| YouTube Channel

पुरञ्जयः (puraJjayaH)

 
शब्दकल्पद्रुमः
Sanskrit
पुरञ्जयः,
पुं,
(पुरं शत्रुपुरं जयतीति जि + खच् ।)सूर्य्यवंशीयराजविशेषः तत्पर्य्यायः काकुस्थः२ इति त्रिकाण्डशेषः
(यथा, भागवते ।९ १२ ।“पितर्य्युपरतेऽभ्येत्य विकुक्षिः पृथिवीमिमाम् ।शासदीजे हरिं यज्ञैः शशाद इति विश्रुतः
पुरञ्जयस्तस्य सुत इन्द्रवाह इतीरितः ।ककुस्थ इति चाप्युक्तः शृणु नामानिकर्म्मभिः
”पूरुवंशीयः सृञ्जयपुत्त्रः यथा, हरिवंशे ।३१ १८ ।“सृञ्जयस्याभवत् पुत्त्रो वीरो राजा पुरञ्जयः ।जनमेजयो महाराज ! पुरञ्जयसुतोऽभवत्
”पुरं जयतीति पुर + जि + खच् ।) पुरजय-कर्त्तरि, त्रि
(यथा, महाभारते ।१०२ ४५ ।“स्वान्येव तेऽपि राष्ट्राणि जग्मुः परपुरञ्जय !
”)