| YouTube Channel

पुत्त्रेष्टिः (puttreSTiH)

 
शब्दकल्पद्रुमः
Sanskrit
पुत्त्रेष्टिः,
स्त्री,
(पुत्त्रनिमित्तिका इष्टिरिति मध्य-पदलोपी समासः ।) पुत्त्रनिमित्तकयागविशेषः ।इति जटाधरः
यथा, --“गृहीत्वा पञ्चवर्षीयं पुत्त्रेष्टिं प्रथमञ्चरेत्
”इति स्मृतिः
(अस्याः क्रियाविशेषो यथा, --“ततः पुत्त्रकामा पश्चिमतोऽग्निं दक्षिणतो ब्राह्मण-मुपवेश्यान्वालभेत सह भर्त्रा यथेष्टं पुत्त्रमाशा-साना ततस्त्वस्या आशासानाया ऋत्विक्प्रजापतिमभिनिर्द्दिश्य योनौ तस्याः कामपरि-पूरणार्थं काम्यामिष्टिं निर्व्वपेद्विष्णुर्योनिं कम्पय-त्वित्यन्वयार्च्चा ततश्चैवाज्येन स्थालीपाकमयभिःसंसार्य्य त्रिर्जुहुयात् यथाम्नायञ्चोपमन्त्रितमुद-पात्रं तस्यै दद्यात् सर्व्वोदकार्थान् कुरुष्वेति ।ततः समाप्ते कर्म्मणि पूर्व्वं दक्षिणपादमभि-हरन्ती प्रदक्षिणमग्निमनुपरिक्रामेत् ततो ब्राह्म-णान् स्वस्ति वाचयित्वा सह भर्त्राज्यशेषं प्राश्नी-यात् पूर्व्वं पुमान् पश्चात् स्त्री नचोच्छिष्ट-मवशेषयेत् ततस्तौ सहसंवसेतामष्टरात्रं तथा-विधपरिच्छदावेव तथेष्टपुत्त्रं जनयेताम् ।या तु स्त्रीश्यामं लोहिताक्षं व्यूढोरस्कं महाबाहुंपुत्त्रमाशासीत या वा कृष्णं कृष्णमृदुदीर्घकेशंशुक्लाक्षं शुक्लदन्तं तेजस्विनमात्मवन्तम् एषएवानयोरपि होमविधिः किन्तु परिवर्हवर्णवर्ज्ज्यंस्यात् पुत्त्रवर्णापुरूपस्तु यथाशीरेव तयोः परि-वर्होऽन्यः कार्य्यः स्यात् ।” इति चरके शारीर-स्थानेऽष्टमेऽध्याये
)