| YouTube Channel

पुराणं (purANaM)

 
Hindi
Hindi
सबसे पुराना
शब्दकल्पद्रुमः
Sanskrit
पुराणं,
क्ली,
(पुरा भवमिति पुरा + “सायं-चिरंप्राह्णेप्रगेऽव्ययेभ्यष्ट्युट्युलौ तुट् ।” ।२३ इति ट्युः “पूर्व्वकालैकसर्व्वजरत्पुराणनव-केवलाः समानाधिकरणेन ।” ४९ इतिनिपातनात् तुडभावः यद्वा, “पुराणप्रोक्तेषुब्राह्मणकल्पेषु ।” १०५ इति निपा-तितः यद्वा, पुरा नीयते इति नी + ।णत्वञ्च ।) व्यासादिमुनिप्रणीतवेदार्थवर्णित-पञ्चलक्षणान्वितशास्त्रम् तत्पर्य्यायः पञ्चलक्ष-णम् इत्यमरः
पञ्चलक्षणानियथा, सर्गः प्रतिसर्गः वंशः मन्वन्तरम् ४वंशानुचरितम्
महापुराणस्य दश लक्ष-णानि यथा, सर्गः विसर्गः वृत्तिः रक्षा ४अन्तरम् वंशः वंश्यानुचरितम् संस्था८ हेतुः अपाश्रयः १०
अथाष्टादशमहा-पुराणानि तेषां श्लोकसंख्यानि तथा ब्राह्मंदशसहस्रम् पाद्मं पञ्चपञ्चाशत्सहस्रम् २वैष्णवं त्रयोविंशतिसहस्रम् शैवं चतुर्व्विंशति-सहस्रम् भागवतम् अष्टादशसहस्रम् नार-दीयं पञ्चविंशतिसहस्रम् मार्कण्डेयं नवसह-स्रम् आग्नेयं चतुःशताधिकपञ्चदशसहस्रम्८ भविष्यं पञ्चशताधिकचतुर्द्दशसहस्रम् ९ब्रह्मवैवर्त्तम् अष्टादशसहस्रम् १० लैङ्गं एका-दशसहस्रम् ११ वाराहं चतुर्व्विंशतिसहस्रम्१२ स्कान्दं शताधिकैकाशीतिसहस्रम् १३वामनं दशसहस्रम् १४ कौर्म्मं सप्तदशसहस्रम्१५ मात्स्यं चतुर्द्दशसहस्रम् १६ गारुडं ऊन-विंशतिसहस्रम् १७ ब्रह्माण्डं द्वादशसहस्रम् १८ ।समुदायेन चतुलक्षश्लोकाः इति श्रीभागवतीय-द्वादशस्कन्धः
(अपि देवीभागवते स्कन्धे३ अध्याये तथा मत्स्यपुराणे ५३ अध्यायेएतद्विवरणं द्रष्टव्यम्
) अपि ।सूत उवाच ।“विस्तराणि पुराणानि चेतिहासश्च शौनक ! ।संहितां पञ्चरात्राणि कथयामि यथागमम्
सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि ।वंशानुचरितं विप्र ! पुराणं पञ्चलक्षणम्
एतदुपपुराणानां लक्षणञ्च विदुर्बुधाः ।महताञ्च पुराणानां लक्षणं कथयामि ते
*
सृष्टिश्चापि विसृष्टिश्च स्थितिस्तेषाञ्च पालनम् ।कर्म्मणां वासना वार्त्ता मनूनाञ्च क्रमेण
वर्णनं प्रलयानाञ्च मोक्षस्य निरूपणम् ।उत्कीर्त्तनं हरेरेव देवानाञ्च पृथक् पृथक्
दशाधिकं लक्षणञ्च महतां परिकीर्त्तितम् ।संख्यानञ्च पुराणानां निबोध कथयामि ते
परं ब्रह्मपुराणञ्च सहस्राणां दशैव ।पञ्चोनषष्टिसाहस्रं पाद्ममेव प्रकीर्त्तितम्
त्रयोविंशतिसाहस्रं वैष्णवञ्च विदुर्वुधाः ।चतुर्विंशतिसाहस्रं शैवमेव निरूपितम्
ग्रन्थोऽष्टादशसाहस्रं श्रीमद्भागवतं विदुः ।पञ्चविंशतिसाहस्रं नारदीयं प्रकीर्त्तितम्
मार्कण्डं नवसाहस्रं पुराणं पण्डिता विदुः ।चतुःशताधिकं पञ्चदशसाहस्रमेव
परमग्निपुराणञ्च रुचिरं परिकीर्त्तितम् ।चतुर्द्दशसहस्रानी परं पञ्चशताधिकम्
पुराणप्रवरञ्चैव भविष्यं परिकीर्त्तितम् ।अष्टादशसहस्रञ्च ब्रह्मवैवर्त्तमीप्सितम्
सर्व्वेषाञ्च पुराणानां सारमेव विदुर्बुधाः ।एकादशसहस्रञ्च परं लिङ्गपुराणकम्
चतुर्व्विंशतिसाहस्रं वाराहं परिकीर्त्तितम् ।एकाशीतिसहस्रञ्च परमेव शताधिकम्
वरं स्कन्दपुराणञ्च सद्भिरेवं निरूपितम् ।वामनं दशसाहस्रं कौर्म्मं सप्तदशैव तु
मात्स्यं चतुर्द्दशं प्रोक्तं पुराणं पण्डितैस्तथा ।ऊनविंशतिसाहस्रं गारुडं परिकीर्त्तितम्
परं द्वादशसाहस्रं ब्रह्माण्डं परिकीर्त्तितम् ।एवं पुराणसंख्यानं चतुर्लक्षमुदाहृतम्
अष्टादशपुराणानामेवमेव विदुर्बुधाः ।एवञ्चोपपुराणानामष्टादश प्रकीर्त्तिताः
*
इतिहासो भारतञ्च वाल्मीकं काव्यमेव ।पञ्चकं पञ्चरात्राणां कृष्णमाहात्म्यपूर्व्वकम् ।वाशिष्ठं नारदीयञ्च कापिलं गौतमीयकम् ।परं सनत्कुमारीयं पञ्चरात्रञ्च पञ्चकम्
पञ्चम्यः संहितानाञ्च कृष्णभक्तिसमन्विताः ।ब्रह्मणश्च शिवस्यापि प्रह्नादस्य तथैव
गौतमस्य कुमारस्य संहिताः परिकीर्त्तिताः ।इति ते कथितं सर्व्वं क्रमेण पृथक् पृथक्
अस्त्येवं विपुलं शास्त्रं ममापि यथागमम्
”इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे १३२ अः
पद्मपुराणमते तु ।“निस्ताराय तु लोकानां स्वयं नारायणः प्रभुः ।व्यासरूपेण कृतवान् पुराणानि महीतले
पठनाच्छ्रवणाद्येषां नृणां पापक्षयो भवेत् ।घर्म्माघर्म्मपरिज्ञानं सदाचारप्रवर्त्तनम्
गतिश्च परमा तद्बद्भक्तिर्भगवति प्रभौ ।तानि ते कथयिष्यामि सप्रमाणानि भूतले
*
पुराणसंख्यान्तरमाह ।“पुराणानि चतुर्लक्षाण्येतानि धरणीतले ।तथा महाभारतञ्च लक्षसंख्यं प्रकीर्त्तितम्
पञ्चलक्षमिदं राजन् ! कथितं ब्रह्म केवलम् ।वेदः पञ्चमनामैष लोकनिस्तारकः परः
तत्र पद्मपुराणञ्च प्रथमं प्रणीतवान् ।ततोऽन्यानि पुराणानि कृत्वा षोडश तु क्रमात्
अष्टादशं भागवतं सारमाकृष्य सर्व्वतः ।कृतवान् भगवान् व्यासः शुकञ्चाध्यापयत् सुतम्
”इति पातालखण्डे ७१ अध्यायः
*
आख्यानादिभिः सह व्यासः पुराणं चक्रे ।यथा, --“आख्यानैश्चाप्युपाख्यानैर्गाथाभिः कल्पशुद्धिभिः ।पुराणसंहितां चक्रे पुराणार्थविशारदः
प्रख्यातो व्यासशिष्योऽभूत् सूतो वै लोमहर्षणः ।पुराणसंहितां तस्मै ददौ व्यासो महामुनिः
”अस्य टीका यथा, --आख्यानादिभिः सह पुराणं चक्रे व्यास इत्य-न्वयः तत्र ।स्वयं दृष्टार्थकथनं प्राहुराख्यानकं बुधाः ।श्रुतस्यार्थस्य कथनमुपाख्यानं प्रचक्षते
गाथास्तु पितृपृथ्वीप्रभृतिगीतयः कल्पशुद्धिःश्राद्धकल्पादिनिर्णयः
*
“सुमतिश्चाग्निवर्च्चाश्वमित्रायुः शांशपायनः ।अकृतव्रणोऽथ सावर्णिः षट् शिष्यास्तस्य चाभ-वन्
”टीका सुमत्यादयस्तु रोमहर्षणस्य षट्शिष्या-स्तत्कृताः षट् संहिता जगृहुः
*
“काश्यपः संहिताकर्त्ता सावर्णिः शांशपायनः ।लौमहर्षणिका चान्या तिसृणां मूलसंहिता
”टीका अकृतव्रण एव काश्यपः काश्यपोह्यकृतव्रण इति वायूक्तेः रौमहर्षणिका चान्यारोमहर्षणेन पुनः संक्षेपेण प्रोक्ता
*
“चतुष्टयेनाप्येतेन संहितानामिदं मुने ! ।”टीका एतासां काश्यपादिकृतानां संहिताना-मर्थचतुष्टयेनापि मूलभूतेन तत्सारोद्धारा-त्मकं इदं श्रीविष्णुपुराणं सुने ! मैत्रेय ! मयाकृतमिति शेषः
*
“आद्यं सर्व्वपुराणानां पुराणं ब्राह्ममुच्यते ।अष्टादशपुराणानि पुराणज्ञाः प्रचक्षते
”इति विष्णुपुराणे अंशे अध्यायः
*
तेषां नामोच्चारणादिमाहात्म्यं यथा, --“अष्टादशपुराणानां नामधेयानि यः पठेत् ।त्रिसन्ध्यं जपते नित्यं सोऽश्वमेधफल लभेत्
”इति मार्कण्डेयपुराणम्
*
तामसपुराणानि यथा, --“मात्स्यं कौर्म्मं तथा लैङ्गं शैवं स्कान्दं तथैव ।आग्नेयञ्च षडेतानि तामसानि निबोधत
”सात्त्विकपुराणानि यथा, --“वैष्णवं नारदीयञ्च तथा भागवतं शुभम् ।गारुडञ्च तथा पाद्मं वाराहं शुभदर्शने ! ।सात्त्विकानि पुराणानि विज्ञेयानि शुभानि वै
”राजसपुराणानि यथा, --“ब्रह्माण्डं ब्रह्मवैवर्त्तं मार्कण्डेयं तथैव ।भविष्यं वामनं ब्राह्मं राजसानि निबोधत
सात्त्विका मोक्षदाः प्रोक्ता राजसाः स्वर्गदाःशुभाः ।तथैव तामसा देवि ! निरयप्राप्तिहेतवः
”इति पाद्मोत्तरखण्डे ४३ अध्यायः
*
अष्टादशोपपुराणानि यथा, --“आद्यं सनत्कुमारोक्तं नारसिंहमथापरम् ।तृतीयं स्कान्दमुद्दिष्टं कुमारेण तु भाषितम्
चतुर्थं शिवधर्म्माख्यं साक्षान्नन्दीशभाषितम् ।दुर्व्वाससोक्तमाश्चर्य्यं नारदोक्तमतः परम्
कापिलं वामनञ्चैव तथैवोसनसेवितम् ।ब्रह्माण्डं वारुणञ्चाथ कालिकाह्वयमेव
माहेश्वरं तथा शाम्बं सौरं सर्व्वार्थसञ्चयम् ।पराशरोक्तमपरं मारीचं भार्गवाह्वयम्
”इति गारुडे २२७ अध्यायः
*
कौर्म्मोक्तान्येतानि उपपुराणशब्दे द्रष्टव्यानि
पुराणपाठक्रमस्तु पारायणशब्दे पाठशब्दे चद्रष्टव्यः
अथाष्टादशमहापुराणानामनुक्रम-णिका अर्थात् तेषां श्लोकपर्व्वखण्डभागोपाख्यान-श्रवणदानफलानि लिख्यन्ते ।सूत उवाच ।“एतच्छ्रत्वा नारदस्तु कुमारस्य वचो मुदा ।पुनरप्याह सुप्रीतो जिज्ञासुः श्रेय उत्तमम्
नारद उवाच ।साधु साधु महाभाग ! सर्व्वलोकोपकारकम् ।महातन्त्रं त्वया प्रोक्तं सर्व्वतन्त्रोत्तमोत्तमम्
अधुना श्रोतुमिच्छामि पुराणाख्यानमुत्तमम् ।यस्मिन् यस्मिन् पुराणे तु यद्यदाख्यानकं मुने ! ।तत्तत् सर्व्वं समाचक्ष्व सर्व्वज्ञस्तं यतो मतः
तच्छ्रुत्वा वचनं विप्रा नारदस्य शुभावहम् ।पुराणाख्यानसंप्रश्नं कुमारः प्रत्युवाच
सनत्कुमार उवाच ।पुराणाख्यानकं विप्र ! नानाकल्पसमुद्भवम् ।नानाकथासमायुक्तमद्भुतं बहुविस्तरम्
ऋषिः सनातनश्चायं यथा वेद तथापरः ।न वेद तस्मात् पृच्छ त्वं बहुकल्पविदांवरम्
श्रुत्वेत्थं नारदो वाक्यं कुमारस्य महात्मनः ।प्रणम्य विनयोपेतः सनातनमथाव्रवीत्
ब्रह्मन् ! पुराणविच्छ्रेष्ठ ! ज्ञानविज्ञानतत्पर ! ।पुराणानां विभागं मे साकल्येनानुकीर्त्तय
यस्मिन् श्रुते श्रुतं सर्व्वं ज्ञाते ज्ञातं कृते कृतम् ।वर्णाश्रसाचारधर्म्मं साक्षात्कारत्वमेष्यति
कियन्ति पुराणानि कियत् सङ्ख्यानि मानतः ।किं किमाख्यानयुक्तानि तद्वदस्व मम प्रभो !
चातुर्वर्ण्याश्रया नाना व्रतादीनां कथास्तथा ।सृष्टिक्रमेण वंशानां कथाः सम्यक् प्रकाशय
त्वत्तोऽधिको चान्योऽस्ति पुराणाख्यानवित्प्रभो ! ।तस्मादाख्याहि मह्य त्वं सर्व्वसन्देहभञ्जनम्
ततः सनातनो विप्राः श्रुत्वा नारदभाषितम् ।नारायणं क्षणं ध्यात्वा प्रोवाचाथ विदांवरः
सनातन उवाच ।साधु साधु मुनिश्रेष्ठ ! सर्व्वलोकोपकारक ! ।पुराणाख्यानविज्ञाने यज्जाता नैष्ठिकी मतिः
तुभ्यं समभिधास्यामि यत् प्रोक्तं ब्रह्मणा पुरा ।मरीच्यादिऋषिभ्यस्तु पुत्त्रस्नेहावृतात्मना
एकदा ब्रह्मणः पुत्त्रो मरीचिर्नाम विश्रुतः ।स्वाध्यायश्रुतसम्पन्नो वेदवेदाङ्गपारगः
उपसृत्य स्वपितरं ब्रह्माणं लोकभावनम् ।प्रणम्य भक्त्या पप्रच्छ इदमेव मुनीश्वर ! ।पुराणाख्यानममलं यत्त्वं पृच्छसि मानद !
मरीचिरुवाच ।भगवन् ! देवदेवेश ! लोकानां प्रभवाप्यय ! ।सर्व्वज्ञ ! सर्व्वकल्याण सर्व्वाध्यक्ष नमोऽस्तु ते
पुराणबीजमाख्याहि मह्यं शुश्रूषते पितः ! ।लक्षणञ्च प्रमाणञ्च वक्तारं पृच्छकं तथा
ब्रह्मोवाच ।शृणु वत्स ! प्रवक्ष्यामि पुराणानां समुच्चये ।यस्मिन् ज्ञाते भवेज्ज्ञातं वाङ्मयं सचराचरम्
पुराणमेकमेवासीत् सर्व्वकल्पेषु मानद ! ।चतुर्व्वर्गस्य बीजञ्च शतकोटिप्रविस्तरम्
प्रवृत्तिः सर्व्वशास्त्राणां पुराणादभवत्ततः
कालेनाग्रहणं दृष्ट्वा पुराणस्य महामतिः ।हरिर्व्यासस्वरूपेण जायते युगे युगे
चतुर्लक्षप्रमाणेन द्वापरे द्बापरे सदा ।तदष्टादशधा कृत्वा भूर्लोके निर्द्दिशत्यपि
अद्यापि देवलोके तु शतकोटि प्रविस्तरम् ।अस्त्येव तस्य सारस्तु चतुर्लक्षेण वर्ण्यते
*
ब्राह्मम् पाद्मम् वैष्णवञ्च वायवीयम् ४तथैव ।भागवतम् नारदीयम् मार्कण्डेयञ्च ७कीर्त्तितम्
आग्नेयञ्च भविष्यञ्च ब्रह्मवैवर्त्त-१०लिङ्गके ११ ।वाराहञ्च १२ तथा स्कान्दम् १३ वामनम् १४कूर्म्म-१५ संज्ञकम् ।मात्स्पञ्च १६ गारुडम् १७ तद्वद्ब्रह्माण्डाख्य-१८मिति त्रिषट्
एकं कथानकं सूत्रं वक्तुः श्रोतुः समाह्वयम् ।प्रवक्ष्यामि समासेन निशामय समाहितः
*
तत्र प्रथमं ब्रह्मपुराणम् ।“ब्राह्मं पुराणं तत्रादौ सर्व्वलोकहिताय ।व्यासेन वेदविदुषा समाख्यातं महात्मना
तद्वै सर्व्वपुराणाग्र्यं धर्म्मकामार्थमोक्षदम् ।नानाख्यानेतिहासाढ्यं दशसाहस्रमुच्यते
*
तत्पूर्व्वभागे ।“देवानामसुराणाञ्च यत्रोत्पत्तिः प्रकीर्त्तिता ।प्रजापतीनाञ्च तथा दक्षादीनां मुनीश्वर !
