पुरी (purI)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Spoken Sanskrit
English पुरी purI sanctuary or adytum of a temple
गर्भ garbha adytum or sanctuary of a temple
गर्भगृह garbhagRha sanctuary or adytum of a temple
Apte
Englishपुरी [purī], 1 A city, town
शशासैकपुरीमिव 1.3
पुरीमव- स्कन्द लुनीहि नन्दनम् 1.51.
A stronghold.
The body. -मोहः the Dhattūra plant. -लोकाः town's folk, citizens.
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Apte 1890
EnglishMonier Williams Cologne
EnglishHindi
Hindiगढ़ शहर,
Apte Hindi
Hindiपुरी
- पुरि + ङीष्
"शहर, नगर"
पुरी
- पुरि + ङीष्
गढ़
पुरी
- पुरि + ङीष्
शरीर
Shabdartha Kaustubha
Kannadaपुरी
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ನಗರ /ಪಟ್ಟಣ
निष्पत्तिः - > पुर (अग्रगमने) - "कः" (३-१-१३५) । गौरा० "ङीष्" (४-१-४१)
व्युत्पत्तिः - > पुरति इति
प्रयोगाः - > "ऐरावतमथारुह्य श्वेताद्रिमिव जङ्गमम् । पुरीं द्वारवतीं शौरेराजगाम पुरन्दरः"
उल्लेखाः - > याद० १६-१
पुरी
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ದೇಹ /ಶರೀರ
L R Vaidya
EnglishBopp
LatinWordnet
Sanskrit पुरी
दशविधेषु संन्यासिषु एकः।
"पुर्यः शृङ्गेर्यां निवसन्ति।"
नगरं, नगरी, पुरम्, पुरी, नगरम्, नगरी, पट्टनम्, पट्टम्, पुरिः
नगरवासिनः।
"पुरवासिनः नेतायाः हत्यायाः विरोधं कुर्वन्ति।"
पुरम्, पुरी, नगरम्, नगरी, पूः, पत्तनम्, पृथुपत्तनम्, पट्टनम्, पट्टम्, पुरिः, कर्वटम्, ढक्कः, पल्ली, पुटभेदनम्, निगमः
जनानां वस्तिस्थानं यत् हट्टादिविशिष्टस्थानम् तथा च यत्र बहुग्रामीयव्यवहाराः भवन्ति।
"मुम्बई इति भारतस्य बृहत्तरं पुरम्।"
Sanskrit Tibetan
Tibetankhab
१) कुल २) गृह ३) ४) पुरी ५) सभा ६) सूचिका ७) सूची
grong
१) कुल २) ग्राम ३) जनपद ४) पुरी
अभिधानचिन्तामणिः
Sanskritनगरी पूः पुरी द्रङ्गः पत्तनं पुटभेदनम् ॥ ९७१ ॥
निवेशनमधिष्ठानं स्थानीयं निगमोऽपि च ।
नगरी (स्त्री), पुर् (स्त्री), पुरी (त्रि), द्रङ्ग (पुं), पत्तन (क्ली), पुटभेदन (क्ली), निवेशन (क्ली), अधिष्ठान (क्ली), स्थानीय (क्ली), निगम (पुं)
अभिधानरत्नमाला
Sanskritपत्तन
पत्तन, अधिष्ठान, निगम, पुटभेदन, नगर, नगरी, द्रङ्ग, स्थानीय, पुर्, पुरी, पुर
पत्तनं स्यादधिष्ठानं निगमः पुटभेदनम् ।
नगरं नगरी द्रङ्गः स्थानीयं पूः पुरी पुरम् ॥ २८५ ॥
verse 2.1.1.285
page 0034
नाममाला
Sanskritपुर्, पुरी, नगर, पट्टन, पुटभेदन
