| YouTube Channel

पुत्त्रिकापुत्त्रः (puttrikAputtraH)

 
शब्दकल्पद्रुमः
Sanskrit
पुत्त्रिकापुत्त्रः,
पुं,
(पुत्त्रिकायाः जातेऽस्याः पुत्त्रेस हि मदीयः पुत्त्रो भविष्यतीति पुत्त्रस्वरूपत्वेनकृतायाः सुतायाः पुत्त्रः ।) पुत्त्रिकायाः सुतः ।स औरससमः यथाह वशिष्ठः ।“अभ्रातृकां प्रदास्यामि तुभ्यं कन्यामलङ्कृताम् ।अस्यां यो जायते पुत्त्रः मे पुत्त्रो भवेदितीति
अथवा पुत्त्रिकैव सुतः पुत्त्रिकासुतः सोऽप्यौरस-सम एव पित्रवयवानामल्पत्वान्मात्रवयवानांबाहुल्याच्च यथाह वशिष्ठः द्बितीयः पुत्त्रिकै-वेति द्वितीयः पुत्त्रः कन्यैवेत्यर्थः ।” इति मिता-क्षरा