ततो लोकेश्वरस्यात्र सूर्य्यस्य परमात्मनः ।वंशानुकीर्त्तनं पुण्यं महापातकनाशनम्
यत्रावतारः कथितः परमानन्दरूपिणः ।श्रीमतो रामचन्द्रस्य चतुर्व्यूहावतारिणः
ततश्च सोमवंशस्य कीर्त्तनं यत्र वर्णितम् ।कृष्णस्य जगदीशस्य चरितं कल्मषापहम्
द्वीपानाञ्चैव सिन्धूनां वर्षाणां चाप्यशेषतः ।वर्णनं यत्र पातालस्वर्गाणाञ्च प्रदृश्यते
नरकाणां समाख्यानं सूर्य्यस्तुतिकथानकम् ।पार्व्वत्याश्च तथा जन्म विवाहश्च निगद्यते
दक्षाख्यानं ततः प्रोक्तमेकाम्रक्षेत्रवर्णनम् ।पूर्व्वभागोऽयमुदितः पुराणस्यास्य मानद !
*
तदुत्तरभागे ।“अस्योत्तरे विभागे तु पुरुषोत्तमवर्णनम् ।विस्तरेण समाख्यातं तीर्थयात्राविधानतः
अत्रैव कृष्णचरितं विस्तारात् समुदीरितम् ।वर्णनं यमलोकस्य पितृश्राद्धविधिस्तथा
वर्णाश्रमाणां धर्म्माश्च कीर्त्तिता यत्र विस्तरात् ।विष्णुधर्म्मयुगाख्यानं प्रलयस्य वर्णनम्
योगानाञ्च समाख्यानं साङ्ख्यानाञ्चापि वर्णनम् ।ब्रह्मवादसमुद्देशः पुराणस्य शंसनम्
एतद्ब्रह्मपुरणान्तु भागद्बयसमाचितम् ।वर्णितं सर्व्वपापघ्नं सर्व्वसौख्यप्रदायकम्
*
तत्फलश्रुतिः ।“सूतशौनकसंवादं भुक्तिमुक्तिप्रदायकम् ।लिखित्वैतत् पुराणं यो वैशाख्यां हेमसंयुतम्
जलधेनुयुतञ्चापि भक्त्या दद्याद्द्विजातये ।पौराणिकाय सम्पूज्य वस्त्रभोज्यविभूषणैः ।स वसेद्ब्रह्मणो लोके यावच्चन्द्रार्कतारकम्
यः पठेच्छृणुयाद्वापि ब्राह्मानुक्रमणीं द्बिज ! ।सोऽपि सर्व्वपुराणस्य श्रोतुर्वक्तुः फलं लभेत्
शृणोति यः पुराणन्तु ब्राह्मं सर्व्वं जितेन्द्रियः ।हविष्याशी नियमात् लभेद् ब्रह्मणःपदम्
किमत्र बहुनोक्तेन यद्यदिच्छति मानवः ।तत् सर्व्वं लभते वत्स ! पुराणस्यास्य कीर्त्तनात्
”इति श्रीनारदीयपुराणे पूर्व्वभागे बृहदुपा-ख्याने चतुर्थपादे ९२ अध्यायः
द्वितीयं पद्मपुराणम् ।श्रीब्रह्मोवाच ।“शृणु पुत्त्र ! प्रवक्ष्यामि पुराणं पद्मसंज्ञिकम् ।महत्पुण्यप्रदं नॄणां शृण्वतां पठतां मुदा
यथा पञ्चेन्द्रियः सर्व्वः शरीरीति निगद्यते ।तथेदं पञ्चभिः खण्डैरुदितं पापनाशनम्
*
तत्र प्रथमे सृष्टिखण्डे ।“पुलस्त्येन तु भीष्माय सृष्ट्यादिक्रमतो द्विज ! ।नानाख्यानेतिहासाद्यैर्यत्रोक्तो धर्म्मविस्तरः
पुष्करस्य महात्म्यं विस्तरेण प्रकीर्त्तितम् ।ब्रह्मयज्ञविधानञ्च वेदपाठादिलक्षणम्
दानानां कीर्त्तनं यत्र वृत्तानाञ्च पृथक् पृथक् ।विवाहः शैलजायाश्च तारकाख्यानकं महत्
माहात्म्यञ्च गवादीनां कीर्त्तिदं सर्व्वपुण्यदम् ।कालकेयादिदैत्यानां वधो यत्र पृथक् पृथक्
ग्रहाणामर्च्चनं दानं यत्र प्रोक्तं द्विजोत्तम ! ।तत्सृष्टिखण्डमुद्दिष्टं व्यासेन सुमहात्मना
*
द्वितीये भूमिखण्डे ।“पितृमात्रादिपूज्यत्वे शिवशर्म्मकथा पुरा ।सुव्रतस्य कथा पश्चात् वृत्रस्य वधस्तथा
पृथोर्वेणस्य चाख्यानं धर्म्माख्यानं ततः परम् ।पितृशुश्रूषणाख्यानं नहुषस्य कथा ततः
ययातिचरितञ्चैव गुरुतीर्थनिरूपणम्
राज्ञा जैमिनिसंवादो बह्वाश्चर्य्यकथायुतः
कथा ह्यशोकसुन्दर्य्या हुण्डदैत्यवधाचिता ।कामोदाख्यानकं तत्र विहुण्डवधसंयुतः
कुञ्जलस्य संवादश्च्यवनेन महात्मना ।सिद्धाख्यानं ततः प्रोक्तं खण्डस्यास्य फलोहनम्
सूतशौनकसंवादं भूमिखण्डमिदं स्मृतम्
*
तृतीये स्वर्गखण्डे ।“ब्रह्माण्डोत्पत्तिरुदिता यत्रर्षिभिश्च सौतिना ।सभूमिलोकसंस्थानं तीर्थाख्यानं ततः परम्
नर्म्मदोत्पत्तिकथनं तत्तीर्थानां कथा पृथक् ।कुरुक्षेत्रादितीर्थानां कथाः पुण्याः प्रकीर्त्तिताः
कालिन्दीपुण्यकथनं काशीमाहात्म्यवर्णनम्
गयायाश्चैव माहात्म्यं प्रयागस्य पुण्यकम् ।वर्णाश्रमानुरोधेन कर्म्मयोगनिरूपणम्
व्यासजैमिनिसंवादः पुण्यकर्म्मकथाचितः ।समुद्रमथनाख्यानं व्रताख्यानं ततः परम्
ऊर्ज्जपञ्चाहमाहात्म्यं स्तोत्रं सर्व्वापराधनुत् ।एतत्स्वर्गाभिधं विप्र ! सर्व्वपातकनाशनम्
”चतुर्थे पातालखण्डे ।“रामाश्वमेधे प्रथमं रामराज्याभिषेचनम् ।अगस्त्याद्यागमश्चैव पौलस्त्याचयकीर्त्तनम्
अश्वमेधोपदेशश्च हयचर्य्या ततः परम् ।नानाराजकथाः पुण्या जगन्नाथानुवर्णनम्
वृन्दावनस्य माहात्म्यं सर्व्वपापप्रणाशनम् ।नित्यलीलानुकथनं यत्र कृष्णावतारिणः
माधवस्नानमाहात्म्ये स्नानदानार्च्चने फलम् ।धरावराहसंवादो यमब्राह्मणयोः कथा
संवादो राजदूतानां कृष्णस्तोत्रनिरूपणम् ।शिवसम्भुसमायोगो दधीच्याख्यानकन्ततः
भस्ममाहात्म्यमतुलं शिवमाहात्म्यमुत्तमम् ।देवरातसुताख्यानं पुराणज्ञप्रशंसनम्
गौतमाख्यानकञ्चैव शिवगीता ततः स्मृता ।कल्पान्तरी रामकथा भरद्वाजश्रमास्थितौ
पातालखण्डमेतद्धि शृण्वतां ज्ञानिनां सदा ।सर्व्वपापप्रशमनं सर्व्वाभीष्टफलप्रदम्
”पञ्चमे उत्तरखण्डे ।“पर्व्वताख्यानकं पूर्व्वं गौर्य्यै प्रोक्तं शिवेन वै ।जालन्धरकथा पश्चाच्छ्रीशैलाद्यनुकीर्त्तनम्
सगरस्य कथा पुण्या ततः परमुदीरितम् ।गङ्गाप्रयागकाशीनां गयायाश्चाधिपुण्यकम्
आम्रादिदानमाहात्म्यं तन्महाद्बादशीव्रतम् ।चतुर्व्विंशैकादशीनां माहात्म्यं पृथगीरितम्
विष्णुधर्म्मसमाख्यानं विष्णुनामसहस्रकम् ।कार्त्तिकव्रतमाहात्म्यं माघस्नानफलन्ततः
जम्बुद्वीपस्य तीर्थानां माहात्म्यं पापनाशनम् ।साभ्रमत्याश्च माहात्म्यं नृसिंहोत्पत्तिवर्णनम्
देवशर्म्मादिकाख्यानं गीतमाहात्म्यवर्णने ।भक्त्याख्यानञ्च माहात्म्यं श्रीमद्भागवतस्य
इन्द्रप्रस्थस्य माहात्म्यं बहुतीर्थकथाचितम् ।मन्त्ररत्नाभिधानञ्च त्रिपाद्भूत्यनुवर्णनम्
अवतारकथा पुण्या मत्स्यादीनामतः परम् ।रामनामशतं दिव्यं तन्माहात्म्यञ्च वाडव !
परीक्षणञ्च भृगुणा श्रीविष्णोर्वैभवस्य ।इत्येतदुत्तरं खण्डं पच्चमं सर्व्वपुण्यदम्
*
तत्फलश्रुतिः ।“पञ्चखण्डयुतं पाद्मं यः शृणोति नरोत्तमः ।स लभेद्बैष्णवं धाम भुक्त्वा भोगानिहेप्सितान्
एतद्वै पञ्चपञ्चाशत्सहस्रं पद्मसंज्ञकम् ।पुराणं लेखयित्वा वै ज्यैष्ठ्यां स्वर्णाज्यसंयुतम्
यः प्रदद्यात् सुसत्कृत्य पुराणज्ञाय मानद ! ।स याति वैष्णवं नाम सर्व्वदेवनमस्कृतः
पद्मानुक्रमणीमेतां यः पठेत् शृणुयात् तथा ।सोऽपि पद्मपुराणस्य लभेत् श्रवणजं फलम्
”इति श्रीनारदीयपुराणे पूर्व्वभागे बृहदुपाख्यानेचतुर्थपादे ९३ अध्यायः
तृतीयं विष्णुपुराणम् ।श्रीब्रह्मोवाच ।“शृणु वत्स ! प्रवक्ष्यामि पुराणं वैष्णवं महत् ।त्रयोविंशतिसाहस्रं सर्व्वपातकनाशनम्
यत्रादिभागे निर्द्दिष्टाः षडंशाः शक्तृजेन ।मैत्रेयायादिमे तत्र पुराणस्यावतारिकाः
”तत्र प्रथमभागस्य प्रथमांशे ।“आदिकारणसर्गश्च देवादीनाञ्च सम्भवः ।समुद्रमथनाख्यानं दक्षादीनां ततोचयाः
ध्रुवस्य चरितं चैव पृथोश्चरितमेव ।प्राचेतसं तथाख्यानं प्रह्लादस्य कथानकम्
पृथग्राज्याधिकाराख्या प्रथमोऽंश इती-रितः
”प्रथमभागस्य द्वितीयांशे ।“प्रियव्रताचयाख्यानं द्वीपवर्षनिरूपणम् ।पातालनरकाख्यानं सप्तस्वर्गनिरूपणम् ।सूर्य्यादिचारकथनं पृथग्लक्षणसंयुतम्
चरितं भरतस्याथ मुक्तिमार्गनिदर्शनम्
निदाघऋभुसंवादो द्वितीयोऽंश उदाहृतः
”प्रथमभागस्य तृतीयांशे ।“मन्वन्तरसमाख्यानं वेदव्यासावतारकम् ।नरकोद्बारकं कर्म्म गदितञ्च ततः परम्
सगरस्यौर्वसंवादे सर्व्वधर्म्मनिरूपणम् ।श्राद्धकल्पं तथोद्दिष्टं वर्णाश्रमनिवन्धने ।सदाचारश्च कथितो मायामोहकथा ततः ।तृतीयोऽंशोऽयमुदितः सर्व्वपापप्रणाशनः
”प्रथमभागस्य चतुर्थांशे ।“सूर्य्यवंशकथा पुण्या सोमवंशानुकीर्त्तनम् ।चतुर्थेऽंशे मुनिश्रेष्ठ ! नानाराजकथाचितम्
”प्रथमभागस्य पञ्चमांशे ।“कृष्णावतारसंप्रश्नो गोकुलीया कथा ततः ।पूतनादिवधो बाल्ये कौमारेऽघादिहिंसनम्
कैशोरे कंसहननं माथुरं चरितं तथा ।ततस्तु यौवने प्रोक्ता लीला द्बारवतीभवा
सर्व्वदैत्यवधो यत्र विवाहाश्च पृथग्विधाः ।यत्र स्थित्वा जगन्नाथः कृष्णो योगेश्वरेश्वरः
भूभारहरणं चक्रे परस्वहननादिभिः ।अष्टावक्रीयमाख्यानं पञ्चमोऽंश इती-रितः
”प्रथमभागस्य षष्ठांशे ।“कलिजं चरितं प्रोक्तं चातुर्व्विध्यं लयस्य ।ब्रह्मज्ञानसमुद्देशः खाण्डिक्यस्य निरूपितः
केशिध्वजेन चेत्येष षष्ठोऽंशः परिकीर्त्तितः
”तस्य द्वितीयभागे ।“अतःपरन्तु सूतेन शौनकादिभिरादरात् ।पृष्टेन चोदिताः शश्वद्विष्णुधर्म्मोत्तराह्वयाः
नानाधर्म्मकथाः पुण्या व्रतानि नियमा यमाः ।धर्म्मशास्त्रं चार्थशास्त्रं वेदान्तं ज्योतिषं तथा
वंशाख्यानं प्रकरणात् स्तोत्राणि मनवस्तथा
नानाविद्याश्रयाः प्रोक्ताः सर्व्वलोकोपकारकाः ।एतद्विष्णुपुराणं वै सर्व्वशास्त्रार्थसंग्रहम्
*
तत्फलश्रुतिः ।“वाराहकल्पवृत्तान्तं व्यासेन कथितं त्विह ।यो नरः पठते भक्त्या यः शृणोति सादरम् ।तावुभौ विष्णुलोकं हि व्रजेतां भुक्तभोगकौ
तल्लिखित्वा यो दद्यादाषाढ्यां घृतधेनुना ।सहितं विष्णुभक्ताय पुराणार्थविदे द्विज ! ।स याति वैष्णवं धाम विमानेनार्कवर्च्चसा
यश्च विष्णुपुराणस्य समनुक्रमणीं द्विज ! ।कथयेच्छणुयाद्वापि पुराणफलं लभेत्
”इति श्रीनारदीयपुराणे पूर्व्वभागे बृहदुपाख्यानेचतुर्थपादे ९४ अध्यायः
चतुर्थं वायुपुराणम् ।ब्रह्मोवाच ।“शृणु विप्र ! प्रवक्ष्यामि पुराणं वायवीयकम् ।यस्मिन् श्रुते लभेद्धाम रुद्रस्य परमात्मनः
चतुर्व्विंशतिसाहस्रं तत् पुराणं प्रकीर्त्तितम् ।श्वेतकल्पप्रसङ्गेन धर्म्माण्यत्राह मारुतः
तद्वायवीयमुदितं भागद्वयसमाचितम्
*
तस्य पूर्व्वभागे ।“स्वर्गादिलक्षणं यत्र प्रोक्तं विप्र ! सविस्तरम्
मन्वन्तरेषु वंशाश्च राज्ञां ये यत्र कीर्त्तिताः ।गयासुरस्य हननं विस्तराद्यत्र कीर्त्तितम्
मासानाञ्चैव माहात्म्यं माघस्योक्तं फलाधिकम् ।दानधर्म्मा राजधर्म्मा विस्तरेणोदितास्तथा
भूपातालककुव्व्योमचारिणां यत्र निर्णयः ।व्रतादीनाञ्च पूर्व्वोऽयं विभागः समुदाहृतः
”तदुत्तरभागे ।“उत्तरे तस्य भागे तु नर्म्मदातीर्थवर्णनम् ।शिवस्य संहिताख्या वै विस्तरेण मुनीश्वर !