पूः पुरी नगरं चैव पट्टनं पुटभेदनम् ॥ ९७ ॥
verse 0.1.1.97
page 0049
शब्दकल्पद्रुमः
Sanskritपुरी, (पुरि + वा ङीष् ।) नगरी । इत्य-मरः । २ । २ । १ ॥
(यथा, श्रीधरस्वामिधृत-भृगुवचनम् ।“नृपावासः पुरी प्रोक्ता विशां पुरमपीष्यते ॥
”)अस्या लक्षणादि पुरशब्दे नगरशब्दे चलिखितम् । तद्वर्णनं यथा, महाभारते ।३ । १५ । ५ -- ८ ।“पुरी समन्ताद्विहिता सपताका सतोरणा ।सचक्रा सहुडा चैव सयन्त्रखनका तथा ॥
सोपशल्यप्रतोलीका साट्टाट्टालकगोपुरा ।सचक्रग्रहणी चैव सोल्कालातावपोथिका ॥
सोष्ट्रिका भरतश्रेष्ठ ! सभेरीपणवानका ।सतोरणाङ्कुशा राजन् ! सशतघ्नीकलाङ्गला ॥
सभुशुण्ड्यश्मगुडका सायुधा सपरस्वधा ।लोहचर्म्मवती चापि साग्निः सगुडशृङ्गिका ॥
”“पताका ध्वजाञ्चलः । तोरणानि बहिर्द्वाराणि ।चक्राणि योधगणाः । हुडास्तदाश्रयस्थानानिभाषायां बुरुज्संज्ञानि । अन्ये तु विण्मूत्रोत्-सर्ज्जनशृङ्गाणि हुडा इत्याहुः उदाहरन्ति च ।‘कल्यन्ते हुडशृङ्गाणि रथस्योपरि सूरिभिः ।विण्मूत्रस्पर्शशुद्ध्यर्थं करादिस्पर्श उद्यते ॥
’इति ॥
यन्त्राण आग्नेयौषधबलेन दृषत्पिण्डोत्क्षेप-णानि महान्ति भाषायां कामान्संज्ञकानि ।क्षुद्राणि सीसगुलिकोत्क्षेपणयन्त्राणि वन्दुक्संज्ञ-कानि । खनकाः सुरङ्गद्वारा गुप्तमार्गकर्त्तारः ॥
उपशल्याः लोहमुखाः कीलाः तद्युक्ताः प्रतोल्योरथ्यामार्गा यस्यां सा । अट्टालकाः उभरिगृहाः ।गोपुराणि पुरद्वाराणि । साट्टानि अट्टेन अन्नेनसहितानि अट्टालकादीनि यस्यां सा । साट्टेतिविशेषणं उपशल्यस्य ग्रामान्तस्य रथ्यायाश्चा-वृत्या सम्बध्यते । चक्रग्रहणी सन्यनिग्राहिकामोर्च्चा इति म्लेच्छप्रसिद्धा । सोल्कालाताव-पोथिका सोल्कमलातं ज्वालासहितमुल्मुकंयस्यां सा सोल्कालाता इति केचित् । अवबद्धाःपोथिका यन्त्रबद्धाः काष्ठपाषाणादयो रिपूणा-मुपरिपातनाय वस्यामिति प्राञ्चः । उल्केवोल्काप्राणहरत्वात् यन्त्रोत्क्षिप्तो गोलः । अलातंसकाष्ठदण्डलोहमयमाग्नेयं प्रहरणं बाण इतिभाषायां प्रसिद्धम् । तयोरप्रत्याख्येयगत्योरपिपोथिका पातयित्र्यः मन्त्रमय्यः शक्तयः कर्णा-येन्द्रदत्तशक्तिसदृशा तद्युक्ताः सोल्कालाता-वपोथिका ॥
* ॥
उष्ट्रिका मृच्चर्म्ममयानिभाण्डानि । सर्ष्टिकेति पाठे ऋष्टय आयुध-विशेषाः ॥
* ॥
अश्मगुडकाः वर्त्तुलीकृताःपाषाणाः । लोहमयानि चर्म्माणि कमठपृष्ठा-काराणि प्रहारवारकाणि ढाल इति प्रख्या-तानि । साग्निः आग्नेयौषधसहिता गुडाःगोलकाः । शृङ्गिकास्तदुत्क्षेपकयन्त्राणि ।शत्रूणामुपरि पातनाय तप्तो गुडो द्रवीभूतोयत्र शिखरे स्थाप्यते तत्सहितेत्यन्ये ॥
