| YouTube Channel

पुरुषकुञ्जरः (puruSakuJjaraH)

 
शब्दकल्पद्रुमः
Sanskrit
पुरुषकुञ्जरः,
पुं,
(पुरुषेषु कुञ्जरः श्रेष्ठ इति पुरुषःकुञ्जर इवेत्युपमितसमासो वा ।) पुरुषश्रेष्ठः ।यथा, अमरे ५९ ।“स्युरुत्तरपदे व्याघ्रपुङ्गवर्षभकुञ्जराः ।सिंहशार्द्दूलनागाद्याः पुंसिश्रेष्ठार्थवाचकाः
”(यथा, रामायणे १० ।“हन्तानार्य्ये ! ममामित्रे ! सकामा भव केकयि ! ।मृते मयि गते रामे वनं पुरुषकुञ्जरे
”)