| YouTube Channel

पुत्त्रका (puttrakA)

 
Shabdartha Kaustubha
Kannada
पुत्त्रका / पुत्त्रिका
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಪುತ್ತ್ರಿ / ಮಗಳು
निष्पत्तिः - > पुत्त्री - स्वार्थे "कन्" "टाप्" (४-१-४) कात्पूर्वस्येकारस्य वा अकारः (वा० ७-३-४५) - पक्षे पुत्त्रिका, कै (शब्दे) - "कः" (३-२-३)
व्युत्पत्तिः - > पुत्त्र इव कायति
प्रयोगाः - > "अपुत्त्रोऽनेन विधिना सुतां कुर्वीत पुत्त्रिकाम् यदपत्यं भवेदस्यां तन्मम स्यात् स्वधारकम् ॥"
पुत्त्रका
पदविभागः - > स्त्रीलिङ्गः
निष्पत्तिः - > अकारे रूपम्
शब्दकल्पद्रुमः
Sanskrit
पुत्त्रका,
स्त्री,
(पुत्त्र + स्वार्थे संज्ञायां वा कन् ।टाप् “न यासयोः ।” ४५ इत्यस्य“सूतकापुत्त्रिकावृन्दारकानां वेति वक्तव्यम् ।”इति वार्त्तिकोक्त्या ङीन इवर्णस्य पक्षेऽकारः ।)पुत्त्रिका इति शब्दरत्नावली