| YouTube Channel

पुरि (puri)

 
शब्दसागरः
English
पुरि
f.
(-रिः or री)
1. A town, a city.
2. A river.
m.
(-रिः) A king, a
sovereign.
E.
पॄ to fill or to cherish, Uṇadi
aff.
: see पुर, and पुरी.
Yates
English
पुरि (रिः) 2.
f.
A town, a city
a
river.
m.
A king.
Spoken Sanskrit
English
पुरि - puri -
m.
- town
नगर - nagara -
n.
- town
पुर - pura -
n.
- town
नगरीय - nagarIya -
ind.
- belongingtoatown
पुरभवनस्य दक्षिणे भागे - purabhavanasyadakSiNebhAge -
sent.
- totherightofthetownhall
दामलिप्त - dAmalipta -
m.
पट्टी - paTTI -
f.
- town
पुरी - purI -
f.
- town
पुर् - pur -
f.
- town
उम - uma -
m.
- town
द्रङ्ग - draGga -
m.
- town
निगम - nigama -
m.
- town
पुरय - puraya -
m.
- town
पुटभेद - puTabheda -
m.
- town
विवश - vivaza -
m.
- town
पत्तन - pattana -
n.
- town [ city ]
अधिष्ठान - adhiSThAna -
n.
- town
क्षेत्र - kSetra -
n.
- town
निवेशन - nivezana -
n.
- town
पुटभेदन - puTabhedana -
n.
- town
पुरि - puri -
m.
- town
पुरि - puri -
f.
- town or a river
पुरि - puri -
f.
- city
Wilson
English
पुरि
f.
(-रिः)
1 A town, a city.
2 A river.
m.
(-रिः) A king, a sovereign.
E.
पॄ to fill or to cherish, Uṇādi
aff.
: see पुर, and
पुरी.
Apte
English
पुरिः [puriḥ],
f.
A town, city.
A river.
A king.
Apte 1890
English
पुरिः f. 1 A town, city.
2 A river.
3 A king.
Monier Williams Cologne
English
1. पुरि
loc.
of 3. पुर्, in comp.
2. पुरि
f.
a town or a river,
Uṇ.
iv, 142, Sch.
1. and 2. पुरि
पुरी. See above.
Monier Williams 1872
English
पुरि, इस्, f. a city [cf. पुरी under पुर]
a river
a king.
पुरि पुरि। See col. 1.
Benfey
English
पुरि पुरि, and पुरी पुरी, see पुर।
Apte Hindi
Hindi
पुरिः
स्त्री*
- पृ +
"नगर, शहर"
पुरिः
स्त्री*
- पृ +
नदी
Shabdartha Kaustubha
Kannada
पुरि
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ನಗರ
पुरि
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ನದಿ
पुरि
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ರಾಜ /ದೊರೆ
L R Vaidya
English
puri {% f. %} 1. A city
2. a river.
Edgerton Buddhist Hybrid
English
puri, m.c. for pure, q.v.
शब्दकल्पद्रुमः
Sanskrit
पुरिः,
स्त्री,
(पूर्य्यते इति पॄ + “कॄगॄशॄपॄ-कुटीति ।” उणा० १४२ इति इः चकित् ।) पुरी इत्यमरटीकायां भरतः
नदी ।इति सिद्धान्तकौमुद्यामुणादिवृत्तिः
(शरी-रम् इति पुरीतत्-शब्दटीकायां भरतः
