दः
पुं*
- -
शिकारी
पुलिन्दः
पुं*
ब*व* - -
एक जंगली जाति
Wordnet
Sanskrit
Synonyms:
शैलाटः, पर्वतारोही, पुलिन्दः, पार्वतीयः
noun
पर्वतम् आरुह्यमाणः।
"नेपालस्थं सगरमाथाख्यं पर्वतशिखरं प्रप्रथमम् आरुह्यमाणौ शैलाटौ एडमण्ड-हिलरीमहोदयः तथा तेनसिंहः स्तः।"
Synonyms:
पुलिन्दः
noun
एकः राजा
"पुलिन्दस्य उल्लेखः भागवतपुराणे वर्तते"
अमरकोशः
Sanskrit
Word: पुलिन्दः
Root: पुलिन्द
Gender: पुं
Number: all
Meaning(s):
barbarian
mountaineer
mast or rib of a ship
man or the king of this tribe
Shloka(s):
2|10|20|2 भेदाः किरातशबरपुलिन्दा म्लेच्छजातयः॥ (शूद्रवर्गः)
Synonym(s):
2|10|20|2 पुलिन्दः (पुलिन्द) (पुं) barbarian, mountaineer, mast or rib of a ship, man or the king of this tribe
Related word(s):
परा_अपरासंबन्धः शूद्रः
जातिः मनुष्यः
शब्दकल्पद्रुमः
Sanskrit
पुलिन्दः,
पुं,
(पुल महत्त्वे + “कुणिपुल्योः किन्दच् ।”उणा० ८५ इति किन्दच् ।) चण्डाल-भेदः म्लेच्छशब्दवाच्यः इत्यमरभरतौ
तस्योत्पत्तिर्यथा, --पुलस्त्य उवाच ।“एवं गतेषु त्रैलोक्यं दानवेषु पुरन्दरः ।जगाम ब्रह्मसदनं सह देवैः शचीपतिः
तत्रापश्यत् देवेशं ब्रह्माणं कमलोद्भवम् ।ऋषिभिः सार्द्धमासीनं पितरं स्वञ्च कश्यपम्
ततो ननाम शिरसा शक्रः सुरगणैः सह ।ब्रह्माणं कश्यपञ्चैव तांश्च सर्व्वांस्तपोधनान्
प्रोवाचेन्द्रः सुरैः सार्द्धं देवनाथं पितामहम् ।पितामह ! हृतं राज्यं बलिना वलिना मम
ब्रह्मा प्रोवाच शक्रैतत् भुज्यते स्वकृतं फलम् ।शक्रः पप्रच्छ भो ब्रूहि किं मया दुस्कृतं कृतम्
कश्यपोऽप्याह देवेश ! भ्रूणहत्या कृता त्वया ।दित्युदरात्त्वया गर्भः कृतो वै बहुधा बलात्
पितरं प्राह देवेन्द्रो मातुर्दूषणतो विभो ! ।कर्त्तनं प्राप्तवान् गर्भो यदशौचा हि साभवत्
ततोऽब्रवीत् कश्यपस्तु मातुर्दोषे सदासताम् ।गतस्ततो विनिहतो दोषोऽपि कुलिशेन भोः
तच्छ्रुत्वा कश्यपवचः प्राह शक्रः पितामहम् ।विनाशं पाप्मनो ब्रूहि प्रायश्चित्तं विभो ! मम
ब्रह्मा प्रोवाच देवेशं वशिष्ठः कश्यपस्तथा ।हितं सर्व्वस्य जगतः शक्रस्यापि विशेषतः
शङ्खचक्रगदापाणिर्माधवः पुरुषोत्तमः
तं प्रपद्यस्व शरणं ते श्रेयो विधास्यति
सहस्राक्षोऽपि वचनं गुरूणां निशम्य वै ।प्रोवाच स्वल्पकालेन कस्मिन् प्राप्यो बहूदयः
ता ऊचुर्देवता मर्त्त्ये स्वल्पकाले बहूदयः
“इत्येवमुक्तः सुरराड्विरिञ्चिनामरीचिपुत्त्रेण कश्यपेन ।तथैव मित्रावरुणात्मजेनवेगान्महीपृष्ठमवाप्य तस्थौ
कालञ्जरस्योत्तरतः सुपुण्य-स्तथा हिमाद्रेरपि दक्षिणस्याम् ।कुशस्थलात् पूर्व्वत एव विश्रुतोवसोः पुरात् पश्चिमतोऽवतस्थे
यत्राथ चक्रे भगवान् मुरारिं-र्वास्तव्यमव्यक्ततनुस्त्वमूर्त्तिः ।ख्यातिं जगामाथ गदाधरेतिमहाघवृन्दस्य शितः कुठारः
यस्मिन् द्विजेन्द्राः श्रुतिशास्त्रसंयुताःसमानतां यान्ति पितामहेन ।मरुत्पितॄन् यत्र संप्रपूज्यभक्त्या त्वनन्ये नहि चेतसैव ।फलम्महामेधमखस्य मानवालभन्त्यनन्त्यं भगवत्प्रसादात्
महानदी यत्र सुरर्षिकन्याबालापदेशाद्धिमशैलमेत्य ।चक्रे जगत् पापविनष्टमग्र्यंसन्दर्शनप्राशनमज्जनेन
”तत्र शक्रः समभ्येत्य महानद्यास्तटेऽद्भुते ।आराधनाय देवस्य कृत्वाश्रममवस्थितः
प्रातःस्नायी त्वधःशायी एकभक्तिर्ह्ययाचितः ।तपस्तेपे सहस्राक्षः स्तुवन् देवं गदाधरम्
तस्यैवं तप्यतः सम्यक् जितसर्व्वेन्द्रियस्य ।कामक्रोधविहीनस्य साग्रः संवत्सरो गतः
ततो गदाधरः प्रीतो वासवं प्राह नारद ! ।गच्छ प्रीतोऽस्मि भवतो मुक्तपापोऽसि साम्प्र-तम्
निजं राज्यञ्च देवेश ! प्राप्स्यसि त्वचिराद्दिवः ।यतिष्यामि यथा शक्र ! भाविश्रेयो यथा तव
इत्येवमुक्तोऽथ गदाधरेणविसर्जितः स्नाप्य मनोहरायाम् ।स्नातस्य देवस्य ततः पुरस्तात्संप्रोचुरस्माननुशासयस्व
प्रोवाच तान् भीषणकर्म्मकारान्नाम्ना पुलिन्दा मम पापसम्भवाः ।वसध्वमेवान्तरमद्रिमुख्ययो-र्हिमाद्रिकालाञ्जरयोः पुलिन्दाः
इत्येवमुक्त्वा सुरराट् पुलिन्दान्विमुक्तपापः सुरसिद्धयक्षैः ।संपुज्यमानोऽनुजगाम चाश्रमंमातुस्तदा धर्म्मनिवासमाद्यम्
”इति वामने ७३ अध्यायः