यो देवः सर्व्वदेवानां दुर्व्विज्ञेयः सनातनः ।स तु सर्व्वात्मना यस्यास्तीरे तिष्ठति सन्ततम्
इदं ब्रह्मा हरिरिदं साक्षाच्चेदं परो हरः ।इदं ब्रह्म निराकारं कैवल्यं नर्म्मदाजलम्
ध्रुवं लोकहितार्थाय शिवेन स्वशरीरतः ।शक्तिः कापि सरिद्रूपा रेवेयमवतारिता
ये वसन्त्युत्तरे कूले रुद्रस्यानुचरा हि ते ।वसन्ति याम्यतीरे ये लोकं ते यान्ति वैष्णवम्
ओंकारेश्वरमारभ्य यावत् पश्चिमसागरम् ।सङ्गमाः पञ्च त्रिंशन्नदीनां पापनाशनाः
दशैकमुत्तरे तीरे त्रयोविंशति दक्षिणे ।पञ्चत्रिंशत्तमः प्रोक्तो रेवासागरसङ्गमः
सङ्गमैः सहितान्येवं रेवातीरद्बयेऽपि ।चतुःशतानि तीर्थानि प्रसिद्धानि सन्ति हि ।षष्टितीर्थसहस्राणि षष्टिकोट्यो मुनीश्वर ! ।सन्ति चान्यानि रेवायास्तीरयुग्मे पदे पदे
संहितेयं महापुण्या शिवस्य परमात्मनः ।नर्म्मदाचरितं यत्र वायुना परिकीर्त्तितम्
”तत्फलश्रुतिः ।“लिखित्वेदं पुराणन्तु गुडधेनुसमाचितम् ।श्रावण्यां यो ददेद्भक्त्या ब्राह्मणाय कुटुम्बिने
रुद्रलोकें वसेत् सोऽपि यावदिन्द्राश्चतुर्द्दश ।यः श्रावयेद्वा शृणुयाद्वायवीयमिदं नरः ।नियमेन हरिष्याशी रुद्रो नात्र संशयः
यश्चानुक्रमणीमेतां शृणोति श्रावयेत वा ।सोऽपि सर्व्वपुराणस्य फलं श्रवणजं लभेत्
”इति श्रीनारदीयपुराणे पूर्व्वभागे बृहदुपाख्यानेचतुर्थपादे ९५ अध्यायः
पञ्चमं श्रीभागवतपुराणम् ।ब्रह्मोवाच ।“मरीचे ! शृणु वक्ष्यामि वेदव्यासेन यत् कृतम् ।श्रीमद्भागवतं नाम पुराणं ब्रह्मसम्मितम्
तदष्टादशसाहस्रङ्कीर्त्तितं पापनाशनम् ।सुरपादपरूपोऽयं स्कन्धैर्द्बादभिर्युतः
भगवानेव विप्रेन्द्र ! विश्वरूपी क्षमीरितः
”तस्यप्रथमस्कन्धे ।“तत्र तु प्रथमे स्कन्धे सूतर्षीणां समागमः ।व्यासस्य चरितं पुण्यं पाण्डवानां तथैव
पारीक्षितमुपाख्यानमितीदं समुदाहृतम्
”द्वितीयस्कन्धे ।“परीक्षिच्छुकसंवादे सृतिद्वयनिरूपणम् ।ब्रह्मनारदसंवादेऽवतारचरितामृतम्
पुराणलक्षणञ्चैव सृष्टिकारणसम्भवः ।द्वितीयोऽयं समुदितः स्कन्धो व्यासेन धीमता
”तृतीयस्कन्धे ।“चरितं विदुरस्याथ मैत्रेयेणास्य सङ्गमः ।सृष्टिप्रकरणं पश्चाद्ब्रह्मणः परमात्मनः
कापिलं साङ्ख्यमप्यत्र तृतीयोऽयमुदाहृतः
”चतुर्थस्कन्धे ।“सत्याश्चरितमादौ तु ध्रुवस्य चरितं ततः ।पृथोः पुण्यसमाख्यानं ततः प्राचीनवर्हिषः ।इत्येष तुर्य्यो गदितो विसर्गे स्कन्ध उत्तमः
”पञ्चमस्कन्धे ।“प्रियव्रतस्य चरितं तद्वंश्यानाञ्च पुण्यदम् ।ब्रह्माण्डान्तर्गतानाञ्च लोकानां वर्णनन्ततः
नरकस्थितिरित्येष संस्थाने पञ्चमो मतः
”षष्ठस्कन्धे ।“अजामिलस्य चरितं दक्षसृष्टिनिरूपणम्
वृत्राख्यानं ततः पश्चान्मरुतां जन्म पुण्यदम् ।षष्ठोऽयमुदितः स्कन्धो व्यासेन परिपोषणे
”सप्तमस्कन्धे ।“प्रह्लादचरितं पुण्यं वर्णाश्रमनिरूपणम् ।सप्तमो गदितो वत्स ! वासनाकर्म्मकीर्त्तने
”अष्टमस्कन्धे ।“गजेन्द्रमोक्षणाख्यानं मन्वन्तरनिरूपणम् ।समुद्रमथनञ्चैव वलिवैभवबन्धनम्
मत्स्यावतारचरितमष्टमोऽयं प्रकीर्त्तितः
*
नवमस्कन्धे ।“सूर्य्यवंशसमाख्यानं सोमवंशनिरूपणम् ।वंश्यानुचरिते प्रोक्तो नवमोऽयं महामते !
”दशमस्कन्धे ।“कृष्णस्य बालचरितं कौमारञ्च व्रजस्थितिः
कैशोरं मथुरास्थानं यौवनं द्वारकास्थितिः ।भूभारहरणञ्चात्र निरोधे दशमः स्मृतः
”एकादशस्कन्धे ।“नारदेन तु संवादो वसुदेवस्य कीर्त्तितः ।यदोश्च दत्तात्रेयेण श्रीकृष्णेनोद्धवस्य
यादवानां मिथोऽन्तश्च मुक्तावेकादशः स्मृतः
”द्वादशस्कन्धे ।“भविष्यकलिनिर्द्देशो मोक्षो राज्ञः परीक्षितः
वेदशाखाप्रणयनं मार्कण्डेयतपः स्मृतम् ।सौरी विभूतिरुदिता सात्वती ततः परम्
पुराणसङ्ख्याकथनमाश्रये द्वादशो ह्ययम् ।इत्येवं कथितं वत्स ! श्रीमद्भागवतं तव
*
तत्फलश्रुतिः ।“वक्तुः श्रोतुश्चोपदेष्टुरनुमोदितुरेव ।साहाय्यकर्त्तुर्गदितं भक्तिभुक्तिविमुक्तिदम्
प्रौष्ठपद्यां पूर्णिमायां हेमसिंहसमाचितम् ।देयं भागवतायेदं द्विजाय प्रीतिपूर्व्वकम्
संपूज्य वस्त्रहेमाद्यैर्भगवद्भक्तिमिच्छता !योऽप्यनुक्रमणीमेतां श्रावयेच्छृणुयात्तथा ।स पुराणश्रवणजं प्राप्नोति फलमुत्तमम्
*
इति श्रीनारदीयपुराणे पूर्व्वभागे बृहदुपाख्यानेचतुर्थपादे ९६ अध्यायः
षष्ठं नारदीयपुराणम् ।श्रीब्रह्मोवाच ।“शृणु विप्र ! प्रवक्ष्यामि पुराणं नारदीयकम् ।पञ्चविंशतिसाहस्रं बृहच्चित्रकथाश्रयम्
*
तत्र पूर्व्वभागे प्रथमपादे ।“सूतशौनकसंवादः सृष्टिसंक्षेपवर्णनम् ।नानाधर्म्मकथाः पुण्याः प्रवृत्ते समुदाहृताः
प्राग्भागे प्रथमे पादे सनकेन महात्मना
”पूर्व्वभागे द्वितीयपादे ।“द्वितीये मोक्षधर्म्माख्ये मोक्षोपायनिरूपणम् ।वेदाङ्गानाञ्च कथनं शुकोत्पत्तिश्च विस्तरात् ।सनन्दनेन गदिता नारदाय महात्मने
*
पूर्व्वभागे तृतीयपादे ।“महातन्त्रे समुद्दिष्टं पशुपाशविमोक्षणम् ।मन्त्राणां शोधनं दीक्षा मन्त्रोद्धारश्च पूजनम्
प्रयोगाः कवचं नामसहस्रं स्तोत्रमेव ।गणेशसूर्य्यविष्णूनां शिवशक्त्योरनुक्रमात्
सनत्कुमारमुनिना नारदाय तृतीयके
”पूर्व्वभागे चतुर्थपादे ।“पुराणलक्षणञ्चैव प्रमाणं दानमेव
पृथक् पृथक् समुद्दिष्टं दानकालपरःसरम्चैत्रादिसर्व्वमासेषु तिथीनाञ्च पृथक् पृथक्
प्रोक्तं प्रतिपदादीनां व्रतं सर्व्वाघनाशनम् ।सनातनेन मुनिना नारदाय चतुर्थके
पूर्व्वभागोऽयमुदितो बृहदाख्यानसंज्ञितः
”तदुत्तरभागे ।“अस्योत्तरे विभागे तु प्रश्न एकादशीव्रते
वशिष्ठेनाथ संवादो मान्धातुः परिकीर्त्तितः ।रुक्माङ्गदकथा पुण्या मोहिन्युत्पत्तिकर्म्म
वसुशापश्च मोहिन्यै पश्चादुद्धरणक्रिया ।गङ्गाकथा पुण्यतमा गयायात्रानुकीर्त्तनम्
काश्या माहात्म्यमतुलं पुरुषोत्तमवर्णनम् ।यात्राविधानं क्षेत्रस्य बह्वाख्यानसमन्वितम्
प्रयागस्याथ माहात्म्यं कुरुक्षेत्रस्य तत्परम् ।हरिद्वारस्य चाख्यानं कामोदाख्यानकं तथा
वदरीतीर्थमाहात्म्यं कामाख्यायास्तथैव ।प्रभासस्य माहात्म्यं पुराणाख्यानकं ततः
गौतमाख्यानकं पश्चाद्वेदपादस्तवस्ततः ।गोकर्णक्षेत्रमाहात्म्यं लक्ष्मणाख्यानकं तथा
सेतुमाहात्म्यकथनं नर्म्मदातीर्थवर्णनम् ।अवन्त्याश्चैव माहात्म्यं मथुरायास्ततः परम्
वृन्दावनस्य महिमा वसोर्ब्रह्मान्तिके गतिः ।मोहिनीचरितं पश्चादेवं वै नारदीयकम्
*
तत्फलश्रुतिः ।“यः शृणोति नरो भक्त्या श्रावयेद्वा समाहितः ।स याति ब्रह्मणो धाम नात्र कार्य्या विचारणा
यस्त्वेतदिषपूर्णायां धेनूनां सप्तकाचितम् ।प्रदद्याद्द्विजवर्य्याय लभेन्मोक्षमेव
यश्चानुक्रमणीमेतां नारदीयस्य वर्णयेत् ।शृणुयाद्वैकचित्तेन सोऽपि स्वर्गगतिं लभेत्
”इति श्रीनारदीयपुराणे पूर्व्वभागे बृहदुपाख्यानेचतुर्थपादे ९७ अध्यायः
सप्तमं मार्कण्डेयपुराणम् ।श्रीब्रह्मोवाच ।“अथ ते संप्रवक्ष्यामि मार्कण्डेयाभिधं मुने ! ।पुराणं सुमहत् पुण्यं पठतां शृण्वतां सदा
यत्राधिकृत्य शकुनीन् सर्व्वधर्म्मनिरूपणम् ।मार्कण्डेयेन मुनिना जैमिनेः प्राक् समीरितम्
पक्षिणां धर्म्मसंज्ञानां ततो जन्मनिरूपणम् ।पूर्व्वजन्मकथा चैषां विक्रिया दिवस्पतेः
तीर्थयात्रा बलस्यातो द्रौपदेयकथानकम् ।हरिश्चन्द्रकथा पुण्या युद्धमाडीवकाभिधम्
पितापुत्त्रसमाख्यानं दत्तात्रेयकथा ततः ।हैहयस्याथ चरितं महाख्यानसमाचितम्
मदालसाकथात्रोक्ता ह्यलर्कचरिताचिता ।सृष्टिसंकीर्त्तनं पुण्यं नवधा परिकीर्त्तितम्
कल्पान्तकालनिर्द्देशो यक्षसृष्टिनिरूपणम् ।रुद्रादिसृष्टिरप्युक्ता द्वीपवर्षानुकीर्त्तनम्
मनूनाञ्च कथा नाना कीर्त्तिताः पापहारिकाः ।तासु दुर्गाकथात्यन्तं पुण्यदा चाष्टमेऽन्तरे
तत्पश्चात् प्रणवोत्पत्तिस्त्रयीतेजःसमुद्भवः ।मार्त्तण्डस्य जन्माख्या तन्माहात्म्यसमाचिता
वैवस्वताचयश्चापि वत्सप्र्यश्चरितं ततः
”वन्सप्रीस्थाने वत्सध्री पाठः ।“खनित्रस्य ततः प्रोक्ता कथा पुण्या महात्मनः
अविक्षिच्चरितं चैव किमिच्छव्रतकीर्त्तनम् ।नरिष्यन्तस्य चरितं इक्ष्वाकुचरितं ततः
तुलस्याश्चरितं पश्चाद्रामचन्द्रस्य सत्कथा ।कुशवंशसमाख्यानं सोमवंशानुकीर्त्तनम्
पुरूरवःकथा पुण्या नहुषष्य कथाद्भुता ।ययातिचरितं पुण्यं यदुवंशानुकीर्त्तनम्
श्रीकृष्णबालचरितं माथुरं चरितं ततः ।द्बारकाचरितञ्चाथ कथा सर्व्वावतारजा
ततः साङ्ख्यसमुद्देशः प्रपञ्चासत्त्वकीर्त्तनम् ।मार्कण्डेयस्य चरितं पुराणश्रवणे फलम्
*
तत्फलश्रुतिः ।“यः शृणोति नरो भक्त्या पुराणमिदमादरात् ।मार्कण्डेयाभिधं वत्स ! लभेत् परमां गतिम्
यस्तु व्याकुरुते चैतच्छैवं लभते पदम्
तत् प्रयच्छेल्लिखित्वा यः सौवर्णकरिसंयुतम् ।कार्त्तिक्यां द्विजवर्य्याय लभेद्ब्रह्मणः पदम्
शृणोति श्रावयेद्वापि यश्चानुक्रमणीमिमाम् ।मार्कण्डेयपुराणस्य लभेद्बाञ्छितं फलम्
”इति श्रीनारदीयपुराणे पूर्व्वभागे बृहदुपाख्यानेचतुर्थपादे ९८ अध्यायः
अष्टमं अग्निपुराणम् ।श्रीब्रह्मोवाच ।“अथातः संप्रवक्ष्यामि तवाग्नेयपुराणकम् ।ईशानकल्पवृत्तान्तं वशिष्ठायानलोऽब्रवीत्
