| YouTube Channel

पुन्नामनरकः (punnAmanarakaH)

 
शब्दकल्पद्रुमः
Sanskrit
पुन्नामनरकः,
पुं,
(पुदिति नाम यस्य पुन्नामा ।पुन्नामा चासौ नरकश्चेति कर्म्मधारयः ।) पुत्इतिनामकनरकविशेषः तत्र षोडशविधपापैःपतति यथा, --ब्रह्मोवाच ।“परदाराभिगमनं पापानाञ्चोपसेवनम् ।पारुष्यं सर्व्वभूतानां प्रथमं नरकं स्मृतम्
फलस्तेयं महापापं फलार्हस्य पाटनम् ।पाटनं वृक्षजातीनां द्वितीयं परिकीर्त्तितम्
वर्ज्यादानं तथा द्विष्टमवध्यवधबन्धनम् ।विवादित्वमहेतूत्थं तृतीयं नरकं स्मृतम्
भयदं सर्व्वसत्त्वानां नरभूतिविनाशनम् ।भ्रंशनं निजधर्म्माणां चतुर्थं नरकं स्मृतम्
मारणं मित्रकौटिल्यं मिथ्याभिशपनञ्च यत् ।मिष्टैकाशनमित्युक्तं पञ्चमञ्च विपाचनम्
प्ररोहणं यन्त्रकरं यमनं योगनाशनम् ।यानमुख्यस्य हरणं षष्ठमुक्तं नृपाचनम्
राजभागस्य हरणं राजजायानिषेवणम् ।राज्ये त्वहितकारित्वं सप्तमं नरकं स्मृतम्
स्तब्धत्वं लोलुपत्वञ्च लब्धधर्म्मार्थनाशनम् ।नानाकर्म्मकरं प्रोक्तमष्टमं नरकं स्मृतम्
ब्रह्मस्वहरणञ्चैव ब्राह्मणानां विनिन्दनम् ।विरोधो ब्राह्मणैश्चोक्तो नवमो नरकस्त्वयम्
शिष्टाचारविनाशञ्च मित्रद्वेषं शिशोर्व्वधम् ।शास्त्रस्तेयं धर्म्मशून्यो दशमं परिकीर्त्तितम्
षडङ्गनिधनं घोरं षाड्गुण्यप्रतिषेधनम् ।एकादशममेवोक्तं नरकं सद्भिरुत्तम !
सद्भिरुक्तं सदा चैवमनाचारमसत्क्रिया ।संस्कारपरिहीणत्वमिदं द्वादशमं स्मृतम्
हानिर्धर्म्मार्थकामानामपवर्गस्य हारणम् ।स्वर्णहर्त्तुश्च मतिदं त्रयोदशममुच्यते
समलं धर्म्महीनञ्च यद्बर्ज्यं यच्च दोषजम् ।चतुर्द्दशकमेवोक्तं नरकं सद्विगर्हितम्
अज्ञानञ्चाप्यनिष्ठत्वमशौचमशुभावहम् ।गर्ह्यं तत् पञ्चदशकमसत्यवचनानि
आलस्यं वै षोडशकमाक्रोशञ्च विशेषतः ।सर्व्वस्य चाततायित्वमगारेष्वग्निदापनम्
इच्छा परदारेषु नरकाय निगद्यते ।ईर्ष्याभावश्च सभ्येषु औद्धत्यन्तु विगर्हितम्
एतैस्तु पापैः पुरुषः पुन्नामनरके पतेत् ।पुन्नामनरकं घोरं विनाशं प्राह सर्व्वतः
एतस्मात् कारणात् साध्यस्ततः पुत्त्रो निगद्यते
”इति वामने ५८ अध्यायः