| YouTube Channel

पुरुषकं (puruSakaM)

 
शब्दकल्पद्रुमः
Sanskrit
पुरुषकं,
क्ली,
पुं,
(पुरुष एवेति पुरुष + स्वार्थे कन् ।)घोटकानामूर्द्ध्वस्थितिः इति त्रिकाण्डशेषः
शीखपाँओ इति हिन्दीभाषा
(यथा, माघे ।५ ५६ ।“श्रीवृक्षकी पुरुषकोन्नमिताग्रकायः
”“पुरुषकोऽश्वानां स्थानकभेदः यदुक्तम्, --‘पश्चिमेनाग्रपादेन भुवि स्थित्वाग्रपादयोः ।ऊर्द्ध्वप्रेरणया स्थानमश्वानां पुरुषः स्मृतः
’पुरुष एव पुरुषकस्तेन पुरुषकेण स्थानके-नान्नमित ऊर्द्ध्वावस्थितोऽग्रकायः पूर्व्वकायो यस्यस तथोक्तः ।” इति तट्टीकायां मल्लिनाथः
)