तत् पञ्चदशसाहस्रं नाम्नां चरितमद्भतम् ।पठतां शृण्वताञ्चैव सर्व्वपापहरं नृणाम्
प्रश्नपूर्व्वं पुराणस्य कथा सर्व्वावतारजा ।सृष्टिप्रकरणं चाथविष्णुपूजादिकं ततः
अग्निकार्य्यं ततः पश्चान्मन्त्रमुद्रादिलक्षणम् ।सर्व्वदीक्षाविधानञ्च अभिषेकनिरूपणम्
लक्षणं मण्डलादीनां कुशाया मार्ज्जनं ततः ।पवित्रारोपणविधिर्देवालयविधिस्ततः
शालग्रामादिपूजा मूर्त्तिलक्ष्म पृथक् पृथक् ।न्यासादीनां विधानञ्च प्रतिष्ठा पूर्त्तका ततः
विनायकादिदीक्षाणां विधिर्ज्ञेयस्ततः परम् ।प्रतिष्ठा सर्व्वदेवानां ब्रह्माण्डस्य निरूपणम्
गङ्गादितीर्थमाहात्म्यं जम्ब्वादिद्वीपवर्णनम् ।ऊर्द्ध्वाधोलोकरचना ज्योतिश्चक्रनिरूपणम्
ज्योतिषञ्च ततः प्रोक्तं शास्त्रं युद्धजयार्णवम् ।षट्कर्म्म ततः प्रोक्तं मन्त्रयन्त्रौषधीगणः
कुब्जिकादिसमर्च्चा षोढान्यासविधिस्तथा ।कोटिहोमविधानञ्च तदन्तरनिरूपणम्
ब्रह्मचर्य्यादिधर्म्माश्च श्राद्धकल्पविधिस्ततः ।ग्रहयज्ञस्ततः प्रोक्तो वैदिकस्मार्त्तकर्म्म
प्रायश्चित्तानुकथनं तिथीनाञ्च व्रतादिकम् ।वारव्रतानुकथनं नक्षत्रव्रतकीर्त्तनम्
मासिकव्रतनिर्द्देशो दीपदानविधिस्तथा ।नवव्यूहार्च्चनं प्रोक्तं नरकाणां निरूपणम्
व्रतानाञ्चापि दानानां निरूपणमिहोदितम् ।नाडीचक्रसमुद्देशः सन्ध्याविधिरनुत्तमः
गायत्त्र्यर्थस्य निर्द्देशो लिङ्गस्तोत्रं ततः परम् ।राजाभिषेकमन्त्रोक्तिर्धर्म्मकृत्यञ्च भूभुजाम्
स्वप्नाध्यायस्ततः प्रोक्तः शकुनादिनिरूपणम् ।मण्डलादिकनिर्द्देशो रणदीक्षाविधिस्ततः
रामोक्तनीतिनिर्द्देशो रत्नानां लक्षणं ततः ।धनुर्विद्या ततः प्रोक्ता व्यवहारप्रदर्शनम्
देवासुरविमर्द्दाख्या ह्यायुर्व्वेदनिरूपणम् ।गजादीनां चिकित्सा तेषां शान्तिस्ततः परम्
गोनसादिचिकित्सा नानापूजास्ततः परम् ।शान्तयश्चापि विविधा छन्दःशास्त्रमतः परम्
साहित्यञ्च ततः पश्चादेकार्णादिसमाह्वयाः ।सिद्धशिष्टानुशिष्टिश्च कोषः स्वर्गादिवर्गके
प्रलयानां लक्षणञ्च शारीरकनिरूपणम् ।वर्णनं नरकाणाञ्च योगशास्त्रमतः परम्
ब्रह्मज्ञानं ततः पश्चात् पुराणश्रवणे फलम् ।एतदाग्नेयकं विप्र ! पुराणं परिकीर्त्तितम
”तत्फलश्रुतिः ।“तल्लिखित्वा तु यो दद्यात् सुवर्णकमलाचितम् ।तिलधेनुयुतं वापि मार्गशीर्ष्यां विधानतः ।पुराणार्थविदे सोऽथ स्वर्गलोके महीयते
एषानुक्रमणी प्रोक्ता तषाग्नेयस्य भक्तिदा ।शृण्वतां पठताञ्चैव नृणाञ्चेह परत्र
*
इति श्रीनारदीयपुराणे पूर्व्वभागे बृहदुपाख्यानेचतुर्थपादे ९९ अध्यायः
नवमं भविष्यपुराणम् ।श्रीब्रह्मोवाच ।“अथ ते संप्रवक्ष्यामि पुराणं सर्व्वसिद्धिदम् ।भविष्यं भरतः सर्व्वलोकाभीष्टप्रदायकम्
यत्राहं सर्व्वदेवानामादिकर्त्ता समुद्यतः ।सृष्ट्यर्थं तत्र सञ्जातो मनुः स्वायम्भुवः पुरा
मां प्रणम्य पप्रच्छ धर्म्मं सर्व्वार्थसाधकम् ।अहं तस्मै तदा प्रीतः प्रावोचं धर्म्मसंहिताम्
पुराणानां यदा व्यासो व्यासञ्चक्रे महामतिः ।तदा तां संहितां सर्व्वां पञ्चधा व्यभजन्मुनिः
अघोरकल्पवृत्तान्तनानाश्चर्य्यकथाचिताम्
”तत्र प्रथमपर्व्वणि ।“तत्रादिमं स्मृतं पर्व्व ब्राह्म्यं यत्रास्त्युपक्रमः ।सूतशौनकसंवादे पुराणप्रश्नसंक्रमः ।आदित्यचरितः प्रायःसर्व्वाख्यानसमाचितः
सृष्ट्यादिलक्षणोपेतः शास्त्रसर्व्वस्वरूपकः ।पुस्तलेखकलेखानां लक्षणञ्च ततः परम्
संस्काराणाञ्च सर्व्वेषां लक्षणञ्चात्र कीर्त्तितम् ।पक्षत्यादितिथीनाञ्च कल्पाः सप्त कीर्त्तिताः
अष्टम्याद्याः शेषकल्पा वैष्णवे पर्व्वणि स्मृताः ।शैवे कामतो भिन्नाः सौरे चान्त्यकथाचयः
प्रतिसर्गाह्वयं पश्चान्नानाख्यानसमाचितम् ।पुराणस्योपसंहारसहितं पर्व्व पञ्चमम्
एषु पञ्चसु पूर्व्वस्मिन् ब्रह्मणो महिमाधिकः
”द्वितीयतृतीयचतुर्थपञ्चमपर्व्वसु ।“धर्म्मे कामे मोक्षे तु विष्णोश्चापि शिवस्य ।द्वितीये तृतीये सौरो वर्गचतुष्टये
प्रतिसर्गाह्वयं त्वन्त्यं प्रोक्तं सर्व्वकथाचितम् ।सभविष्यं विनिर्द्दिष्टं पर्व्व व्यासेन धीमता ।चतुर्द्दशसहस्रन्तु पुराणं परिकीर्त्तितम् ।भविष्यं सर्व्वदेवानां साम्यं यत्र प्रकीर्त्तितम्
गुणानां तारतम्येन समं ब्रह्मेति हि श्रुतिः
”तत्फलश्रुतिः ।“तल्लिखित्वा तु यो दद्यात् पौष्यां विद्बान् विम-त्सरः ।गुडधेनुयुतं हेमवस्त्रमाल्यविभूषणैः
वाचकं पुस्तकञ्चापि पूजयित्वा विधानतः ।गन्धाद्यैर्भाज्यभक्ष्यैश्च कृत्वा नीराजनादिकम् ।यो वै जितेन्द्रियो भूत्वा सोपवासः समाहितः
अथ वै यो नरो भक्त्या कीर्त्तयेच्छृणुयादपि ।स मुक्तः पातकैर्घोरैः प्रयाति ब्रह्मणः पदम्
योऽप्यनुक्रमणीमेतां भविष्यस्य निरूपिताम् ।पठेद्वा शृणुयाच्चैतौ भुक्तिं मुक्तिञ्च विन्दतः
”इति श्रीनारदीयपुराणे पूर्व्वभागे बृहदुपाख्यानेचतुर्थपादे १०० अध्यायः
दशमं ब्रह्मवैवर्त्तपुराणम् ।श्रीब्रह्मोवाच ।“शृणु वत्स ! प्रवक्ष्यामि पुराणं दशमं तव ।ब्रह्मवैवर्त्तकं नाम वेदमार्गानुदर्शकम्
सावर्णिर्यत्र भगवान् साक्षाद्देवर्षयेऽर्थितः ।नारदाय पुराणार्थं प्राह सर्व्वमलौकिकम्
धर्म्मार्थकाममोक्षाणां सारः प्रीतिर्हरौ हरे ।तयोरभेदसिद्ध्यर्थं ब्रह्मवैवर्त्तमुत्तमम्
रथन्तरस्य कल्पस्य वृत्तान्तं यन्मयोदितम् ।शतकोटिपुराणे तत् संक्षिप्य प्राह वेदवित्
व्यासश्चतुर्द्धा संव्यस्य ब्रह्मवैवर्त्तसंज्ञितम् ।अष्टादशसहस्रन्तत् पुराणं परिकीर्त्तितम्
ब्रह्मप्रकृतिविघ्नेशकृष्णखण्डसमाचितम् ।तत्र सूतर्षिसंवादे पुराणीयक्रमो मतः
”तत्र प्रथमे ब्रह्मखण्डे ।“सृष्टिप्रकरणं त्वाद्यं ततो नारदवेधसोः ।विवादः सुमहान् यत्र द्वयोरासीत् पराभवः
शिवलोकगतिः पश्चाज्ज्ञानलाभः शिवान्-मुनेः ।शिववाक्येन तत्पश्चात् मरीचे ! नारदस्य
मननञ्चैव सावर्णेर्ज्ञानार्थं सिद्धसेविते ।आश्रमे सुमहत्पुण्ये त्रैलोक्याश्चर्य्यकारिणि ।एतद्धि ब्रह्मखण्डं हि श्रुतं पापविनाशनम्
”द्वितीये प्रकृतिखण्डे ।“ततः सावर्णिसंवादो नारदस्य समीरितः ।कृष्णमाहात्म्यसंयुक्तो नानाख्यानकथोत्तरः
प्रकतेरं शभूतानां कलानाञ्चापि वर्णितम् ।माहात्म्यं पूजनाद्यञ्च विस्तरेण यथास्थितम्
एतत्प्रकृतिखण्डं हि श्रुतं भूतिविधायकम्
”तृतीये गणेशखण्डे ।“गरोशजन्मसंप्रश्नः सपुण्यकमहाव्रतम् ।पार्व्वत्याः कार्त्तिकेयेन सह विघ्नेशसम्भवः
चरितं कार्त्तवीर्य्यस्य जामदग्न्यस्य चाद्भुतम् ।विवादः सुमहान् पश्चाज्जामदग्न्यगणेशयोः
एतद्विघ्नेशखण्डं हि सर्व्वविघ्नविनाशनम्
”चतुर्थे श्रीकृष्णजन्मखण्डे ।“श्रीकृष्णजन्मसंप्रश्नो जन्माख्यानं ततोऽद्भुतम् ।गोकुले गमनं पश्चात् पूतनादिवधोऽद्भुतः
बाल्यकौमारजा लीला विविधास्तत्र वर्णिताः ।रासक्रीडा गोपीभिः शारदी समुदाहृता ।रहस्ये राधया क्रीडा वर्णिता बहुविस्तरा
सहाक्रूरेण तत्पश्चान्मथुरागमनं हरेः ।कंसादीनां वधे वृत्ते साद्यस्य द्विजसंस्कृतिः
काश्यसान्दीपनेः पश्चाद्विद्योपादानमद्भुतम् ।यवनस्य वधः पश्चाद्द्वारकागमनं हरेः
नरकादिवधस्तत्र कृष्णेन विहितोऽद्भुतः ।कृष्णखण्डमिदं विप्र ! नृणां संसारखण्डनम्
”तत्फलश्रुतिः ।“पठितञ्च श्रुतं ध्यातं पूजितं चाभिवर्णितम् ।इत्येतद्ब्रह्मवैवर्त्तं पुराणं चात्यलौकिकम्
व्यासोक्तं चादिसम्भूतं पठन् शृण्वन् विमुच्यते ।विज्ञानज्ञानशमनात् घोरात् संसारसागरात्
लिखित्वेदञ्च यो दद्यान्माघ्यां धेनुसमाचितम् ।ब्रह्मलोकमवाप्नोति मुक्तोऽज्ञानबन्धनात्
यश्चानुक्रमणीं वापि पठेद्वा शृणुयादपि ।सोऽपि कृष्णप्रसादेन लभते वाञ्छितं फलम्
”इति श्रीनारदीयपुराणे पूर्व्वभागे बृहदुपाख्यानेचतुर्थपादे १०१ अध्यायः
१०
एकादशं लिङ्गपुराणम् ।श्रीब्रह्मोवाच ।“शृणु पुत्त्र ! प्रवक्ष्यामि पुराणं लिङ्गसंज्ञितम् ।पठतां शृण्वताञ्चैव भक्तिमुक्तिप्रदायकम्
यच्च लिङ्गाभिधं तिष्ठन् वह्निलिङ्गे हरोऽभ्यधात् ।मह्यं धर्म्मादिसिद्ध्यर्थं अग्निकल्पकथाश्रयम्
तदेव व्यासदेवेन भागद्वयसमाचितम् ।पुराणं लिङ्गमुदितं बह्वाख्यानविचित्रितम्
तदेकादशसाहस्रं हरमाहात्म्यसूचकम् ।परं सर्व्वपुराणानां सारभूतं जगत्त्रये
पुराणोपक्रमे प्रश्नः सृष्टिसंङ्क्षेपतः पुरा
”तत्र पूर्व्वभागे ।“योगाख्यानं ततः प्रोक्तं कल्पाख्यानं ततःपरम्
लिङ्गोद्भवस्तदर्च्चा कीर्त्तिता हि ततः परम् ।सनत्कुमारशैलादिसंवादश्चाथ पावनः
ततो दधीचिचरितं युगधर्म्मनिरूपणम् ।ततो भुवनकोषाख्या सूर्य्यसोमान्वयस्ततः
ततश्च विस्तरात् सर्गस्त्रिपुराख्यानकं तथा ।लिङ्गप्रतिष्ठा ततः पशुपाशविमोक्षणम्
शिवव्रतानि तथा सदाचारनिरूपणम् ।प्रायश्चित्तान्यरिष्टानि काशीश्रीशैलवर्णनम्
अन्धकाख्यानकं पश्चाद्वाराहचरितं पुनः ।नृसिंहचरितं पश्चाज्जलन्धरवधस्ततः
शैवं सहस्रनामाथ दक्षयज्ञविनाशनम् ।कामस्य दहनं पश्चात् गिरिजायाः करग्रहः
ततो विनायकाख्यानं नृत्याख्यानं शिवस्य ।उपमन्युकथा चापि पूर्व्वभाग इतीरितः
*
तदुत्तरभागे ।“विष्णुमाहात्म्यकथनमम्बरीषकथा ततः ।सनत्कुमारनन्दीशसंवादश्च पुनर्मुने !