” इतिनीलकण्ठकृतभारतभावदीपनामटीका ॥
वाचस्पत्यम्
Sanskritपुरि(री) स्त्री पूर्य्यते पॄ--इ किच्च । १ नगरे २ नद्याञ्च उज्-ज्वलद० वा ङीप् । ३ राजनि सि० कौ० । तत्र जिगीषुनगरे वर्णनीयपदार्थाः भा० व० दर्शिता यथा“अभिस रेण सर्वेण तत्र युद्धमवर्त्तत । पुरी समन्ताद्वि-हिता सपताका सतोरणा । सचक्रा सहुडा चैवसयन्त्रखनका तथा । सोपशल्यप्रतीलीका साट्टाट्टा-लकगोपुरा । सचक्रग्रहणी चैव सोल्कालातावपो-थिका । सोष्ट्रिका भरतश्रेष्ट! सभेरीपणवानका । सतोमराङ्कुशा राजन्! सशतघ्नीकलाङ्गला । सभुशुण्ड्यश्मगुडका सायुधा सपरश्वधा । लोहचर्मवती चापि साग्निःसगुडशृङ्गिका । शास्त्रदृष्टेन विधिना सुयुक्ता भर-तषभ! । रथैरनेकैर्विविधैर्गदसाम्बोद्धवादिभिः । पुरषैःकुरुशार्दूल! समर्थः प्रतिवारणे । अतिख्यातकुलैर्वीरै-र्दृष्टवीर्य्यैश्च संयुगे । मध्यमेन च गुल्मेन रक्षिभिःसा सुरक्षिता । उदक्षिप्तगुलमैश्च तथा हयैश्च सपता-किमिः । आघोपितञ्च नगरे न पातव्या सुरेति वै ।पमार्द परिरक्षद्भिरुग्रसेनोद्धवादिभिः । प्रमत्तेष्वभिघातंहि कुर्य्याच्छाल्वो नराधिपः । इति कृत्वाऽप्रमत्तास्तेसर्वे वृष्ण्यन्धकाः स्थिताः । आनर्ताश्च, तथा सर्वे मटनर्त्तकगायनाः । वहिर्निवासिताः क्षिप्रं रक्षद्भिर्बित्त-सञ्चयम । संक्रमा भेदिताः सर्वे नावच्च प्रतिषेधिताः ।परिखाश्चापि कौरव्य । कीलेः सुनिचिता कृताः । उद-पानाः कुरुश्रेष्ठ! तथैवाप्यम्बरोषकाः । समन्तात् क्रोश-मात्रञ्च कारिता विषमा च भूः । प्रकृत्या विषमं दुर्गंप्रकृत्या च सुरक्षितम् । प्रकृत्या चायुधोषेतं विशेषेणतदाऽनच! । सुरक्षितम् सुगुप्तं च सर्वायुधसमन्त्रितम् ।तत्पुरं भरतश्रेष्ठ । यथेन्द्रभवनं तथा । न चामुद्रोमिनि-र्याति न चामुद्रः प्रवेश्यते । वृष्ण्यन्धकपुरी राजंस्तदा सौभसमागमे । अनुरथ्यासु सर्वासु चत्वरेषु चकौरव! । बलं बभूव राजेन्द्र! पभूतनजवाजिमत् । दत्त-वेतनभक्तं च दत्तायुधपरिच्छदम् । कृतोपधानं चतदा बलमासीन् महाभुज! । न कुप्यवेतनी कश्चिन्नचातिक्रान्तवेतनी । नानुग्रहभृतः कश्चिन्न चादृष्टपरा-क्रमः । एवं सुविहिता राजन् द्वारका भूरिदक्षिणा ।आहुकेन सुगुप्ता च राज्ञा राजीवलोचन!” भा० व० १५ अ० ।