| YouTube Channel

पुर्व (purva)

 
शब्दसागरः
English
पुर्व r. 1st cl. (पुर्वति) To fill. r. 10th cl. (पुर्वयति)
1. To dwell or inhabit
2. To invite. भ्वा० पर० सक० सेट्, चु०
Yates
English
पुर्व पुर्वति 1.
a. To fill. (क) पुर्वयति
10.
a. To inhabit
to invite.
Wilson
English
पुर्व r. 1st cl. (पुर्वति) To fill. r. 10th cl. (पुर्वयति)
1 To dwell or inhabit.
2 To invite.
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
पुर्व्
मूलधातुः:
पुर्व
धात्वर्थः:
पूरणे
गणः:
भ्वादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
पूर्वति
धातुप्रदीपः
Sanskrit
पुर्वँ पुर्व
मानकरूपान्तरम् - पर्वँ
पर्व
मानकरूपान्तरम् - मर्वँ
मर्व पूर्तौ
- पूर्वति पर्वति मर्वति ।। 576-578 ।।
शब्दकल्पद्रुमः
Sanskrit
पुर्व्व, पूर्त्तौ पूर्णीकरणे इति कविकल्पद्रुमः
(भ्वा०-पर०-सक०-सेट् ।) पञ्चमस्वरी पूःपुरौ पुरः पुर्व्वति पयसा कुम्भं चेटी इतिदुर्गादासः
वाचस्पत्यम्
Sanskrit
पुर्व निवासे
भ्वा०
प०
सक०
सेट् पूर्वति अपूर्वीत् ओष्ठ्योपधोऽयमित्यन्ये
पुर्व पूर्वणे
भ्वा०
प०
सक०
सेट पूर्वति अपूर्वीत् अन्तःस्थो-पधोऽयम्
कृदन्तरूपमाला
Sanskrit
1 {@“पुर्व पूरणे”@} 2 ‘पूर्व--’ इति क्षीरस्वामी।
‘पूरणे पूर्वतीति स्यात्, पूर्वयेण्णौ निकेतने।।’ 3 इति देवः।
पूर्वकः-र्विका, पूर्वकः-र्विका, पुपूर्विषकः-षिका, पोपूर्वकः-र्विका
पूर्विता-त्री, पूर्वयिता-त्री, पुपूर्विषिता-त्री, पोपूर्विता-त्री
4 पूर्वितम्-तः-तवान्
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिकगूर्वतिवत् 5 बोध्यानि।
6 पूर्तिः इति क्तिनि रूपम्।
प्रासङ्गिक्यः
01
=>
(१०२२)
02
=>
(१-भ्वादिः-५७६। सक। सेट्। पर।)
03
=>
(श्लो। १६२)
04
=>
[[C। ‘दुदूर्विषून् धूर्वितुमेव गूर्वणं मूर्वन्तमापूर्वितपर्वताध्वरम्।।’ धा। का। १। ७३।]]
05
=>
(४१६)
06
=>
[[२। ‘राल्लोपः’ (६-४-२१) इति झलादौ किति ङिति प्रत्यये परतः वकारस्य लोपः।]]
1 {@“पुर्व निकेतने”@} 2 ‘पूरणे पूर्वतीति स्यात् पूर्वयेत् णौ निकेतने।।’ 3 इति देवः।
‘पूर्व निकेतने’ इति मैत्रेयः।
अत्र क्षीरस्वामी-- “पूर्वनिकेतनम् = आद्यनिवासः।
पारायणे-द्वौ धातू” इति।
4 5 पूर्वकः-र्विका, पुपूर्वयिषकः-षिका, पूर्वयिता-त्री, पुपूर्वयिषिता-त्री
पूर्वयन्-न्ती, पुपूर्वयिषन्-न्ती-ती
पूर्वयिष्यन्-न्ती-ती, पुपूर्वयिषिष्यन्-न्ती-ती
पूर्वयमाणः, पुपूर्वयिषमाणः, पूर्वयिष्यमाणः, पुपूर्वयिषिष्यमाणः, 6 पूर्वितम्-तः, पुपूर्वयिषितः-तवान्
पूर्वयिटू-यिषौ-यिषः
पूर्वः, पुपूर्वयिषुः, पूर्वयितव्यम्, पुपूर्वयिषितव्यम्, पूर्वणीयम्, पुपूर्वयिषणीयम्, पूर्व्यम्, पुपूर्वयिष्यम्, ईषत्पूर्वः-दुष्पूर्वः-सुपूर्वः, पूर्व्यमाणः, पुपूर्वयिष्यमाणः
पूर्वः, पुपूर्वयिषः, पूर्वयितुम्, पुपूर्वयिषितुम्, पूर्वणा, पुपूर्वयिषा, पूर्वणम्, पुपूर्वयिषणम्, पूर्वयित्वा, पुपूर्वयिषित्वा, प्रपूर्व्य, प्रपुपूर्वयिष्य, पूर्वम् २, पूर्वयित्वा २, पुपूर्वयिषम् २, पुपूर्वयिषित्वा २।
प्रासङ्गिक्यः
01
=>
(१०२३)
02
=>
(१०-चुरादिः-१६६६। अक। सेट्। उभ।)
03
=>
(श्लो। १६२)
04
=>
[पृष्ठम्०८७१+ २८]
05
=>
[[१। ‘उपधायां च’ (८-२-७८) इति सर्वत्र दीर्घः।]]
06
=>
[[आ। ‘मञ्चाग्रपूर्वितनृपे शिशुना रणं वः स्यादेव मानपरिजंसकमीड्यधाम्नाम्।।’ धा। का। ३। ३१।]]