| YouTube Channel

पुत्त्रीयं (puttrIyaM)

 
शब्दकल्पद्रुमः
Sanskrit
पुत्त्रीयं, त्रि, (पुत्त्रस्य निमित्तं संयोग उत्पातो-वेति पुत्त्र + “पुत्त्राच्छ ।” ४० ।इति छः ।) पुत्त्र्यम् (यथा, महाभारते ।६७ १६३ ।“धन्यं यशस्यं पुत्त्रीयमायुष्यं विजयावहम् ।इदमंशावतरणं श्रोतव्यमनसूयता
”यथा रघौ १० ।“ऋष्यशृङ्गादयस्तस्य सन्तः सन्तानकाङ्क्षिणः ।आरेभिरे जितात्मानः पुत्त्रीयामिष्टिमृत्विजः
”“पुत्त्रीयां पुत्त्रनिमित्ताम् ।” इति तट्टीकायांमल्लिनाथः
”) पुत्त्रसम्बन्धि पुत्त्रस्येदमित्यर्थेईयप्रत्ययनिष्पन्नम् इति व्याकरणम्