शिवमाहात्म्यसंयुक्तस्नानयागादिकं ततः ।सूर्य्यपूजाविधिश्चैव शिवपूजा मुक्तिदा
दानानि बहुधोक्तानि श्राद्धप्रकरणन्ततः ।प्रतिष्ठा तत्र गदिता ततोऽघोरस्य कीर्त्त नम्
व्रजेश्वरी महाविद्या गायत्त्रीमहिमा ततः ।त्र्यम्बकस्य माहात्म्यं पुराणश्रवणस्य
एतस्योपरिभागस्ते लैङ्गस्य कथितो मया ।व्यासेन हि निबद्धस्य रुद्रमाहात्म्यसूचिनः
”तत्फलश्रुतिः ।“लिखित्वैतत् पुराणन्तु तिलधेनुसमाचितम् ।फाल्गुन्यां पूर्णिमायां यो दद्याद्भक्त्या द्विजातये ।स लभेच्छिवसायुज्यं जरामरणवर्ज्जितः
यः पठेच्छृणुयाद्वापि लैङ्गं पापापहं नरः ।स भुक्तभोगो लोकेऽस्मिन्नन्ते शिवपुरं व्रजेत्
लिङ्गानुक्रमणीमेतां पठेद् यः शृणुयात् तथा ।तावुभौ शिवभक्तौ तु लोकद्वितयभोगिनौ ।जायेतां गिरिजाभर्त्तुः प्रसादान्नात्र संशयः
”इति श्रीनारदीयपुराणे पूर्व्वभागे बृहदुपाख्यानेचतुर्थपादे १०२ अध्यायः
११
द्वादशं वराहपुराणम् ।श्रीब्रह्मोवाच ।“शृणु वत्स ! प्रवक्ष्यामि वाराहं वैपुराणकम् ।भागद्वययुतं शश्वद्विष्णुमाहात्म्यसूचकम्
मानवस्य तु कल्पस्य प्रसङ्गं मत्कृतं पुरा ।निबबन्ध पुराणेऽस्मिंश्चतुर्व्विंशसहस्रके
व्यासो हि विदुषां श्रेष्ठः साक्षान्नारायणो भुवि ।तत्रादौ शुभसंवादः स्मृतो भूमिवराहयोः
”तत्र पूर्व्वभागे ।“अथादिकृतवृत्तान्ते रभ्यस्य चरितं ततः ।दुर्ज्जयाय तत्पश्चाच्छ्राद्धकल्प उदीरितः
महातपस आख्यानं गौर्य्युत्पत्तिस्ततः परम् ।विनायकस्य नागानां सेनान्यादित्ययोरपि
गणानाञ्च तथा देव्या धनदस्य वृषस्य ।आख्यानं सत्यतपसो व्रताख्यानसमन्वितम्
अगस्त्यगीता तत्पश्चाद्रुद्रगीता प्रकीर्त्तिता ।महिषासुरविध्वंसे माहात्म्यञ्च त्रिशक्तिजम्
पर्व्वाध्यायस्ततः श्वेतोपाख्यानं गोप्रदानिकम् ।इत्यादिकृतवृत्तान्तं प्रथमोद्देशनामकम्
भगवद्धर्म्मके पश्चाद्व्रततीर्थकथानकम् ।द्वात्रिंशदपराधानां प्रायश्चित्तं शरीरकम्
तीर्थानाञ्चापि सर्व्वेषां माहात्म्यं पृथगीरितम् ।मथुराया विशेषेण श्राद्धादीनां विधिस्ततः
वर्णनं यमलोकस्य ऋषिपुत्त्रप्रसङ्गतः ।विपाकः कर्म्मणाञ्चैव विष्णुव्रतनिरूपणम्
गोकर्णस्य माहात्म्यं कीर्त्तितं पापनाशनम् ।इत्येष पूर्व्वभागोऽस्य पुराणस्य निरूपितः
”उत्तरभागे ।“उत्तरे प्रविभागे तु पुलस्त्यकुरुराजयोः ।संवादे सर्व्वतीर्थानां माहात्म्यंविस्तारात्पृथक्
अशेषधर्म्माश्चाख्याताः पौष्करं पुण्यपर्व्व ।इत्येवं तव वाराहं प्रोक्तं पापविनाशनम्
”तत्फलश्रुतिः ।“पठतां शृण्वताञ्चैव भगवद्भक्तिवर्द्धनम् ।काञ्चनं गरुडं कृत्वा तिलधेनुसमाचितम्
लिखित्वैतच्च यो दद्याच्चैत्र्यां विप्राय भक्तितः ।स लभेद्वैष्णवं धाम देवर्षिगणवन्दितः
यो वानुक्रमणीमेतां शृणोत्यपि पठत्यपि ।सोऽपि भक्तिं लभेद्विष्णौ संसारोच्छेदकारि-णीम्
*
इति श्रीनारदीयपुराणे पूर्व्वभागे बृहदुपाख्यानेचतुर्थपादे १०३ अध्यायः
१२
त्रयोदशं स्कन्दपुराणम् ।श्रीब्रह्मोवाच ।“शृणु वक्ष्ये मरीचे ! पुराणं स्कन्दसंज्ञितम् ।यस्मिन् प्रतिपदं साक्षान्महादेवो व्यवस्थितः
पुराणे शतकोटौ तु यच्छैवं वर्णितं मया ।लक्षितस्यार्थजातस्य सारो व्यासेन कीर्त्तितः
स्कन्दाह्वयस्तत्र खण्डाः सप्तैव परिकल्पिताः ।एकाशीतिसहस्रन्तु स्कान्दं सर्व्वाघकृन्तनम्
यः शृणोति पठेद्वापि तु साक्षाच्छिवः स्थितः ।यत्र माहेश्वरा धर्म्माः षण्मुखेन प्रकाशिताः
कल्पे तत्पुरुषे वृत्ताः सर्व्वसिद्धिविधायकाः
”तत्र प्रथमे माहेश्वरखण्डे ।“तस्य माहेश्वरश्चाद्यः खण्डः पापप्रणाशनः
किञ्चिन्न्यूनार्कसाहस्रो बहुपुण्यो बृहत्कथः ।सुचरित्रशतैर्युक्तः स्कन्दमाहात्म्यसूचकः
यत्र केदारमाहात्म्ये पुराणोपक्रमः पुरा ।दक्षयज्ञकथा पश्चाच्छिवलिङ्गार्च्चने फलम्
समुद्रमथनाख्यानं देवेन्द्र चरितं ततः ।पार्व्वत्याः समुपाख्यानं विवाहस्तदनन्तरम्
कुमारोत्पत्तिकथनं ततस्तारकसङ्गरः ।ततः पशुपताख्यानं चण्ड्याख्यानसमाचितम्
द्यूतप्रवर्त्तनाख्यानं नारदेन समागमः ।ततः कुमारमाहात्म्ये पञ्चतीर्थकथानकम्
धर्म्मवर्म्मनृपाख्यानं नदीसागरकीर्त्तनम् ।इन्द्रद्युम्नकथा षश्चान्नाडीजङ्घकथाचिता
प्रादुर्भावस्ततो मह्याः कथा दमनकस्य ।महीसागरसंयोगः कुमारेशकथा ततः
ततस्तारकयुद्धञ्च नानाख्यानसमाचितम् ।वधश्च तारकस्याथ पञ्चलिङ्गनिवेशनम्
द्वीपाख्यानं ततः पुण्यं ऊर्द्ध्वलोकव्यवस्थितः ।ब्रह्माण्डस्थितिमानञ्च वर्करेशकथानकम्
महाकालसमुद्भूतिः कथा चास्य महाद्भुता ।वासुदेवस्य माहात्म्यं कोरितीर्थं ततः परम्
नानातीर्थसमाख्यानं गुप्तक्षेत्रे प्रकीर्त्तितम् ।पाण्डवानां कथा पुण्या महाविद्याप्रसाधनम्
तीर्थयात्रासमाप्तिश्च कौमारमिदमद्भुतम् ।अरुणाचलमाहात्म्ये सनकब्रह्मसंकथा
गौरीतपःसमाख्यानं तत्तत्तीर्थनिरूपणम् ।महिषासुरजाख्यानं वधश्चास्य महाद्भुतः
शोणाचले शिवास्थानं नित्यदा परिकीर्त्तितम् ।इत्येष कथितः स्कान्दे खण्डो माहेश्वरोऽद्-भुतः
”द्वितीये वैष्णवखण्डे ।“द्वितीयो वैष्णवः खण्डस्तस्याख्यानानि मे शृणु ।प्रथमं भूमिवाराहं समाख्यानं प्रकीर्त्तितम्
यत्र वोचककुध्रस्य माहात्म्यं पापनाशनम् ।कमलायाः कथा पुण्या श्रीनिवासस्थितिस्ततः
कुलालाख्यानकं चात्र सुवर्णमुखरीकथा ।नानाख्यानसमायुक्ता भारद्वाजकथाद्भुता
मतङ्गाञ्जनसंवादः कीर्त्तितः पापनाशनः ।पुरुषोत्तममाहात्म्यं कीर्त्तितं चोत्कले ततः
मार्कण्डेयसमाख्यानमम्बरीषस्य भूपतेः ।इन्द्रद्युम्नस्य चाख्यानं विद्यापतिकथा शुभा
जैमिनेः समुपाख्यानं नारदस्यापि वाडव ! ।नीलकण्ठसमाख्यानं नारसिंहोपवर्णनम्
अश्वमेधकथा राज्ञो ब्रह्मलोकगतिस्तथा ।रथयात्राविधिः पश्चाज्जन्मस्नानविधिस्तथा
दक्षिणामूर्त्त्युपाख्यानं गुण्डिचाख्यानकं ततः ।रथरक्षाविधानञ्च शयनोत्सवकीर्त्तनम्
श्वेतोपाख्यानमत्रोक्तं वह्न्युत्सवनिरूपणम् ।दोलोत्सवो भगवतो व्रतं सांवत्सराभिधम्
पूजा कामिभिर्विष्णोरुद्दालकनियोगकः ।मोक्षसाधनमत्रोक्तं नानायोगनिरूपणम्
दशावतारकथनं स्नानादिपरिकीर्त्तनम् ।ततो वदरिकायाश्च माहात्म्यं पापनाशनम्
अग्न्यादितीर्थमाहात्म्यं वैनतेयशिलाभवम् ।कारणं भगवद्वासे तीर्थं कापालमोचनम्
पञ्चधाराभिधं तीर्थं मेरुसंस्थापनं तथा ।ततः कार्त्तिकमाहात्म्ये माहात्म्यं मदनालसम्
धूम्रकोशसमाख्यानं दिनकृत्यानि कार्त्तिके ।पञ्चभीष्मव्रताख्यानं कीर्त्तिदं भुक्तिमुक्तिदम्
तद्व्रतस्य माहात्म्ये विधानं स्नानजं तथा ।पुण्ड्रादिकीर्त्तनं चात्र मालाधारणपुण्यकम्
पञ्चामृतस्नानपुण्यं घण्टानादादिजं फलम् ।नानापुष्पार्च्चनफलं तुलसीदलजं फलम्
नैवेद्यस्य माहात्म्यं हरिवासरकीर्त्तनम् ।अखण्डैकादशीपुण्यं तथा जागरणस्य
मत्स्योत्सवविधानञ्च नाममाहात्म्यकीर्त्तनम् ।ध्यानादिपुण्यकथनं माहात्म्यं मथुराभवम्
मथुरातीर्थमाहात्म्यं पृथगुक्तं ततः परम् ।वनानां द्वादशानाञ्च माहात्म्यं कीर्त्तितं ततः
श्रीमद्भागवतस्यात्र माहात्म्यं कीर्त्तितं परम् ।वज्रशाण्डिल्यसंवादं अन्तर्लीलाप्रकाशकम्
ततो माघस्य माहात्म्यं स्नानदानजपोद्भवम् ।नानाख्यानसमायुक्तं दशाध्याये निरूपितम्
ततो वैशाखमाहात्म्ये शय्यादानादिजं फलम् ।जलदानादिविधयः कामाख्यानमतः परम्
श्रुतदेवस्य चरितं व्याधोपाख्यानमद्भुतम् ।तथाक्षयतृतीयादेर्विशेषात् पुण्यकीर्त्तनम्
ततस्त्वयोध्यामाहात्म्ये चक्रब्रह्माह्वतीर्थके ।ऋणपापविमोक्षाख्ये तथाधारसहस्रकम्
स्वर्गद्वारं चन्द्रहरिधर्म्महर्य्युपवर्णनम् ।स्वर्णवृष्टेरुपाख्यानं तिलोदा सरयूयुतिः
सीताकुण्डं गुप्तहरिः सरयूर्घर्घराचयः ।गोप्रचारञ्च दुग्धोदं गुरुकुण्डादिपञ्चकम्
घोषार्कादीनि तीर्थानि त्रयोदश ततः परम् ।गयाकूपस्य माहात्म्यं सर्व्वाघविनिवर्त्तकम्
माण्डव्याश्रमपूर्व्वाणि तीर्थानि तदनन्तरम् ।अजितादिमानसादितीर्थानि गदितानि
इत्येष वैष्णवः खण्डो द्वितीयः परिकीर्त्तितः
”तृतीये ब्रह्मखण्डे ।“अतःपरं ब्रह्मखण्डं मरीचे ! शृणु पुण्यदम् ।यत्र वै सेतुमाहात्म्ये फलं स्नानेक्षणेद्भवम्
गालवस्य तपश्चर्य्या राक्षसाख्यानकं ततः ।चक्रतीर्थादिमाहात्म्यं देवीपतनसंयुतम्
वेतालतीर्थमहिमा पापनाशादिकीर्त्तनम् ।मङ्गलादिकमाहात्म्यं ब्रह्मकुण्डादिवर्णनम् ।हनूमत्कुण्डमहिमागस्त्यतीर्थभवं फलम्
रामतीर्थादिकथनं लक्ष्मीतीर्थनिरूपणम् ।शङ्खादितीर्थमहिमा तथा साध्यामृतादिजः
धनुष्कोट्यादिमाहात्म्यं क्षीरकुण्डादिजं तथा ।गायत्र्यादिकतीर्थानां माहात्म्यं चात्र कीर्त्ति-तम्
रामनाथस्य महिमा तत्त्वज्ञानोपदेशनम् ।यात्राविधानकथनं सेतौ मुक्तिप्रदं नृणाम्
धर्म्मारण्यस्य माहात्म्यं ततः परमुदीरितम् ।स्थाणुः स्कन्दाय भगवाम् यत्र तत्त्वमुपादिशत्
धर्म्मारण्यसुसंभूतिस्तत्पुण्यपरिकीर्त्तनन् ।कर्म्मसिद्धेः समाख्यानं ऋषिवंशनिरूपणम्
अप्सरातीर्थमुख्यानां माहात्म्यं यत्र कीर्त्ति-तम् ।वर्णानामाश्रमानाञ्च धर्म्मतत्त्वनिरूपणम्
देवस्थानविभागश्च वकुलार्ककथा शुभा ।छत्रा नन्दा तथा शान्ता श्रीमाता मतङ्गिनी
पुण्यदात्र्यः समाख्याता यत्र देव्यः समास्थिताः ।इन्द्रेश्वरादिमाहात्म्यं द्बारकादिनिरूपणम्
लोहासुरसमाख्यानं गङ्गाकूपनिरूपणम् ।श्रीरामचरितञ्चैव सत्यमन्दिरवर्णनन्
जीर्णोद्धारस्य कथनं शासनप्रतिपादनम् ।जातिभेदप्रकथनं स्मृतिधर्म्मनिरूपणम्
ततस्तु वैष्णवा धर्म्मा नानाख्यानैरुदीरिताः ।चातुर्म्मास्ये ततः पुण्ये सर्व्वधर्म्मनिरूपणम्
दानप्रशंसा तत्पश्चाद्व्रतस्य महिमा ततः ।तपसश्चैव पूजायाः सच्छिद्रकथनं ततः
प्रकृतीनां भिदाख्यानं शालग्रामनिरूपणम् ।तारकस्य वधोपायो त्र्यक्षार्च्चा महिमा तथा
विष्णोः शापश्च वृक्षत्वं पार्व्वत्यनुनयस्ततः ।हरस्य ताण्डवं नृत्यं रामनामनिरूपणम्
हरस्य लिङ्गपतनं कथायै जवनस्य ।पार्व्वतीजन्मचरितं तारकस्य वधोऽद्भुतः
प्रणवैश्वर्य्यकथनं तारकाचरितं पुनः ।दक्षयज्ञसमाप्तिश्च द्वादशाक्षररूपणम्
ज्ञानयोगसमाख्यानं महिमा द्वादशार्णजः ।श्रवणादिकपुण्यञ्च कीर्त्तितं शर्म्मदं नृणाम्
”तृतीये ब्रह्मखण्डस्योत्तरभागे ।“ततो ब्रह्मोत्तरे भागे शिवस्य महिमाद्भुतः ।पञ्चाक्षरस्य महिमा गोकर्णमहिमा ततः
शिवरात्रेश्च महिमा प्रदोषव्रतकीर्त्तनम् ।सोमवारव्रतञ्चापि सीमन्तिन्याः कथानकम्
भद्रायूत्पत्तिकथनं सदाचारनिरूपणम् ।शिववर्म्मसमुद्देशो भद्रायूद्वाहवर्णनम्
भद्रायुमहिमा चापि भस्ममाहात्म्यकीर्त्तनम् ।शवराख्यानकञ्चैव उमामाहेश्वरव्रतम्
रुद्राक्षस्य माहात्म्यं रुद्राध्यायस्य पुण्यकम् ।श्रवणादिकपुण्यञ्च ब्रह्मखण्डोऽयमीरितः
*
चतुर्थे काशीखण्डे ।“अतः परं चतुर्थन्तु काशीखण्डमनुत्तमम् ।विन्ध्यनारदयोर्यत्र संवादः परिकीर्त्तितः
सत्यलोकप्रभावश्चागस्त्यावासे सुरागमः ।पतिव्रताचरित्रञ्च तीर्थचर्य्याप्रशंसनम्
ततश्च सप्तपुर्य्याख्या संयमिन्या निरूपणम् ।व्रध्नस्य तथेन्द्राग्न्योर्लोकाप्तिः शिवशर्म्मणः
अग्नेः समुद्भवश्चैव क्रव्याद्वरुणसम्भवः ।गन्धवत्यलकापुर्य्योरीश्वर्य्याश्च समुद्भवः
चन्द्रोडुबुधलोकानां कुजेज्यार्कभुवां क्रमात् ।सप्तर्षीणां ध्रुवस्यापि तपोलोकस्य वर्णनम्
ध्रुवलोककथा पुण्या सत्यलोकनिरीक्षणम् ।स्कन्दागस्त्यसमालापो मणिकर्णीसमुद्भवः
प्रभावश्चापि गङ्गाया गङ्गानामसहस्रकम् ।वाराणसीप्रशंसा भैरवाविर्भवस्ततः
दण्डपाणिज्ञानवाप्योरुद्भवः समनन्तरम् ।ततः कलावत्याख्यानं सदाचारनिरूपणम्
ब्रह्मचारिसमाख्यानं ततः स्त्रीलक्षणानि ।कृत्याकृत्यविनिर्द्देशो ह्यविमुक्तेशवर्णनम्
गृहस्थयोगिनोर्धर्म्माः कालज्ञानं ततः परम् ।दिवोदासकथा पुण्या काशीवर्णनमेव
योगिचर्च्चा लोलार्कोत्तरशाम्बार्कजा कथा ।द्रुपदार्कस्य तार्क्ष्याख्यारुणार्कस्योदयस्ततः
दशाश्वमेधतीर्थ्याख्या मन्दराच्च गणागमः ।पिशाचमोचनाख्यानं गणेशप्रेषणन्ततः
मायागणपतेश्चाथ भुवि प्रादुर्भवस्ततः ।विष्णुमायाप्रपञ्चोऽथ दिवोदासविमोक्षणम्
ततः पञ्चनदोत्पत्तिर्विन्दुमाधवसम्भवः ।ततो वैष्णवतीर्थाख्या शूलिनः काशिकागमः
