| YouTube Channel

पुरूरवाः (purUravAH)

 
Wordnet
Sanskrit
Synonyms:
पुरूरवाः
noun
प्राचीनः चन्द्रवंशीयः राजा।
"राज्ञः पुरुरवसः इन्द्रस्य अप्सरसः ऊर्वश्याः प्रेमकथा प्रसिद्धा अस्ति।"
शब्दकल्पद्रुमः
Sanskrit
पुरूरवाः [स्]
पुं,
(पुरु प्रचुरं यथा स्यात्तथारौतीति “पर्व्वतश्च पुरुर्नाम यत्र यज्ञे पुरू-रवाः ।” ९० २२ इति महाभारतोक्तवचनात्पुरौ पर्व्वते रौतीति वा पुरु + रु + “पुरू-रवाः ।” उणा० २३१ इति असिप्रत्य-येन निपातनात् साधुः ।) बुधस्य पुत्त्रः सतु चन्द्रवंशीयादिराजः तत्पर्य्यायः बौधः २ऐलः उर्व्वशीरमणः इति हेमचन्द्रः
यथा, अग्निपुराणे ।“ततो बुधाश्रमं प्रायादिडा रूपाश्रिता सती ।बुधेनान्तरमासाद्य मैथुनायोपमन्त्रिता
सोमपुत्त्राद्बुधाद्राजन् ! तस्या जज्ञे पुरूरवाः ।जनयित्वा ततः सा तं पुनः सुद्युम्नतां गता
”अपि ।“इलोदरे धर्म्मिष्ठं बुधः पुत्त्रमजीजनत् ।अश्वमेधशतं साग्रमकरोद्यः स्वतेजसा
पुरूरवा इति ख्यातः सर्व्वलोकनमस्कृतः ।हिमवच्छिखरे रम्ये आराध्य जनार्द्दनम् ।लोकैश्वर्य्यमगाद्राजा सप्तद्बीपपतिस्तदा
केशिप्रभृतयो दैत्यास्तस्य भृत्यत्वमागताः ।उर्व्वशी यस्य पत्नीत्वमगात् सद्रूपमोहिता
सप्तद्वीपा वसुमती सशैलवनकानना ।धर्म्मेण पालिता तेन सर्व्वलोकहितैषिणा
चामरग्राहिणी कीर्त्तिः सम्पन्नैकाङ्गवाहिका ।विष्णुप्रसादाद्देवेन्द्रो ददावर्द्धासनन्तदा
धर्म्मार्थकामान्धर्म्मेण सममेवाभ्यपालयत् ।धर्म्मार्थकामास्तं द्रष्टुमाजग्मुः कौतुकात् पुरा
”इति मात्स्ये २४ अध्यायः
(अस्य विशेषविवरणन्तु हरिवंशे २६ अध्यायेद्रष्टव्यम्
*
) विश्वदेवः इति जटाधरः
पार्व्वणश्राद्धदेवः यथा, --“पुरूरवा माद्रवाश्च पार्व्वणे समुदाहृतौ
”इति श्राद्धतत्त्वे बृहस्पतिः