| YouTube Channel

पुत्रजीव (putrajIva)

 
Monier Williams Cologne
English
पुत्र—जीव, w.r. for पुत्र—ं-जीव, पुत्र—ं-जी°वक,
m.
‘giving life to children’, Putranjiva Roxburghii (from its seeds are made necklaces which are supposed to keep children in good health),
L.
वैजयन्तीकोषः
Sanskrit
Word: पुत्रजीवः
Root: पुत्रजीव
Gender: पुं
Number: all
अर्थः
Meaning(s):
Putrajīva roxburghii
Shloka(s):
3|3|79|1 पुत्रजीवे त्वक्षफलो रुद्राक्षे तु महामुनिः। (भूमिकाण्डः/वनाध्यायः)
Synonym(s):
3|3|79|1 पुत्रजीवः (पुत्रजीव) (पुं) Putrajīva roxburghii
3|3|79|1 अक्षफलः (अक्षफल) (पुं) Putrajīva roxburghii
Related word(s):
शब्दकल्पद्रुमः
Sanskrit
पुत्त्रजीवः,
पुं,
(पुत्त्रं गर्भं जीवयतीति जीवि +अण् ।) वृक्षविशेषः जियापुता इति भाषा ।तत्पर्य्यायः श्लीपदापहः इति त्रिकाण्ड-शेषः
कुमारजीवः पुत्त्रञ्जीवकः इतिरत्नमाला
पवित्रः गर्भदः सुतजीवकः
अस्य गुणाः हिमत्वम् वृष्यत्वम् श्लेष्मगर्भ-जीवदातृत्वम् चक्षुष्यत्वम् पित्तशमनत्वम् ।दाहतृष्णानिवारणत्वञ्च इति राजनिर्घण्टः
गुरुत्वम् वातकारित्वम् सृष्टमूत्रमलत्वम् ।स्वादुत्वम् पटुत्वम् कटुत्वम् इति भाव-प्रकाशः
वाचस्पत्यम्
Sanskrit
पुत्रजीव
पु०
पुत्त्रं गर्भं जीवयति जीव--अण् उप० स० ।(जिँयापुता) वृक्षे “पुत्त्रजीवो हिमो वृष्यः श्लेष्मदोगर्भजीवनः चक्षुष्यः पित्तशमनः दाहतृष्णानिवा-रकः” राजनि० “पुत्त्रजीवो गुरुर्वातकारी वृक्षो मतोबुधैः सृष्टमूत्रमलः स्वादुः पटुः कटुरपि स्मृतः”भावप्र०