जैगीषव्येण संवादो ज्येष्ठेशाख्या महेशितुः ।क्षेत्राख्यानं कन्दुकेशव्याध्रेश्वरसमुद्भवः
शैलेशरत्नेश्वरयोः कृत्तिवासस्य चोद्भवः ।देवतानामधिष्ठानं दुर्गासुरपराक्रमः
दुर्गाया विजयश्चाथ ओङ्कारेशस्य वर्णनम् ।पुनरोङ्कारमाहात्म्यं त्रिलोचनसमुद्भवः
केदाराख्या धर्म्मेशकथा विश्वभुजोद्भवा ।वीरेश्वरसमाख्यानं गङ्गामाहात्म्यकीर्त्तनम्
विश्वकर्म्मेशमहिमा दक्षयज्ञोद्भवस्तथा ।सतीशस्यामृतेशादेर्भुजस्तम्भः पराशरेः
क्षेत्रतीर्थकदम्बश्च मुक्तिमण्डपसंकथा ।विश्वेशविभवश्चाथ ततो यात्रापरिक्रमः
*
पञ्चमे अवन्तीखण्डे ।“अतः परं त्ववन्त्याख्यं शृणु खण्डञ्च पञ्चकम् ।महाकालवनाख्यानं ब्रह्मशीर्षच्छिदा ततः
प्रायश्चित्तविधिश्चाग्नेरुत्पत्तिश्च सुरागमः ।देवदीक्षा शिवस्तोत्रं नानापातकनाशनम्
कपालमोचनाख्यानं महाकालवनस्थितिः ।तीर्थं कलकलेशस्य सर्व्वपापप्रणाशनम्
कुण्डमप्सरसंज्ञञ्च सर्गे रुद्रस्य पुण्यदम् ।कुटुम्बेशञ्च विद्याध्रमर्कटेश्वरतीर्थकम्
स्वर्गद्वारं चतुःसिन्धुतीर्थं शङ्करवापिका ।सकरार्कगन्धवतीतीर्थम्पापप्रणाशनम्
दशाश्वमेधैकानंशातीर्थ हरिसिद्धिदम् ।पिशाचकादियात्रा हनूमत्कयमेश्वरौ
महाकालेशयात्रा वल्मीकेश्वरतीर्थकम्
शुक्रेशभेशोपाख्यानं कुशस्थल्याः प्रदक्षिणम् ।अक्रूरमन्दाकिन्धङ्कपादचन्द्राकवैभवम्
करभेशकुक्कुटेशलड्डुकेशादितीर्थकम् ।मार्कण्डेशं यज्ञवापी सोमेशं नरकान्तकम्
केदारेश्वररामेशसौभाग्येशनरार्ककम् ।केशार्कं शक्तिभेदञ्च स्वणक्षरमुखानि
ओङ्कारेशादितीर्थानि अन्धकस्तुतिकीर्त्तनम् ।कालारण्ये लिङ्गसङ्ख्या स्वर्णशृङ्गाभिधानकम्
कुशस्थल्या अवन्त्याश्चोज्जयिन्या अभिधानकम् ।पद्मावती कुमुद्वत्यमरावतीतिनामकम्
विशालाप्रतिकल्पाभिधाने ज्वरशान्तिकम् ।शिप्रास्नानादिकफलं नागोन्मीता शिवस्तुतिः
हिरण्याक्षवधाख्यानं तीर्थं सुन्दरकुण्डकम् ।नीलगङ्गा पुष्कराख्यं बिन्ध्यावासनतीर्थकम्
पूरुषोत्तमाधिमासं तत्तीर्थञ्चाघनाशनम् ।गोमतीवामने कुण्डे विष्णोर्नामसहस्रकम्
वीरेश्वरसरः कालभैरवस्य तीर्थके ।महिमा नागपञ्चम्यां नृसिंहस्य जयन्तिका
कुठुवेश्वरयात्रा देवसाधककीर्त्तनम् ।कर्कराजाख्यतीर्थञ्च विघ्नेशादिसुरोहनम्
रुद्रकुण्डप्रभृतिषु बहुतीर्थनिरूपणम् ।यात्राष्टतीर्थजा पुण्या रेवामाहात्म्यमुच्यते
धर्म्मपुण्यस्य वैराग्ये मार्कण्डेयेन सङ्गमः ।प्राग्लयानुभवाख्यानं अमृतापरिकीर्त्तनम्
कल्पे कल्पे पृथक् नाम नर्म्मदायाः प्रकीर्त्तितम् ।स्तवमार्षं नार्म्मदञ्च कालरात्रिकथा ततः
महादेवस्तुतिः पश्चात् पृथक्कल्पकथाद्भुता ।बिशल्याख्यानकं पश्चाज्जालेश्वरकथा तथा
गौरीव्रतसमाख्यानं त्रिपुरज्वालनन्ततः ।देहपातविधानञ्च कावेरीसङ्गमस्ततः
दारुतीर्थं ब्रह्मवर्ज्जं यत्रेश्वरकथानकम् ।अग्नितीर्थं रवितीर्थं मेघनादं दिदारुकम्
देवतीर्थं नर्म्मदेशं कपिलाख्यं करञ्जकम् ।कुण्डलेशं पिप्पलादं विमलेशञ्च शूलभित्
शचीहरणमाख्यातमन्धकस्य वधस्ततः ।शूलभेदोद्भवो यत्र दानधर्म्माः पृधग्विधाः
आख्यानं दीर्घतपस ऋष्यशृङ्गकथा ततः ।चित्रसेनकथा पुण्या काशिराजस्य मोक्षणम्
ततो देवशिलाख्यानं शवरीचरिताचितम् ।व्याधाख्यानं ततः पुण्यं पुष्करिण्यर्कतीर्थकम्
आपित्येश्वरतीर्थञ्च शक्रतीर्थं करोटिकम् ।कुमारेशमगस्त्येशं च्यवनेशञ्च मातृजम्
लोकेशं धनदेशञ्च मङ्गलेशञ्च कामजम् ।नागेशञ्चापि गोपारं गौतमं शङ्खचूडजम्
नारदेशं नन्दिकेशं वरुणेश्वरतीर्थकम् ।दधिस्कन्दादितीर्थानि हनूमन्तेश्वरन्ततः
रामेश्वरादितीर्थानि सोमेशं पिङ्गलेश्वरम् ।ऋणमोक्षं कपिलेशं पूतिकेशं जलेशयम्
चण्डार्कयमतीर्थञ्च कह्लोडीशञ्च नान्दिकम् ।नारायणञ्च कोटीशं व्यासतीर्थं प्रभासिकम्
नागेशं सङ्कर्षणकं मन्मथेश्वरतीर्थकम् ।एरण्डीसङ्गमं पुण्यं सुवर्णाशिलतीर्थकम्
करञ्जं कामहं तीर्थं भाण्डीरं रोहिणीमवम् ।चक्रतीर्थं धौतपापं स्कान्दमाङ्गिरसाह्वयम्
कोटितीर्थमयोन्याख्यमङ्गाराख्यं त्रिलोचनम् ।इन्द्रेशं कम्बुकेशञ्च सोमेशं कोहनेशकम्
नार्म्मदं चार्कमाग्नेयं भार्गवेश्वरसत्तमम् ।ब्राह्मं दैवञ्च भागेशमादिवाराहणं कवे
रामेशमथ सिद्धेशमाहल्यं कङ्कटेश्वरम् ।शाक्रं सौम्यञ्च नान्देशं तापेशं रुक्मिणीभवम्
योजनेशं वराहेशं द्वादशीशिवतीर्थके ।सिद्धेशं मङ्गलेशञ्च लिङ्गवाराहतीर्थकम्
कुण्डेशं श्वेतवाराहं भार्गवेशं रवीश्वरम् ।शुक्लादीनि तीर्थानि हूँकारस्वामितीर्थकम्
सङ्गमेशं नारकेशं मोक्षं सार्पञ्च गोपकम् ।नागं शाम्बञ्च सिद्धेशं मार्कण्डाक्रूरतीर्थके
कामोदशूलारोपाख्ये माण्डव्यं गोपकेश्वरम् ।कपिलेशं पिङ्गलेशं भूतेशं गाङ्गगौतमे
आश्वमेधं भृगुकच्छं केदारेशञ्च पापनुत् ।खनखलेशं जालेशं शालग्रामं वराहकम्
चन्द्रप्रभासमादित्यं श्रीपत्याख्यञ्च हंसकम् ।मूलस्थानञ्च शूलेशमाग्नायाचित्रदैवकम्
शिखीशं कोटितीर्थञ्च दशकन्यं सुवर्णकम् ।ऋणमोक्षं भारभूतिरत्रास्ते पुंखमुण्डिमम्
आमलेशं कपालेशं शृङ्गेरण्डीभवन्ततः ।कोटितीर्थं लोटनेशं फलस्तुतिरतः परम्
दृमिजङ्गलमाहात्म्ये रोहिताश्वकथा ततः ।धुन्धुमारसमाख्यानं वधोपायस्ततोऽस्य
वधो धुन्धोस्ततः पश्चात् ततश्चित्रवहोद्भवः ।महिमास्य ततश्चण्डीशप्रभावो रतीश्वरः
केदारेशो लक्षतीर्थं ततो विष्णुपदीभवम् ।मुखारं च्यवनान्धाख्यं ब्रह्मणश्च सरस्ततः
चक्राख्यं ललिताख्यानं तीर्थञ्च बहुगोमथम् ।रुद्रावर्त्तञ्च मार्कण्डं तीर्थं पापप्रणाशनम्
रावणेशं शुद्धपटं देवान्धुप्रेततीर्थकम् ।जिह्वोदतीर्थसम्भूतिः शिवोद्भेदं फलस्तुतिः
एष खण्डो ह्यवन्त्याख्यः शृण्वतां पापनाशनः
षष्ठे नागरखण्डे ।“अतः परं नागराख्यः खण्डः षष्ठोऽभिधीयते
लिङ्गोत्पत्तिसमाख्यानं हरिश्चन्द्रकथा शुभा ।विश्वामित्रस्य माहात्म्यं त्रिशङ्कुस्वर्गतिस्तथा
हाटकेश्वरमाहात्म्ये वृत्रासुरवधस्तथा ।नागविलं शङ्खतीर्थमचलेश्वरवर्णनम्
चमत्कारपुराख्यानं चमत्कारकरं परम् ।गयशीर्षं बालशाख्यं बालमण्डं मृगाह्वयम्
विष्णुपादञ्च गोकर्णं युगरूपं समाश्रयः ।सिद्धेश्वरं नागसरः सप्तार्षेयं ह्यगस्त्यकम्
भ्रूणगर्त्तं नलेशञ्च भीष्मं दूर्व्वैरमर्ककम् ।सार्म्मिष्ठं शोभनाथञ्च दौर्गमानर्जकेश्वरम्
जमदग्निवधाख्यानं नैःक्षत्त्रियकथानकम् ।रामह्नदं नागपुरं जडलिङ्गञ्च यज्ञभूः
मुण्डीरादित्रिकार्कञ्च सतीपरिणयस्तथा ।वालखिल्यञ्च यागेशं वालखिल्यञ्च गारुडम्
लक्ष्मीशापः साप्तविंशः सोमप्रासादमेव ।अम्बावृद्धं पादुकाख्यमाग्नेयं ब्रह्मकुण्डकम्
गोमुखं लोहयष्ट्याख्यमजापालेश्वरी तथा ।शानैश्चरं राजवापी रामेशो लक्ष्मणेश्वरः
कुशेशाख्यं लवेशाख्यं लिङ्गं सर्व्वोत्तमोत्तमम् ।अष्टषष्टिसमाख्यानं दमयन्त्यास्त्रिजातकम्
ततोऽम्बा रेवती चात्र भट्टिकातीर्थसम्भवम् ।क्षेमङ्करी केदारं शुक्लतीर्थं मुखारकम्
सत्यसन्धेश्वराख्यानं तथा कर्णोत्पलाकथा ।अटेश्वरं याज्ञवल्क्यं गौर्य्यं गाणेशमेव
ततो वास्तुपदाख्यानमजागहकथानकम्
सौभाग्यान्धुकशूलेशं धर्म्मराजकथानकम् ।मिष्टाम्रदेश्वराख्यानं गाणपत्यत्रयं ततः
जावालिचरितञ्चैव मकरेशकथा ततः ।कालेश्वर्य्यन्धकाख्यानं कुण्डमाप्सरसन्तथा
पुष्यादियं रौहिताश्वं नागरोत्पत्तिकीर्त्तनम् ।भार्गवं चरितं चैव वैश्वामैत्रं ततः परम्
सारस्वतं पैप्पलादं कंसारीशञ्च पैण्डिकम् ।ब्रह्मणो यज्ञचरितं सावित्र्याख्यानसंयुतम्
रैवतं भर्त्तृयज्ञाख्यं मुख्यतीर्थनिरीक्षणम् ।कौरवं हाटकेशाख्यं प्रभासं क्षेत्रकत्रयम्
पौष्करं नैमिषं धार्म्ममरण्यत्रितयं स्मृतम् ।वाराणसी द्वारकाख्यावन्त्याख्येति पुरीत्रयम्
वृन्दावनं खाण्डवाख्यमद्वैकाख्यं वनत्रयम् ।कल्पः शालस्तथा नन्दो ग्रामत्रयमनुत्तमम्
असिशुक्लपितृसंज्ञं तीर्थत्रयमुदाहृतम् ।श्र्यर्व्वुदौ रैवतश्चैव पर्व्वतत्रयमुत्तमम्
नदीनां त्रितयं गङ्गा नर्म्मदा सरस्वती ।सार्द्धकोटित्रयफलमेकैकञ्चैषु कीर्त्तितम्
कूपिका शङ्खतीर्थञ्चामरकं बालमण्डनम् ।हाटकेशक्षेत्रफलप्रदं प्रोक्तं चतुष्टयम्
शाम्बादित्यं श्राद्धकल्पं यौधिष्ठिरमथान्धकम् ।जलशायि चतुर्म्मास्यमशून्यशयनव्रतम्
मङ्कणेशं शिवरात्रिस्तुलापुरुषदानकम् ।पृथ्वीदानं वाणकेशं कपालमोचनेश्वरम्
पापपिण्डं साप्तलैङ्गं युगमानादिकीर्त्तनम् ।निम्बेशशाकम्भर्य्याख्या रुद्रैकादशकीर्त्तनम्
दानमाहात्म्यकथनं द्वादशादित्यकीर्त्तनम् ।इत्येष नागरः खण्डः प्रभासाख्योऽधुनोच्यते
”सप्तमे प्रभासखण्डे ।“सोमेशो यत्र विश्वेशोऽर्कस्थलं पुण्यदं महत् ।सिद्धेश्वरादिकाख्यानं पृथगत्र प्रकीर्त्तितम्
अग्नितीर्थं कपर्द्दीशं केदारेशं गतिप्रदम् ।भीमभैरवचण्डीशभास्कराङ्गारकेश्वराः
बुधेज्यभृगुसौरेन्दुशिखीशा हरविग्रहाः ।सिद्धेश्वराद्याः पञ्चान्येरुद्रास्तत्र व्यवस्थिताः
वरारोहा ह्यजापाला मङ्गला ललितेश्वरी ।लक्ष्मीशो वाडवेशश्चार्घीशः कामेश्वरस्तथा
गौरीशवरुणेशाख्यमुषीशञ्च गणेश्वरम् ।कुमारेशञ्च शाकल्यं शकुलोतङ्कगौतमम्
दैत्यघ्नेशं चक्रतीर्थं सन्निहत्याह्वयं तथा ।भूतेशादीनि लिङ्गानि आदिनारायणाह्वयम्
ततश्चक्रधराख्यानं शाम्बादित्यकथानकम् ।कथा कण्टकशोधिन्या महिषघ्न्यास्ततः परम्
कपालीश्वरकोटीशबालब्रह्माह्वसत्कथा ।नरकेशसम्बर्त्तेशनिधीश्वरकथा ततः
बलभद्रेश्वरस्याथ गङ्गाया गणपस्य ।जाम्बवत्याख्यसरितः पाण्डुकूपस्य सत्कथा
शतमेधलक्षमेधकोटिमेधकथा तथा ।दुर्व्वासार्कयदुस्थानहिरण्यासङ्गमोत्कथा
नगरार्कस्य कृष्णस्य सङ्कर्षणसमुद्रयोः ।कुमार्य्याः क्षेत्रपालस्य ब्रह्मेशस्य कथा पृथक्
पिङ्गलासङ्गमेशस्य शङ्करार्कघटेशयोः ।ऋषितीर्थस्य नन्दार्कत्रितकूपस्य कीर्त्तनम्
शशोपानस्य पर्णार्कन्यङ्कुमन्त्योः कथाद्भुता ।वाराहस्वामिवृत्तान्तं छायालिङ्गाख्यगुल्फयोः
कथा कनकनन्दायाः कुन्तीगङ्गेशयोस्तथा ।चमसोद्भेदविदुरत्रिलोकेशकथा ततः
मङ्कणेशत्रैपुरेशषण्डतीर्थकथा तथा ।सूर्य्यप्राचीत्रीक्षणयोरुमानाथकथा तथा
भूद्धारशूलस्थलयोश्च्यवनार्केशयोस्तथा ।अजापालेशबालार्ककुवेरस्थलजा कथा
ऋषितोयाकथा पुण्या सङ्गालेश्वरकीर्त्तनम् ।नारदादित्यकथनं नारायणनिरूपणम्
तप्तकुण्डस्य माहात्म्यं मूलचण्डीशवर्णनम् ।चतुर्व्वक्त्रगणाध्यक्षकलम्बेश्वरयोः कथा
गोपालस्वामिवकुलस्वामिनोर्म्मरुतीकथा ।क्षेमार्कोन्नतविघ्नेशजलस्वामिकथा ततः
कालमेघस्य रुक्मिण्या ऊर्व्वशीश्वरभद्रयोः ।शङ्खावर्त्तमोक्षतीर्थगोष्पदाच्युतसद्मनाम्
जालेश्वरस्य हूँकारकूपचण्डीशयोः कथा ।आशापुरस्थविघ्नेशकलाकुण्डकथाद्भुता
कपिलेशस्य कथा जरद्गवशिवस्य ।नलकर्कोटेश्वरयोर्हाटकेश्वरजा कथा
नारदेशमन्त्रभूषा दुर्गकूटगणेशजा ।सुपर्णेलाख्यभैरव्योर्भल्लतीर्थभवा कथा
कीर्त्तनं कर्द्दमालस्य गुप्तसोमेश्वरस्य
बहुस्वर्णेशशृङ्गेशकोटीश्वरकथा ततः
मार्कण्डेश्वरकोटीशदामोदरगृहोत्कथा ।स्वर्णरेखा ब्रह्मकुण्डं कुन्तीभीमेश्वरौ तथा
मृगीकुण्डञ्च सर्व्वस्वं क्षेत्रे वस्त्रापथे स्मृतम् ।दुत्राविल्वेशगङ्गेशरैवतानां कथाद्भुता
ततोऽर्व्वुदे श्वभ्रकथा अचलेश्वरकीर्त्तनम् ।नागतीर्थस्य कथा वशिष्ठाश्रमवर्णनम्
भद्रंकर्णस्य माहात्म्यं त्रिनेत्रस्य ततः परम् ।केदारस्य माहात्म्यं तीर्थागमनकीर्त्तनम्
कोटीश्वररूपतीर्थहृषीकेशकथा ततः ।सिद्धेशशुक्रेश्वरयोर्म्मणिकर्णीशकीर्त्तनम्
पङ्गुतीर्थयमतीर्थवाराहतीर्थवर्णनम् ।चन्द्रप्रभासपिण्डोदश्रीमाताशुक्लतीर्थजम्
कात्यायन्याश्च माहात्म्यं ततः पिण्डारकस्य ।ततः कनखलस्याथ चक्रमानुषतीर्थयोः
कपिलाग्नितीर्थकथा तथा रक्तानुबन्धजा ।गणेशपार्थेश्वरयोर्यात्रायामुद्गलस्य
चण्डीस्थानं नागभवशिरःकुण्डमहेशजा ।कामेश्वरस्य मार्कण्डेयोत्पत्तेश्च कथा ततः
उद्दालकेशसिद्धेशगततीर्थकथा पृथक् ।श्रीदेवमातोत्पत्तिश्च व्यासगौतमतीर्थयोः
कुलसन्तारमाहात्म्यं रामकोट्याह्वतीर्थयोः ।चन्द्रोद्भेदेशानशृङ्गब्रह्मस्थानोद्भवोहनम्
त्रिपुष्कररुद्रह्नदगुहेश्वरकथा शुभा ।अविमुक्तस्य माहात्म्यमुमामाहेश्वरस्य
महौजसः प्रभावश्च जम्बुतीर्थस्य वर्णनम् ।गङ्गाधरमिश्रकयोः कथा चाथ फलस्तुतिः