)
पुरिः,
पुं,
(पूर्य्यते यशआदिभिरिति पॄ + इः ।सच कित् ।) राजा इति सिद्धान्तकौमुद्यमुणादिवृत्तिः
(सन्न्यासिविशेषः शङ्कराचार्य्य-शिष्यतोटकस्य शिष्येषु अन्यतमशिष्याणा-मुपाधिविशेषः इति केचित्
तल्लक्षणं यथा, प्राणतोषिण्यामवधूतप्रकरणे ।“ज्ञानतत्त्वेन संपूर्णः पूर्णतत्त्वपदे स्थितः ।परब्रह्मरतो नित्यं पुरिनामा उच्यते
”तथा मुण्डमालातन्त्रे पटले ।“देवतायाः सदा ध्यानं श्रीगुरोः पूजनं तथा ।अन्तर्यागेषु यो निष्ठः वीरः पुरिरेव
”)
वाचस्पत्यम्
Sanskrit
पुरि(री) स्त्री पूर्य्यते पॄ--इ किच्च नगरे नद्याञ्च उज्-ज्वलद० वा ङीप् राजनि सि० कौ० तत्र जिगीषुनगरे वर्णनीयपदार्थाः भा० व० दर्शिता यथा“अभिस रेण सर्वेण तत्र युद्धमवर्त्तत पुरी समन्ताद्वि-हिता सपताका सतोरणा सचक्रा सहुडा चैवसयन्त्रखनका तथा सोपशल्यप्रतीलीका साट्टाट्टा-लकगोपुरा सचक्रग्रहणी चैव सोल्कालातावपो-थिका सोष्ट्रिका भरतश्रेष्ट! सभेरीपणवानका सतोमराङ्कुशा राजन्! सशतघ्नीकलाङ्गला सभुशुण्ड्यश्मगुडका सायुधा सपरश्वधा लोहचर्मवती चापि साग्निःसगुडशृङ्गिका शास्त्रदृष्टेन विधिना सुयुक्ता भर-तषभ! रथैरनेकैर्विविधैर्गदसाम्बोद्धवादिभिः पुरषैःकुरुशार्दूल! समर्थः प्रतिवारणे अतिख्यातकुलैर्वीरै-र्दृष्टवीर्य्यैश्च संयुगे मध्यमेन गुल्मेन रक्षिभिःसा सुरक्षिता उदक्षिप्तगुलमैश्च तथा हयैश्च सपता-किमिः आघोपितञ्च नगरे पातव्या सुरेति वै ।पमार्द परिरक्षद्भिरुग्रसेनोद्धवादिभिः प्रमत्तेष्वभिघातंहि कुर्य्याच्छाल्वो नराधिपः इति कृत्वाऽप्रमत्तास्तेसर्वे वृष्ण्यन्धकाः स्थिताः आनर्ताश्च, तथा सर्वे मटनर्त्तकगायनाः वहिर्निवासिताः क्षिप्रं रक्षद्भिर्बित्त-सञ्चयम संक्रमा भेदिताः सर्वे नावच्च प्रतिषेधिताः ।परिखाश्चापि कौरव्य कीलेः सुनिचिता कृताः उद-पानाः कुरुश्रेष्ठ! तथैवाप्यम्बरोषकाः समन्तात् क्रोश-मात्रञ्च कारिता विषमा भूः प्रकृत्या विषमं दुर्गंप्रकृत्या सुरक्षितम् प्रकृत्या चायुधोषेतं विशेषेणतदाऽनच! सुरक्षितम् सुगुप्तं सर्वायुधसमन्त्रितम् ।तत्पुरं भरतश्रेष्ठ यथेन्द्रभवनं तथा चामुद्रोमिनि-र्याति चामुद्रः प्रवेश्यते वृष्ण्यन्धकपुरी राजंस्तदा सौभसमागमे अनुरथ्यासु सर्वासु चत्वरेषु चकौरव! बलं बभूव राजेन्द्र! पभूतनजवाजिमत् दत्त-वेतनभक्तं दत्तायुधपरिच्छदम् कृतोपधानं चतदा बलमासीन् महाभुज! कुप्यवेतनी कश्चिन्नचातिक्रान्तवेतनी नानुग्रहभृतः कश्चिन्न चादृष्टपरा-क्रमः एवं सुविहिता राजन् द्वारका भूरिदक्षिणा ।आहुकेन सुगुप्ता राज्ञा राजीवलोचन!” भा० व० १५ अ० ।