| YouTube Channel

पुरुः (puruH)

 
Apte Hindi
Hindi
पुरुः
वि* - पृ पालनपोषणयोः - कु
‘फुलों का पराग
पुरुः
वि* - पृ पालनपोषणयोः - कु
"स्वर्ग, देवलोक"
पुरुः
वि* - पृ पालनपोषणयोः - कु
"एक राजकुमार का नाम, चन्द्रवंशी राजाओं में छठा राजा"
Wordnet
Sanskrit
Synonyms:
पुरुः
noun
भारतीयः राजा।
"पुरुः सिकन्दरस्य अधीनतां व्यमन्यत।"
Synonyms:
पुरुः
noun
नृपनामविशेषः, ययातेः शर्मिष्ठायां जातः पुत्रः।
"पुरुः पितुः ययातेः इच्छां पूरयितुं तस्मै स्वं यौवनं अर्पितवान्।"
Synonyms:
स्वर्गः, सुरलोकः, नाकः, त्रिदिवः, त्रिदशालयः, सुरलोकः, द्योः, द्यौ, त्रिविष्टपम्, मन्दरः, अवरोहः, गौः, रमतिः, फलीदयः, स्वः, अपरलोकः, अमरलोकः, इन्द्रलोकः, देवलोकः, देवनिकायः, परुः, पुरुः, षः, सुखाधारः, सौरिकः, हः
noun
हिन्दुमतानुसारेण सप्तलोकेषु तत् स्थानं यत्र पुण्यात्मा निवसति।
"सत्कर्मणा मनुष्यः स्वर्गे गच्छति।"
Synonyms:
कौसुमम्, धूलिका, परागः, पांसुः, पुरुः, मधूली
noun
पुष्पाणां केसरेषु वर्तमानं रजः।
"चित्रपतङ्गिका एकस्मात् पुष्पात् कौसुमं गृहीत्वा अन्यं पुष्पं नयति।"
शब्दकल्पद्रुमः
Sanskrit
पुरुः,
पुं,
(पिपर्त्ति पूर्य्यते वेति पॄ + “पॄभिदि-व्यधिगृधिधृषिदृशिभ्यः ।” उणा० २४ ।इति कुः “उदोष्ठ्यपूर्व्वस्य ।” १०२ ।इति उत्वम् “उरण्रपरः ।” ५१ ।इति रपरत्वम् ।) देवलोकः नृपभेदः चययातेः कनिष्ठपुत्त्रः (आद्यूदन्तोऽपि पाठः ।)परागः इति मेदिनी रे, ५८
दैत्यः इत्यु-णादिकोषः
नदीभेदे, त्रि इति शब्दरत्ना-वली
(राजविशेषः यथा, महाभारते ।२ २७ ।“सुकर्म्मा चेकितानश्च पुरुश्चामित्रकर्षणः
”चाक्षुषमनोः पुत्त्रभेदः यथा, मार्कण्डेये ७६ ५५ ।“उरूपुरुशतद्युम्नप्रमुखाः सुमहाबलाः ।चाक्षुषस्य मनोः पुत्त्राः पृथिवीपतयोऽभवन्
”पर्व्वतभेदः यथा, महाभारते ९० २२ ।“पर्व्वतश्च पुरुर्नाम यत्र जातः पुरूरवाः ।भृगुर्यत्र तपस्तेपे महर्षिगणसेविते
”शरीरम् यथा, शङ्करविजये १३ अध्याये ।“पुरुसंज्ञे शरीरेऽस्मिन् शयनात् पुरुषो हरिः ।शकारस्य षकारोऽयं व्यत्ययेन प्रयुज्यते
”)प्रचुरे, त्रि इत्यमरः ६३
(यथा, नैषधे १९ ।“स्फुरति तिमिरस्तोमः पङ्कप्रपञ्च इवोच्चकैःपुरुसितगरुच्चञ्चच्चञ्चूपुटस्फुटचुम्बितः
”)