| YouTube Channel

पुनरुक्तं (punaruktaM)

 
शब्दकल्पद्रुमः
Sanskrit
पुनरुक्तं,
क्ली,
(वच + भावे क्तः पुनः पुनर्व्वार-मुक्तम् ।) पुनर्व्वारकथनम् यथा, --“आपाततो यदर्थस्य पौनरुक्त्येव भाषणम् ।पुनरुक्तवदाभासः भिन्नाकारशब्दगः
”इति साहित्यदर्पणम्
(यथाह गोतमः ५७ -- ५८ ।“शब्दार्थयोः पुनर्व्वचनं पुनरुक्तमन्यत्रानु-वादात्
”“पुनर्वचनं पुनरुक्तं तस्य विभागार्थं शब्दार्थयो-रिति तेन शब्दपुनरुक्तमर्थपुनरुक्तञ्च लभय्ते ।अनुवादेऽतिव्याप्तिवारणाय अन्यत्रानुवादादितिअनुवादान्यत्वे सतीत्यर्थः निष्प्रयोजनं पुन-रभिधानं हि पुनरुक्तं अनुवादस्तु व्याख्यारूपःसप्रयोजनक एवेति भावः तथाच समा-नार्थकपूर्व्वानुपूर्व्वीकशब्दप्रयोगः शंब्दपुनरु-क्तम् समानार्थकभिन्नानुपूर्व्वीकशब्दस्य निष्प्रयो-जनं पुनरभिधानमर्थपुनरुक्तम् आद्यं यथाघटो घट इति द्वितीयं यथा, घटः कलसइति एतस्य प्रमादादिना सम्भवः
*
पुनरुक्तभेदान्तरमाह ।“अर्थादापन्नस्य स्वशब्देन पुनरभिधानम् ।”“पुनरुक्तमित्यनुवर्त्तते यस्मिन्नुक्ते यस्यार्थस्यौत्-सर्गिकी प्रतिपत्तिर्भवति तस्य तेन रूपेणपुनरभिधानं पुनरुक्तम् इदमेव अर्थपुन-रुक्तमिति गीयते यथा वह्निरुष्ण इति पूर्व्व-पदाक्षिप्तोक्तिरियम् उष्णो वह्निरिति उत्तर-पदाक्षिप्तोक्तिः एवं बहिरस्ति गेहे नास्तीतिविध्याक्षिप्तोक्तिः जीवन् गेहे नास्ति बहि-रस्तीति निषेधाक्षिप्तोक्तिः पुनरुक्तत्रैविध्यञ्चेदंभाष्यादि सम्मतम् तस्यैव शब्दस्य पुनरभि-धानं पर्य्यायेणाभिधानम् अन्यत् पुनरर्थपुन-रुक्तमित्याहुः
*
पुनर् + वच + कर्म्मणि क्तः ।पुनःकथिते, त्रि यथा, महाभारते १३ ।“ब्रूहि सञ्जय ! तत्त्वेन पुनरक्तां कथामिमाम्
”)