| YouTube Channel

पुनर्व्वसुः (punarvvasuH)

 
शब्दकल्पद्रुमः
Sanskrit
पुनर्व्वसुः,
पुं,
(पुनः पुनः शरीरेषु वसति क्षेत्रज्ञ-रूपेणेति पुनर् + वस + उः ।) विष्णुः (यथा, महाभारते १३ १४९ ३९ ।“अघनो विजयो जेता विश्वयोनिः पुनर्व्वसुः
”)शिवः कात्यायनमुनिः लोकभेदः धना-रम्भः इति शब्दरत्नावली
नक्षत्रविशेषः ।स धनुराकृतिपञ्चतारात्मकः यथा, --“मध्यवर्त्मनि शरासनाकृता-वम्बरस्य सुरमातृभे गताः ।लिप्तिकाः सुमुखि ! पञ्चतारकेपक्षपावकमिता घटोदयात्
”इति कालिदासकृतरात्रिलग्ननिरूपणम्
तस्याधिष्ठात्री देवता अदितिः इति जातकः
तत्र जातफलम् यथा, कोष्ठीप्रदीपे ।“प्रभूतमित्रः कृतशास्त्रयत्नःसद्रत्नकामी वरभूषणाढ्यः ।दाता प्रतापी वसुधाधिपश्रीःपुनर्व्वसौ यस्य भवेत् प्रसूतिः