“अभितः परित उपरितश्चायुधानां सरणं निःसरण-मभिसारस्तेन सर्वेणाच्छिद्रेण सर्वाभ्यो दिग्भ्यो युगपद-विरलायुधसमूहागमेनेत्यर्थः । पताका ध्वजाञ्चकःतोरणानि वहिर्द्वाराणि चक्राणि योधगणाः हुडास्त-दाश्रयस्थानानि भाषायां (वुरुज)इति संज्ञानि । अन्ये तुविण्मूत्रोत्सर्जनशृङ्गाणि हुडा इत्याहुः उदाहरन्ति च“कल्प्यन्ते हुडशृङ्गाणि रथस्योपरि धूरपि विण्भूत्र-स्पर्शशुद्ध्यर्थं करादिस्पर्श उद्यते” इति । यन्त्राण्याग्ने-यौषधबलेन दृषत्पिण्डीत्क्षेपखानि महान्ति(कमान) इतिसंज्ञानि क्षुद्राणि सीसगुलिकोत्क्षेपणानि (वन्दुक) इतिसंज्ञानि । खनकाः सुरङ्गद्वारा गुप्तमार्गकर्त्तारः । उपशल्यालोहमुखाः कीलास्तद्युक्ताः प्रतोल्यो रथ्यामार्गा यस्या साअट्टालिका उपरिगृहाः गोपुराणि साट्टानि अट्टेनान्नेनसहितानि अट्टालकादीनि यस्यां सा साट्टेति विशेषणम्उपशल्यस्य ग्रामान्तस्य रथ्यायाश्चावृत्त्या संवध्यते । चक्र-ग्रहणी सैन्यनिग्राहिका (मोर्चा) इति म्लेच्छप्रसिद्धा ।सोल्कालातावपोथिका सोल्कलातं ज्वालासहितमु-लमुकं यस्यां सा सोल्कालाता अवबद्धाः पोथिकायन्त्रबद्धाः काष्ठपाषाणादयो रिपूणामुपरिपातनाय यस्यामितिप्राञ्चः । उल्केवोल्का प्राणहरत्वाद्यन्त्रोत्क्षिप्तो गोलःअलातं सकाष्ठदण्डलोहमयमाग्नेयं प्रहरणं (वाण)इति भाषायां प्रसिद्धं तयोरप्रत्याख्येयनत्योरवपोथिकाः पातयित्र्यो गन्त्रमय्यः शक्तयः कर्णायेन्द्रदत्तशक्तिसदृशास्तद्युक्ताः सोल्कालातावपोक्षिकाः । उष्ट्रिश्चा मृच्चर्म-मयाणि भाण्डानि सर्ष्टिकेति पाठे ऋष्टय आयुथचि-शेषाः । अश्मगुडका वर्तुलीकृताः पाषाणाः लोहमयानिचर्माणि कमठपृष्ठाकाराणि प्रहारवारकाणि (ढास) सा-ग्निः आग्नेयौषधसहिता गुडागोलकः शृङ्गिकास्तदुत्क्षेपकयन्त्राणि शत्रूणासुपरिपातनाय तप्तोगुडो द्रवीभूतोयत्र शिखरे स्थाप्यते तत्सहितेत्यन्ये । मध्यमो गुल्मःयत्र स्थितेन योधसङ्घेन चतुर्दिगवस्थिता रिपवोद्रष्टुंवाणादिना प्रहर्तुं च शक्यन्ते तादृशमुच्चस्थानम् । उत्-क्षिप्तगुल्मैः परकीयगुल्मोच्चाटनकरैः । अप्रमत्ता इति-च्छेदः । संक्रमा नदीसेतवः । कीलैः शूलैः सुनिचिताव्याप्नाः । “उदपानाः कूपाः “अम्बरीषो भवेद्भ्राष्ट्र” इतिविश्वः गुप्ताग्निरित्यन्ये । विषमलोहकण्टकाद्याकीर्णा ।अनुरथ्यासु प्रतिरथ्यम् । वेतनं धनं भक्तं नित्यभोजनंकृतोपधानं कृतविशेषम् । कुप्यं स्वर्णरूप्येतरधनं ताम्रा-दि । ग्रहोरणोद्यमस्तमनुलक्ष्यीकृत्य भृतोऽनुग्रहभृत-स्तत्कालस्वीकृतो न कश्चित् किन्तु चिरसंभृत एव । कृपाभृतो न किन्तु शौर्य एवेति वा । भूरिदक्षिणा बहवोदाक्षिण्ययुक्ता यस्याम् आहुकेन उग्रसेनेन” नील० ।४ सन्न्यासिनामुपाधिभेदे स्त्री “ज्ञानरत्नेन सम्पूर्णा पूर्ण-तत्त्वपथस्थितिः । परब्रह्मरतो नित्यं पुरीनामा स उ-च्यते” महानिर्वा० । ५ देहे च स्त्री ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
