| YouTube Channel

पुपुक्षकः-क्षिका (pupukSakaH-kSikA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“पुष पुष्टौ”@} 2 3 ‘सूर्यापाये खलु कमलं पुष्यति स्वामभिख्याम्।’ इति 4, ‘पुपोष लावण्यमयान् विशेषान् ज्योत्स्नान्तराणीव कलान्तराणि।।’ इति 5 महाकविप्रयोगात् सकर्मकत्वम्।
‘वराह इव पुष्यति--’ इत्यादिप्रयोगदर्शनादकर्मकत्वमप्यस्य धातोः संगच्छत इति ज्ञेयम्।]] ‘धारणे पोषयेत् पुष्टौ पुष्येत् पुष्णाति पोषति।’ 6 इति देवः।
पोषकः-षिका, पोषकः-षिका, पुपुक्षकः-क्षिका, पोपुषकः-षिका
इत्यादीनि सर्वाण्यपि रूपाणि दैवादिकतुष्यतिवत् 7 ज्ञेयानि।
8 9 पुष्यः, 10 11 स्वपोषं 12 रैपोषम्, गोपोषम् धान्यपोषम् वा पुष्यति।
13 गोपोषी।
प्रासङ्गिक्यः
01
=>
(१०२७)
02
=>
(४-दिवादिः-११८२। सक। अनि। पर।)
03
=>
[[[अ]
04
=>
(मेघसन्देशे ईई-१३)
05
=>
(कुमारसम्भवे १-२५)
06
=>
(श्लो। १७१)
07
=>
(७५८)
08
=>
[पृष्ठम्०८७४+ २९]
09
=>
[[१। ‘पुष्यसिध्यौ नक्षत्रे’ (३-१-११६) इति नक्षत्रेऽभिधेये क्यप्। अन्यत्र पोष्यम् इति ण्यदेव। पुष्यन्त्यर्था अस्मिन् इति पुष्यः = नक्षत्रविशेषः।]]
10
=>
[[आ। ‘महारथः पुष्यरथं रथाङ्गी क्षिप्रं क्षपानाथ इवाधिरूढः।।’ शि। व। ३। २२।]]
11
=>
[[२। ‘स्वे पुषः’ (३-४-४०) इति णमुल्। ‘स्वे’ इति पर्यायाणामपि ग्रहणात् रैपोषम् इत्यादीनां साधुत्वम्। ‘कषादिषु यथाविध्यनुप्रयोगः’ (३-४-४६) इति णमुलन्तस्यैव धातोरनुप्रयोगः।]]
12
=>
[[B। ‘प्रस्थापयत् पूगकृतान् स्वपोपं पुष्टान् प्रयत्नाद् दृढगात्रबन्धान्।’ भ। का। ३। ४।]]
13
=>
[[३। ‘सुप्यजातौ--’ (३-२-७८) इति ताच्छील्ये णिनिः।]]