“अभितः परित उपरितश्चायुधानां सरणं निःसरण-मभिसारस्तेन सर्वेणाच्छिद्रेण सर्वाभ्यो दिग्भ्यो युगपद-विरलायुधसमूहागमेनेत्यर्थः पताका ध्वजाञ्चकःतोरणानि वहिर्द्वाराणि चक्राणि योधगणाः हुडास्त-दाश्रयस्थानानि भाषायां (वुरुज)इति संज्ञानि अन्ये तुविण्मूत्रोत्सर्जनशृङ्गाणि हुडा इत्याहुः उदाहरन्ति च“कल्प्यन्ते हुडशृङ्गाणि रथस्योपरि धूरपि विण्भूत्र-स्पर्शशुद्ध्यर्थं करादिस्पर्श उद्यते” इति यन्त्राण्याग्ने-यौषधबलेन दृषत्पिण्डीत्क्षेपखानि महान्ति(कमान) इतिसंज्ञानि क्षुद्राणि सीसगुलिकोत्क्षेपणानि (वन्दुक) इतिसंज्ञानि खनकाः सुरङ्गद्वारा गुप्तमार्गकर्त्तारः उपशल्यालोहमुखाः कीलास्तद्युक्ताः प्रतोल्यो रथ्यामार्गा यस्या साअट्टालिका उपरिगृहाः गोपुराणि साट्टानि अट्टेनान्नेनसहितानि अट्टालकादीनि यस्यां सा साट्टेति विशेषणम्उपशल्यस्य ग्रामान्तस्य रथ्यायाश्चावृत्त्या संवध्यते चक्र-ग्रहणी सैन्यनिग्राहिका (मोर्चा) इति म्लेच्छप्रसिद्धा ।सोल्कालातावपोथिका सोल्कलातं ज्वालासहितमु-लमुकं यस्यां सा सोल्कालाता अवबद्धाः पोथिकायन्त्रबद्धाः काष्ठपाषाणादयो रिपूणामुपरिपातनाय यस्यामितिप्राञ्चः उल्केवोल्का प्राणहरत्वाद्यन्त्रोत्क्षिप्तो गोलःअलातं सकाष्ठदण्डलोहमयमाग्नेयं प्रहरणं (वाण)इति भाषायां प्रसिद्धं तयोरप्रत्याख्येयनत्योरवपोथिकाः पातयित्र्यो गन्त्रमय्यः शक्तयः कर्णायेन्द्रदत्तशक्तिसदृशास्तद्युक्ताः सोल्कालातावपोक्षिकाः उष्ट्रिश्चा मृच्चर्म-मयाणि भाण्डानि सर्ष्टिकेति पाठे ऋष्टय आयुथचि-शेषाः अश्मगुडका वर्तुलीकृताः पाषाणाः लोहमयानिचर्माणि कमठपृष्ठाकाराणि प्रहारवारकाणि (ढास) सा-ग्निः आग्नेयौषधसहिता गुडागोलकः शृङ्गिकास्तदुत्क्षेपकयन्त्राणि शत्रूणासुपरिपातनाय तप्तोगुडो द्रवीभूतोयत्र शिखरे स्थाप्यते तत्सहितेत्यन्ये मध्यमो गुल्मःयत्र स्थितेन योधसङ्घेन चतुर्दिगवस्थिता रिपवोद्रष्टुंवाणादिना प्रहर्तुं शक्यन्ते तादृशमुच्चस्थानम् उत्-क्षिप्तगुल्मैः परकीयगुल्मोच्चाटनकरैः अप्रमत्ता इति-च्छेदः संक्रमा नदीसेतवः कीलैः शूलैः सुनिचिताव्याप्नाः “उदपानाः कूपाः “अम्बरीषो भवेद्भ्राष्ट्र” इतिविश्वः गुप्ताग्निरित्यन्ये विषमलोहकण्टकाद्याकीर्णा ।अनुरथ्यासु प्रतिरथ्यम् वेतनं धनं भक्तं नित्यभोजनंकृतोपधानं कृतविशेषम् कुप्यं स्वर्णरूप्येतरधनं ताम्रा-दि ग्रहोरणोद्यमस्तमनुलक्ष्यीकृत्य भृतोऽनुग्रहभृत-स्तत्कालस्वीकृतो कश्चित् किन्तु चिरसंभृत एव कृपाभृतो किन्तु शौर्य एवेति वा भूरिदक्षिणा बहवोदाक्षिण्ययुक्ता यस्याम् आहुकेन उग्रसेनेन” नील० ।४ सन्न्यासिनामुपाधिभेदे स्त्री “ज्ञानरत्नेन सम्पूर्णा पूर्ण-तत्त्वपथस्थितिः परब्रह्मरतो नित्यं पुरीनामा उ-च्यते” महानिर्वा० देहे स्त्री
Burnouf
French
पुरि पुरि
f.
ville, cf. पुर। -- M. roi, souverain.