द्बारकायाश्च माहात्म्ये चन्द्रशर्म्मकथानकम् ।जागराद्याख्यव्रतञ्च व्रतमेकादशीभवम्
महाद्वादशिकाख्यानं प्रह्लादर्षिसमागमः ।दुर्व्वासस उपाख्यानं यात्रोपक्रमकीर्त्तनम्
गोमत्युत्पत्तिकथनं तस्यां स्नानादिजं फलम् ।चक्रतीथस्य माहात्म्यं गोमत्युदधिसङ्गमः
सनकादिह्नदाख्यानं नृगतीर्थकथा ततः ।गोप्रचारकथा पुण्या गोपीनां द्वारकागमः
गोपीसरःसमाख्यानं ब्रह्मतीर्थादिकीर्त्तनम् ।पञ्चनद्यागमाख्यानं नानाख्यानसमाचितम्
शिवलिङ्गमहातीर्थकृष्णपूजादिकीर्त्तनम् ।त्रिविक्रमस्य मूर्त्त्याख्या दुर्व्वासःकृष्णसंकथा
कुशदैत्यवधोऽर्च्चाख्या विशेषार्च्चनजं फलम् ।गोमत्यां द्वारकायाञ्च तीर्थागमनकीर्त्तनम्
कृष्णमन्दिरसंप्रेक्षा द्वारवत्यभिषेचनम् ।तत्र तीर्थावासकथा द्वारकापुण्यकीर्त्तनम्
इत्येष सप्तमः प्रोक्तः खण्डः प्राभासिको द्विज ! ।स्कान्दे सर्व्वोत्तरकथा शिवमाहात्म्यवर्णने
”तत्फलश्रुतिः ।“लिखित्वैतत्तु यो दद्याद्धेमशूलसमाचितम् ।माघ्यां सत्कृत्य विप्राय शैवे मोदते पदे
”इति श्रीनारदीयपुराणे पूर्व्वभागे बृहदुपाख्यानेचतुर्थपादे १०४ अध्यायः
१३
चतुर्द्दशं वामनपुराणम् ।श्रीबह्मोवाच ।“शृणु वत्स ! प्रवक्ष्यामि पुराणं वामनाभिधम् ।त्रिविक्रमचरित्राढ्यं दशसाहस्रसङ्ख्यकम्
कूर्म्मकल्पसमाख्यानं वर्गत्रयकथानकम् ।भागद्वयसमायुक्तं वक्तृश्रोतृशुभावहम्
*
तत्र पूर्व्वभागे ।“पुराणप्रश्नः प्रथमं ब्रह्मशीर्षच्छिदा ततः ।कपालमोचनाख्यानं दक्षयज्ञविहिंसनम्
हरस्य कालरूपाख्या कामस्य दहनं ततः ।प्रह्लादनारायणयोर्युद्धं देवासुराह्वयम्
सुकेश्यर्कसमाख्यानं ततो भुवनकोषकम् ।ततः काम्यव्रताख्यानं श्रीदुर्गाचरितं ततः
तपतीचरितं पश्चात् कुरुक्षेत्रस्य वर्णनम् ।सरोमाहात्म्यमतुलं पार्व्वतीजन्मकीर्त्तनम्
तपस्तस्या विवाहश्च गौर्य्युपाख्यानकं ततः ।ततः कौशिक्युपाख्यानं कुमारचरितं ततः
ततोऽन्धकवधाख्यानं साध्योपाख्यानकं ततः ।जावालिचरितं पश्चादरजायाः कथाद्भुता
अन्धकेश्वरयोर्युद्धं गणत्वं चान्धकस्य ।मरुतां जन्मकथनं वलेश्च चरितं ततः
ततस्तु लक्ष्म्याश्चरितं त्रैविक्रममतः परम् ।प्रह्लादतीर्थयात्रायां प्रोच्यन्ते तत्कथाः शुभाः
ततश्च धुन्धुचरितं प्रेतोपाख्यानकं ततः ।नक्षत्रपुरुषाख्यानं श्रीदामचरितं ततः
त्रिविक्रमचरित्रान्ते ब्रह्मप्रोक्तः स्तवोत्तमः ।प्रह्लादवलिसंवादे सुतले हरिशंसनम्
इत्येष पूर्व्वभागोऽस्य पुराणस्य तवोदितः
”तदुत्तरे भागे बृहद्वामनाख्ये ।“शृणु तस्योत्तरं भागं बृहद्वामनसंज्ञकम्
माहेश्वरी भागवती सौरी गाणेश्वरी तथा ।चतस्रः संहिताश्चात्र पृथक् साहस्रसङ्ख्यया
माहेश्वर्य्यान्तु कृष्णस्य तद्भक्तानाञ्च कीर्त्तनम् ।भागवत्यां जगन्मातुरवतारकथाद्भुता
सौर्य्यां सूर्य्यस्य महिमा गदितः पापनाशनः ।गाणेश्वर्य्यां गणेशस्य चरितञ्च महेशितुः
इत्येतद्वामनं नाम पुराणं सुविचित्रकम् ।पुलस्त्येन समाख्यातं नारदाय महात्मने
ततो नारदतः प्राप्तं व्यासेन सुमहात्मना ।व्यासात्तु लब्धवान् वत्स ! तच्छिष्यो रोमहर्षणः
चाख्यास्यति विप्रेभ्यो नैमिषीयेभ्य एव ।एवं परम्पराप्राप्तं पुराणं वामनं शुभम्
*
तत्फलश्रुतिः ।“ये पठन्ति शृण्वन्ति तेऽपि यान्ति परां गतिम् ।लिखित्वैतत् पुराणन्तु यः शरद्विषुवेऽर्पयेत्
विप्राय वेदविदुषे घृतधेनुसमाचितम् ।स समुद्धृत्य नरकान्नयेत् स्वर्गं पितॄन् स्वकान् ।देहान्ते भुक्तभोगोऽसौ याति विष्णोः परंपदम्
”इति श्रीनारदीयपुराणे पूर्व्वभागे बृहदुपाख्यानेचतुर्थपादे १०५ अध्यायः
१४
पञ्चदशं कूर्म्मपुराणम् ।श्रीब्रह्मोवाच ।“शृणु वत्स ! मरीचेऽद्य पुराणं कूर्म्मसंज्ञितम् ।लक्ष्मीकल्पानुचरितं यत्र कूर्म्मवपुर्हरिः
धर्म्मार्थकाममोक्षाणां माहात्म्यञ्च पृथक् पृथक् ।इन्द्रद्युम्नप्रसङ्गेन प्राहर्षिभ्यो दयान्तिकम्
तत्सप्तदशसाहस्रं सुचतुःसंहितं शुभम् ।यत्र ब्राह्म्यां पुरा प्रोक्ता धर्म्मा नानाविधा मुने !
नानाकथाप्रसङ्गेन नृणां सद्गतिदायकाः
*
तत्पूर्व्वभागे ।“तत्र पूर्व्वविभागे तु पुराणोपक्रमः पुरा ।लक्ष्मीप्रद्युम्नसंवादः कूर्म्मर्षिगणसङ्कथा
वर्णाश्रमाचारकथा जगदुत्पत्तिकीर्त्तनम् ।कालसङ्ख्या समासेन लयान्ते स्तवनं विभोः
ततः सङ्क्षेपतः सर्गः शाङ्करं चरितं तथा ।सहस्रनाम पार्व्वत्या योगस्य निरूपणम्
भृगुवंशसमाख्यानं ततः स्वायम्भुवस्य ।देवादीनां समुत्पत्तिर्दक्षयज्ञाहतिस्ततः
दक्षसृष्टिकथा पश्चात् कश्यपान्वयकीर्त्तनम् ।आत्रेयवंशकथनं कृष्णस्य चरितं शुभम्
मार्कण्डकृष्णसंवादो व्यासपाण्डवसंकथा ।युगधर्म्मानुकथनं व्यासजैमिनिकी कथा
वाराणस्याश्च माहात्म्यं प्रयागस्य ततः परम् ।त्रैलोक्यवर्णनञ्चैव वेदशाखानिरूपणम्
*
तदुत्तरभागे ।“उत्तरेऽस्य विभागे तु पुरा गीतैश्वरी ततः ।व्यासगीता ततः प्रोक्ता नानाधर्म्मप्रबोधनी
नानाविधानां तीर्थानां माहात्म्यञ्च पृथक्ततः ।नानाधर्म्मप्रकथनं ब्राह्मीयं संहिता स्मृता
अतः परं भगवती संहितार्थनिरूपणे ।कथिता यत्र वर्णानां पृथग्वृत्तिरुदाहृता
”तदुत्तरभागीयभगवत्याख्यद्वितीयसंहितायाःपञ्चपादेषु ।“पादेऽस्याः प्रथमे प्रोक्ता ब्राह्मणानां व्यव-स्थितिः ।सदाचारात्मिका वत्स ! भोगसौख्यविवर्द्धनी
द्वितीये क्षत्त्रियाणान्तु वृत्तिः सम्यक् प्रकी-र्त्तिता ।यया त्वाश्रितया पापं विधूयेह व्रजेद्दिवम्
तृतीये वैश्यजातीनां वृत्तिरुक्ता चतुर्व्विधा ।यया चरितया सम्यक् लभते गतिमुत्तमाम्
चतुर्थेऽस्यास्तथा पादे शूद्रवृत्तिरुदाहृता ।यया सन्तुष्यति श्रीशो नृणां श्रेयोविवर्द्धनः
पञ्चमेऽस्यास्ततः पादे वृत्तिः सङ्करजोदिता ।यया चरितयाप्नोति भाविनीमुत्तमां जनिम्
इत्येषा पञ्चपद्युक्ता द्बितीया संहिता मुने ! ।तृतीयात्रोदिता सौरी नृणां कामविधायिनी
षोढा षट्कर्म्मसिद्धिं सा बोधयन्ती कामि-नाम् ।चतुर्थी वैष्णवी नाम मोक्षदा परिकीर्त्तिता
चतुष्पदी द्विजादीनां साक्षाद्ब्रह्मस्वरूपिणी ।ताः क्रमात् षट्चतुर्द्द्वीषुसाहस्राः परि-कीर्त्तिताः
”तत्फलश्रुतिः ।“एतत्कूर्म्मपुराणन्तु चतुर्व्वर्गफलप्रदम् ।पठतां शृण्वतां नॄणां सर्व्वोत्कृष्टगतिप्रदम्
लिखित्वैतत्तु यो भक्त्या हेमकूर्म्मसमन्वितम् ।ब्राह्मणायायने दद्यात् याति परमां गतिम्
”इति श्रीनारदीयपुराणे पूर्व्वभागे बृहदुपाख्यानेचतुर्थपादे १०६ अध्यायः
१५
षोडशं मत्स्यपुराणम् ।श्रीब्रह्मोवाच ।“अथ मात्स्यं पुराणं ते प्रवक्ष्ये द्बिजसत्तम ! ।यत्रोक्तं सत्यकल्पानां वृत्तं सङ्क्षिप्य भूतले
व्यासेन वेदविदुषा नरसिंहोपवर्णनम् ।उपक्रम्य तदुद्दिष्ठं चतुर्द्दशसहस्रकम्
मनुमत्स्यसुसंवादो ब्रह्माण्डवर्णनन्ततः ।ब्रह्मदेवासुरोत्पत्तिर्म्मारुतोत्पत्तिरेव
मदनद्वादशी तद्वत् लोकपालाभिपूजनम् ।मन्वन्तरसमुद्देशो वैश्याराज्याभिवर्णनम्
सूर्य्यवैवस्वतोत्पत्तिर्व्वधसङ्गमनं तथा ।पितृवंशानुकथनं श्राद्धकालस्तथैव
पितृतीर्थप्रचारश्च सोमोत्पत्तिस्तथैव ।कीर्त्तनं सोमवंशस्य ययातिचरितं तथा
कार्त्तवीर्य्यस्य चरितं सृष्टं वंशानुकीर्त्तनम् ।मृगुशापस्तथा विष्णोर्दशधा जन्म क्षितौ
कीर्त्तनं पुरुवंशस्य वंशो हौताशनः परः ।क्रियायोगस्ततः पश्चात् पुराणं परिकीर्त्तितम्व्रतं नक्षत्रपुरुषं मार्त्तण्डशयनं तथा ।कृष्णाष्टमीव्रतं तद्वद्रोहिणीचन्द्रसंज्ञितम्
तडागविधिमाहात्म्यं पादपोत्सर्ग एव ।सौभाम्यशयनं तद्वदगस्त्यव्रतमेव
तथानन्ततृतीयाया रसकल्याणिनीव्रतम् ।तथैवानन्दकर्य्याश्च व्रतं सारस्वतं पुनः
उपरागाभिषेकश्च सप्तमीशयनं तथा ।भीमाख्या द्वादशी तद्वदनङ्गशयनं तथा
अशून्यशयनं तद्वत् तथैवाङ्गारकव्रतम् ।सप्तमीसप्तकं तद्वद्बिशोकद्वादशीव्रतम्
मेरुप्रदानं दशधा ग्रहशान्तिस्तथैव ।ग्रहस्वरूपकथनं तथा शिवचतुर्द्दशी
तथा सर्व्वफलत्यागः सूर्य्यवारव्रतं तथा ।संक्रान्तिस्नपनं तद्वद्विभूतिद्वादशीव्रतम्
षष्टिव्रतानां माहात्म्यं तथा स्नानविधिक्रमः ।प्रयागस्य तु माहात्म्यं द्वीपलोकानुवर्णनम्
तथान्तरीक्षचारश्च ध्रुवमाहात्म्यमेव ।भवनानि सुरेन्द्राणां त्रिपुरोद्योतनं तथा
पितृप्रवरमाहात्म्यं मन्वन्तरविनिर्णयः ।चतुर्युगस्य सम्मूतिर्युगधर्म्मनिरूपणम्
वज्राङ्गस्य तु सम्भूतिस्तारकोत्पत्तिरेव ।तारकासुरमाहात्म्यं ब्रह्मदेवानुकीर्त्तनम्
पार्व्वतीसम्भवस्तद्वत्तथा शिवतपोवनम् ।अनङ्गदेहदाहश्च रतिशोकस्तथैव
गौरीतपोवनं तद्बच्छिवेनाथ प्रसादनम् ।पार्व्वतीऋषिसंवादस्तथैवोद्वाहमङ्गलम्
कुमारसम्भवस्तद्बत् कुमारविजयस्तथा ।तारकस्य वधो घोरो नरसिं होपवर्णनम्
पद्मोद्भवविसर्गस्तु तथैवान्धकघातनम् ।वाराणस्यास्तु माहात्म्यं नर्म्मदायास्तथैव चप्रवरानुक्रमस्तद्वत् पितृगाथानुकीर्त्तनम् ।तथोभयमुखीदानं दानं कृष्णाजिनस्य
ततः सावित्र्युपाख्यानं राजधर्म्मास्तथैव ।विविधोत्पातकथनं ग्रहशान्तिस्तथै
यात्रानिमित्तकथनं स्वप्नमङ्गलकीर्त्तनम्
वामनस्य तु माहात्म्यं वाराहस्य ततः परम्
समुद्रमथनं तद्वत् कालकूटाभिशान्तनम् ।देवासुरविमर्दश्च वास्तुविद्या तथैव
प्रतिमालक्षणं तद्वद्देवतास्थापनं तथा ।प्रासादलक्षणं तद्वन्मण्डपानाञ्च लक्षणम्
भविष्यराज्ञामुद्देशो महादानानुकीर्त्तनम् ।कल्पानुकीर्त्तनं तद्बत् पुराणेऽस्मिन् प्रकीर्त्तितम्
”तत्फलश्रुतिः ।“पवित्रमेतत् कल्याणमायुःकीर्त्तिविवर्द्धनम् ।यः पठेच्छृणुयाद्वापि याति भवनं हरेः
लिखित्वैतत्तु यो दद्याद्धेममत्स्यगवाचितम् ।विप्रायाभ्यर्च्च्य विषुवे याति परमं पदम्
”इति श्रीनारदीयपुराणे पूर्व्वभागे बृहदुपाख्यानेचतुर्थपादे १०७ अध्यायः
१६
सप्तदशं गुरुडपुराणम् ।श्रीब्रह्मोवाच ।“मरीचे शृणु वच्म्यद्य पुराणं गारुडं शुभम् ।गरुडायाब्रवीत् पृष्टो भगवान् गरुडासनः
एकोनविंशसाहस्रं तार्क्ष्य कल्पकथाचितम्
”तत्र पूर्व्वखण्डे ।“पुराणोपक्रमो यत्र सर्गसङ्क्षेपतस्ततः ।सूर्य्यादिपूजनविधिर्दीक्षाविधिरतः परम्
श्र्यादिपूजा ततः पश्चान्नवव्यूहार्च्चनं द्बिज ! ।पूजाविधानञ्च तथा वैष्णवं पञ्जरं ततः
योगाध्यायस्ततो विष्णोर्नामसाहस्रकीर्त्तनम् ।ध्यानं विष्णोस्ततः सूर्य्यपूजा मृत्युञ्जयार्च्चनम्
मालामन्त्राः शिवार्च्चाथ गणपूजा ततः परम् ।गोपालपूजा त्रैलोक्यमोहनश्रीधरार्च्चनम्
विष्ण्वर्च्चा पञ्चतत्त्वार्च्चा चक्रार्च्चा देवपूजनम् ।न्यासादिसन्ध्योपास्तिश्च दुगार्च्चाथ सुरार्च्चनम्
पूजा माहेश्वरी चातः पवित्रारोहणार्च्चनम् ।मूर्त्तिध्यानं वास्तुमानं प्रासादानाञ्च लक्षणम्
प्रतिष्ठा सर्व्वदेवानां पृथक्पूजाविधानतः ।योगोऽष्टाङ्गो दानधर्म्मः प्रायश्चित्तं निधिक्रिया
द्वीपेशनरकाख्यानं सूर्य्यव्यूहश्च ज्योतिषम् ।सामुद्रिकं स्वरज्ञानं नवरत्नपरीक्षणम्
माहात्म्यमथ तीर्थानां गयामाहात्म्यमुत्तमम् ।ततो मन्वन्तराख्यानं पृथक् पृथक्विभागशः
पित्राख्यानं वर्णधर्म्मा द्रव्यशुद्धिः समर्पणम् ।श्राद्धं विनायकस्यार्च्चा ग्रहयज्ञस्तथाश्रमाः
मननाख्या प्रेताशौचं नीतिसारो व्रतोक्तयः ।सूर्य्यवंशः सोमवंशोऽवतारकथनं हरेः
रामायणं हरिवंशो भारताख्यानकन्ततः ।आयुर्व्वेदे निदानं प्राक् चिकित्साद्रव्यजा गुणाः
रोगघ्नं कवचं विष्णोर्गारुडं त्रैपुरो मनुः ।प्रश्नचूडामणिश्चान्ते हयायुर्व्वेदकीर्त्तनम्
औषधीनामकथनं ततो व्याकरणोहनम् ।छन्दःशास्त्रं सदाचारस्ततः स्नानविधिः स्मृतः
तर्पणं वैश्यदेवञ्च सन्ध्या पार्व्वणकर्म्म ।नित्यश्राद्धं सपिण्डाख्यं धर्म्मसारोऽघनिष्कृतिः
प्रतिसंक्रम उक्तोऽस्माद्युगधर्म्माः कृतेः फलम् ।योगशास्त्रं विष्णुभक्तिर्नमस्कृतिफलं हरेः
माहात्म्यं वैष्णवञ्चाथ नारसिंहस्तवोत्तमम् ।ज्ञानामृतं गुह्याष्टकं स्तोत्रं विष्ण्वर्च्चनाह्वयम्
वेदान्तसाङ्ख्यसिद्धान्तं ब्रह्मज्ञानं तथात्मकम् ।गीतासारफलोत्कीर्त्तिः पूर्व्वखण्डोऽयमीरितः
”उत्तरखण्डे प्रेतकल्पे ।“अथास्यैवोत्तरे खण्डे प्रेतकल्पः पुरोदितः ।यत्र तार्क्षेण संपृष्टो भगवानाह वाडव !
