| YouTube Channel

पुलिनं (pulinaM)

 
शब्दकल्पद्रुमः
Sanskrit
पुलिनं,
क्ली,
(पोलतीति पुल महत्त्वे + “तलि-पुलिभ्याञ्च ।” उणा० ५३ इति इनन् सच कित् ।) तोयोत्थिततटम् इत्यमरः ।१०
चर इति चडा इति भाषा
(यथा, रामायणे ९५ ।“क्वचिन्मणिनिकाशोदांक्वचित् पुलिनशालिनीम् ।क्वचित् सिद्धजनाकीर्णां पश्य मन्दाकिनींनदीम्
”)जलादचिरोत्थितं तटम् इति भरतः
तत्-क्षणतोययुक्तद्वीपम् इति सुभूतिः
क्रमेणो-त्थितं तटम् इति स्वामी
जलमध्यस्थमुत्थितंतटम् इति पञ्जिका
द्वीपम् इति त्रिकाण्ड-शेषः
(यक्षविशेषे, पुं यथा, महाभारते ।१ ३२ १९ ।“उलूकश्वसनाभ्याञ्च निमिषेण पक्षिराट् ।प्ररुजेन संग्रामं चकार पुलिनेन
”)