| YouTube Channel

पुरुषकारः (puruSakAraH)

 
Apte Hindi
Hindi
पुरुषकारः
पुं*
पुरुषः-कारः -
"मानवप्रयत्न, मनुष्यचेष्टा, मर्दाना काम, मर्दानगी, पराक्रम"
पुरुषकारः
पुं*
पुरुषः-कारः -
"पौरुष, वीर्य"
Wordnet
Sanskrit
Synonyms:
पुरुषकारः
noun
एकः वैयाकरणः
"पुरुषकारस्य उल्लेखः विवरणपुस्तिकायाम् अस्ति"
Tamil
Tamil
புருஷகார: : முயற்சி, மனிதச் செயல்.
शब्दकल्पद्रुमः
Sanskrit
पुरुषकारः,
पुं,
(पुरुषस्य कारः करणम् ।) पुरु-षस्य कृतिः पौरुषम् चेष्टा यथा, --मनुरुवाच ।“दैवे पुरुषकारे किं ज्यायस्तं ब्रवीहि मे ।अत्र मे संशयो देव छेत्तुमर्हस्यशेषतः
मत्स्य उवाच ।स्वमेव कर्म्म दैवाख्यं विद्धि देहान्तरार्जितम् ।तस्मात् पौरुषमेवेह श्रेष्ठमाहुर्मनीषिणः
प्रतिकूलन्तथा दैवं पौरुषेण विहन्यते ।मङ्गलाचारयुक्तानां नित्यमुत्थानशीलिनाम्
येषां पूर्व्वकृतं कर्म्म सात्त्विकं मनुजोत्तम ! ।पौरुषेण विना तेषां केषाञ्चिद्दृश्यते फलम्
कर्म्मणा प्राप्यते लोके राजसस्य तथा फलम् ।कृच्छ्रेण कर्म्मणा विद्धि तामसस्य तथा फलम्
पौरुषेणाप्यते राजन् ! मार्गितव्यं फलं नरैः ।दैवमेव विजानन्ति नराः पौरुषवर्ज्जिताः
तस्मात्त्रिकालसंयुक्तं दैवं सफलं भवेत् ।पौरुषं दैवदम्पत्या काले फलति पार्थिव !
दैवं पुरुषकारश्च कालश्च मनुजोत्तम ! ।त्रयमेतन्मनुष्यस्य पिण्डितं स्यात् फलावहम्
कृषेर्वृष्टिसमायोगाद्दृश्यन्ते फलसिद्धयः ।तास्तु काले प्रदृश्यन्ते नैवाकाले कथञ्चन
तस्मात् सदैव कर्त्तव्यं सधर्म्मं पौरुषं नृभिः ।एवन्ते प्राप्नुवन्तीह परलोकफलं ध्रवम्
लालसाः प्राप्नुवन्त्यर्थान्न दैवपरायणाः ।तस्मात् सर्व्वप्रयत्नेन पौरुषे यत्नमाचरेत्
त्यक्त्वालसान् दैवपरान् मनुष्या-नुत्थानयुक्तान् पुरुषान् हि लक्ष्मीः ।अन्विष्य यत्नाद्बृणुते नृपेन्द्र !तस्मात् सदोत्थानवता हि भाव्यम्
”इति मात्स्ये दैवपुरुषकारको नाम १९५ अध्यायः
(यथा नीतिशास्त्रे ।“यथा ह्येकेन चक्रेण रथस्य गतिर्भवेत् ।तथा पुरुषकारेण विना दैवं सिध्यति
”)