धर्म्मप्रकटनं पूर्व्वयोनीनां गतिकारणम् ।दानाधिकं फलञ्चापि प्रोक्तमत्रौर्द्ध्वदेहिकम्
यमलोकस्य मार्गस्य वर्णनञ्च ततः परम् ।षोडशश्राद्धफलकं वृत्तानाञ्चात्र वर्णितम्
निष्कृतिर्यममार्गस्य धर्म्मराजस्य वैभवम् ।प्रेतपीडाविनिर्द्देशः प्रेतचिह्ननिरूपणम्
प्रेतानां चरिताख्यानं कारणं प्रेततां प्रति ।प्रेतकृत्यविचारश्च सपिण्डीकरणोक्तयः
प्रेतत्वमोक्षणाख्यानं दानानि विमुक्तये ।आवश्यकोत्तमं दानं प्रेतसौख्यकरं हितम्
शारीरकविनिर्द्देशो यमलोकस्य वर्णनम् ।प्रेतत्वोद्धारकथनं कर्म्मकर्त्तृविनिर्णयः
मृत्योः पूर्व्वक्रियाख्यानं पश्चात् कर्म्मनिरूपणम् ।मध्यं षोडशकं श्राद्धं स्वर्गप्राप्तिक्रियोहनम्
सूतकस्याथ सङ्ख्यानं नारायणवलिक्रिया ।वृषोत्सर्गस्य माहात्म्यं निषिद्धपरिवर्ज्जनम्
अपमृत्युक्रियोक्तिश्च विपाकः कर्म्मणां नृणाम् ।कृत्याकृत्यविचारश्च विष्णुध्यानं विमुक्तये
स्वर्गतौ विहिताख्यानं स्वर्गसौख्यनिरूपणम् ।भूर्लोकवर्णनञ्चैव सप्तधा लोकवर्णनम्
पञ्चोर्द्ध्वलोककथनं ब्रह्माण्डस्थितिकीर्त्तनम् ।ब्रह्माण्डानेकचरितं ब्रह्मजीवनिरूपणम्
आत्यन्तिकलयाख्यानं फलस्तुतिनिरूपणम् ।इत्येतद्गारुडं नाम पुराणं भुक्तिमुक्तिदम्
”तत्फलश्रुतिः ।“कीर्त्तितं पापशमनं पठतां शृण्वतां नृणाम् ।लिखित्वैतत् पुराणन्तु विषुवे यः प्रयच्छति
सौवर्णं हंसयुग्माढ्यं विप्राय दिवं व्रजेत्
*
इति श्रीनारदीयपुराणे पूब्बभागे बृहदुपाख्यानेचतुर्थपादे १०८ अध्यायः
१७
अष्टादशं ब्रह्माण्डपुराणम् ।श्रीब्रह्मोवाच ।“शृणु वत्स ! प्रवक्ष्यामि ब्रह्माण्डाख्यं पुरातनम् ।यच्च द्वादशसाहस्रं भाविकल्पकथायुतम्
प्रकृयाख्योऽनुषङ्गाख्य उपोद्घातस्तृतीयकः ।चतुर्थ उपसंहारः पादाश्चत्वार एव हि
पूर्व्वपादद्वयं पूर्व्वो भागोऽत्र समुदाहृतः ।तृतीयो मध्यमो भागश्चतुर्थस्तूत्तरो मतः
*
तत्र पूर्व्वभागे प्रक्रियापादे ।“आदौ कृत्यसमुद्देशो नैमिषाख्यानकं ततः ।हिरण्यगर्भोत्पत्तिश्च लोककल्पनमेव
एष वै प्रथमः पादो द्वितीयं शृणु मानद !
”पूर्व्वभागे अनुषङ्गपादे ।“कल्पमन्वन्तराख्यानं लोकज्ञानं ततः परम् ।मानसीसृष्टिकथनं रुद्रप्रसववर्णनम्
महादेवविभूतिश्च ऋषिसर्गस्ततः परम् ।अग्नीनां विचयश्चाथ कालसद्भाववर्णनम्
प्रियव्रताचयोद्देशः पृथिव्यायामविस्तरः ।वर्णनं भारतस्यास्य ततोऽन्येषां निरूपणम्
जम्ब्वादिसप्तद्वीपाख्या ततोऽधोलोकवर्णनम् ।ऊर्द्ध्वलोकानुकथनं ग्रहचारस्ततः परम्
आदित्यव्यूहकथनं देवग्रहानुकीर्त्तनम् ।नीलकण्ठाह्वयाख्यानं महादेवस्य वैभवम्
अमावास्यानुकथनं युगतत्त्वनिरूपणम् ।यज्ञप्रवर्त्तनं चाथ युगयोरन्त्ययोः कृतिः
युगप्रजालक्षणञ्च ऋषिप्रवरवर्णनम् ।वेदानां व्यसनाख्यानं स्वायम्भुवनिरूपणम्
शेषमन्वन्तराख्यानं पृथिवीदोहनन्ततः ।चाक्षुषेऽद्यतने सर्गो द्वितीयोऽङ्घ्रिः पुरोदले
”मध्यमभागे उपोद्घातपादे ।“अथोपोद्घातपादे तु सप्तर्षिपरिकीर्त्तनम् ।प्राजापत्यचयस्तस्माद्देवादीनां समुद्भवः
ततो जयाभिव्याहारौ मरुदुत्पत्तिकीर्त्तनम् ।काश्यपेयानुकथनमृषिवंशनिरूपणम्
पितृकल्पानुकथनं श्राद्धकल्पस्ततः परम् ।वैवस्वतसमुत्पत्तिः सृष्टिस्तस्य ततः परम्
मनुपुत्त्राचयश्चातो गान्धर्व्वस्य निरूपणम् ।इक्ष्वाकुवंशकथनं वंशोऽत्रेः समहात्मनः
अमावसोराचयश्च रजेश्चरितमद्भुतम् ।ययातिचरितञ्चाथ यदुवंशनिरूपणम्
कार्त्तवीर्य्यस्य चरितं जामदग्न्यं ततः परम् ।वृष्णिवंशानुकथनं सगरस्याथ सम्भवः
भार्गवस्यानुचरितं तथा कार्य्यवधाश्रयम् ।समरस्याथ चरितं भार्गवस्य कथा पुनः
देवासुराहवकथा कृष्णाविर्भाववर्णने ।इनस्य स्तवः पुण्यः शुक्रेण परिकीर्त्तितः
विष्णुमाहात्म्यकथनं वलिवंशनिरूपणम् ।भविष्यराजचरितं संप्राप्तेऽथ कलौ युगे
एवमुद्घातपादोऽयं तृतीयो मध्यमे दले
”उत्तरभागे उपसंहारपादे ।“चतुर्थमुपसंहारं वक्ष्ये खण्डे तथोत्तरे ।वैवस्वतान्तराख्यानं विस्तरेण यथातथम्
पूर्व्वमेव समुद्दिष्टं सङ्क्षेपादिह कथ्यते ।भविष्याणां मनूनाञ्च चरितं हि ततः परम्
कल्पप्रलयनिर्द्देशः कालमानं ततः परम् ।लोकाश्चतुर्द्दश ततः कथिता मानलक्षणैः
वर्णनं नरकाणाञ्च विकर्म्माचरणैस्ततः ।मनोमयपुराख्यानं लयः प्राकृतिकस्ततः
शैवस्याथ पुरस्यापि वर्णनञ्च ततः परम् ।त्रिविधाद्गुणसम्बन्धाज्जन्तूनां कीर्त्तिता गतिः ।अनिर्द्देश्याप्रतर्क्यस्य ब्रह्मणः परमात्मनः ।अन्वयव्यतिरेकाभ्यां वर्णनं हि ततः परम्
इत्येष उपसंहारः पादो वृत्तः चोत्तरः ।चतुष्पादं पुराणं ते ब्रह्माण्डं समुदाहृतम्
अष्टादशमनौपम्यं सारात्सारतरं द्विज ! ।ब्रह्माण्डञ्च चतुर्लक्षं पुराणत्वेन पठ्यते
तदेव व्यस्य गदितमत्राष्टादशधा पृथक् ।पाराशर्य्येण मुनिना सर्व्वेषामपि मानद !
वस्तुद्रष्ट्राथ तेनैव मुनीनां भावितात्मनाम् ।मत्तः श्रुत्वा पुराणानि लोकेभ्यः प्रचकाशिरे
मुनयो धर्म्मशीलास्ते दीनानुग्रहकारिणः ।मया चेदं पुराणन्तु वशिष्ठाय पुरोदितम्
तेन शक्त्रिसुतायोक्तं जातूकर्णाय तेन ।व्यासो लब्ध्वा ततश्चैतत् प्रभञ्जनमुखोद्गतम्
प्रमाणीकृत्य लोकेऽस्मिन् प्रावर्त्तयदनुत्तमम्
”तत्फलश्रुतिः ।“य इदं कीर्त्तयेद्वत्स ! शृणोति समाहितः ।स विधूयेह पापानि याति लोकमनामयम्
लिखित्वैतत् पुराणन्तु स्वर्णसिंहासनस्थितम् ।पत्रेणाच्छादितं यस्तु ब्राह्मणाय प्रयच्छति
याति ब्रह्मणो लोकं नात्र कार्य्या विचारणा
मरीचेऽष्टादशैतानि मया प्रोक्तानि यानि ते ।पुराणानि तु सङ्क्षेपाच्छ्रोतव्यानि विस्तरात्
अष्टादशपुराणानि यः शृणोति नरोत्तमः ।कथयेद्वा विधानेन नेह भूयः जायते
सूत्रमेतत् पुराणानां यन्मयोक्तं तवाधुना ।तन्नित्यं शीलनीयं हि पुराणफलमिच्छता
दाम्भिकाय पापाय देवगुर्व्वनुसूयवे ।देयं कदापि साधूनां द्वेषिणे शठाय
शान्ताय रामचित्ताय शुश्रूषाभिरताय ।निर्म्मत्सराय शुचये देयं सद्वैष्णवाय
”इति श्रीनारदीयपुराणे पूर्व्वभागे बृहदुपाख्यानेचतुर्थपादे १०९ अध्यायः
१८
*
इत्यष्टादशमहापुराणानुक्रमणिका समाप्ता
*
(अष्टादशमहापुराणानां निरुक्तिर्यथा शिव-पुराणे उत्तरखण्डे मध्यमेश्वरमाहात्म्ये ।“यत्र वक्ता स्वयं तण्डे ! ब्रह्मा साक्षात् चतु-र्म्मुखः ।तस्माद्ब्राह्मं समाख्यातं पुराणं प्रथमंमुने !
तण्डे इति मुनिसम्बोधनम् ।“पद्मकल्पस्य माहात्म्यं तत्र यस्मादुदाहृतम् ।तस्मात् पाद्मं समाख्यातं पुराणञ्च द्विती-यकम्
पराशरकृतं यत्तु पुराणं विष्णुबोधकम् ।तदेव व्यासकथितं पुत्त्रपित्त्रोरभेदतः
यत्र पूर्व्वोत्तरे खण्डे शिवस्य चरितं बहु ।शैवमेतत् पुराणं हि पुराणज्ञा वदन्ति
भगवत्याश्च दुर्गायाश्चरितं यत्र विद्यते ।तत्तु भागवतं प्रोक्तं नतु देवीपुराणकम्
नारदोक्तं पुराणन्तु नारदीयं प्रचक्षते
यत्र वक्ताभवत्तण्डे ! मार्कण्डेयो महामुनिः ।मार्कण्डेयपुराणं हि तदाख्यातञ्च सप्तमम्
अग्नियोगात्तदाग्नेयं भविष्योक्तेर्भविष्यकम् ।विवर्त्तनात् ब्रह्मणस्तु ब्रह्मवैवर्त्तमुच्यते
१०
लिङ्गस्य चरितोक्तत्वात् पुराणं लिङ्गमुच्यते ११ ।वराहस्य वाराहं पुराणं द्वादशं मुने !
१२
यत्र स्कन्दः स्वयं श्रोता वक्ता साक्षात् महेश्वरः ।तत्तु स्कान्दं समाख्यातम् १३ वामनस्य तुवामनम्
१४
कौर्म्मं कूर्म्मस्य चरितम् १५ मात्स्यं मत्स्यस्यकीर्त्तितम् १६ ।गरुडस्तु स्वयं वक्ता यत्तद् गारुडसंज्ञ-कम्
१७
ब्रह्माण्डचरितोक्तत्वात् ब्रह्माण्डं परिकी-र्त्तितम्
१८
पुराभवः वेदः सृष्ट्यादिप्रतिपादको ग्रन्थः ।यथा, शतपथब्राह्मणे १४ १० ।“ऋग्वेदो यजुर्व्वेदः सामवेदोऽथर्व्वाङ्गिरसइतिहासः पुराणं विद्या उपनिषदः श्लोकाःसूत्राण्यनुव्याख्यानानि व्याख्यानानि
”तथा बृहदारण्यकोपनिषदि ।“अस्य महतो भूतस्य निश्वसितमेतद् यदृग्वेदोयजुर्व्वेदः सामवेदोऽथर्व्वाङ्गिरस इतिहासःपुराणम्
”“इदं वा अग्रेणव किञ्चिदासीदित्यादिकं जगतःप्रागवस्थामुपक्रम्य सर्गप्रतिपादकं वाक्यजातंपुराणम् ।” इति ऋग्वेदोपोद्घाते
*
)