| YouTube Channel

पुत्त्रः (puttraH)

 
शब्दकल्पद्रुमः
Sanskrit
पु(त्र)त्त्रः,
पुं,
लग्नात् पञ्चमस्थानम् यथा, --“पुत्त्रस्थेऽर्के नरोऽसौ प्रथमसुतहतः सिंहराशौसुपुत्त्रः
”इत्यादि ज्योतिस्तत्त्वम्
(पुनाति पित्रादीनिति पू + “पुवो ह्नस्वश्च ।”उणा ०४ १६४ इति क्त्रः धातोर्ह्नस्वत्वञ्च ।तकारद्वये तु पुन्नामनरकात् त्रायते इति पुत् +त्रै + डः पितॄन् पातीति व्युत्पत्या पृषोदरा-दित्वात् साधुः इति रामायणे १०७ १२ ।श्लोकटीकायां रामानुजः ।) पुंसन्तानः पुन्नाम-नरकत्राता पुत इति वेटा इति भाषा ।तत्पर्य्यायः आत्मजः तनयः सूनुः ४सुतः इत्यमरः २७
तनूजः ६अपत्यम् दायादः कुलाधारकः नन्दनः१० आत्मजन्मा ११ द्वितीयः १२ प्रसूतिः १३स्वजः १४ इति शब्दरत्नावली
अस्यनिरुक्तिर्यथा, --“पुन्नाम्नो नरकाद्यस्मात् पितरं त्रायते सुतः ।तस्मात् पुत्त्र इति प्रोक्तः स्वयमेव स्वयम्भुवा
”इति महाभारते ७४ ३७
(यथा रामायणे १०७ १२ ।“पुन्नाम्नो नरकात् यस्मात् पितरं त्रायते सुतः ।तस्मात् पुत्त्र इति प्रोक्तः पितॄन् यः पातिसर्व्वतः
”)स द्वादशविधः यथा, --“औरसः क्षेत्रजश्चैव दत्तः कृत्रिम एव ।गूढोत्पन्नोऽपविद्धश्च दायादा बान्धवाश्च षट्
कानीनश्च सहोढश्च क्रीतः पौनर्भवस्तथा ।स्वयन्दत्तश्च शौद्रश्च षडदायादबान्धवाः
*
तेषां लक्षणानि यथा, --“स्वे क्षेत्रे संस्कृतायान्तु स्वयमुत्पादयेद्धि यम् ।तमौरसं विजानीयात् पुत्त्रम्प्रथमकल्पितम्
यस्तल्पजः प्रमीतस्य क्लीवस्य व्याधितस्य वा ।स्वधर्म्मेण नियुक्तायां पुत्त्रः क्षेत्रजः स्मृतः
माता पिता वा दद्यातां यमद्भिः पुत्त्रमापदि ।सदृशं प्रीतिसंयुक्तं ज्ञेयो दत्रिमः सुतः
सदृशन्तु प्रकुर्य्याद्यं गुणदोषविचक्षणम् ।पुत्त्रं पुत्त्रगुणैर्युक्तं विज्ञेयश्च कृत्रिमः
उत्पद्यते गृहे यस्य ज्ञायेत कस्य सः ।स गृहे गूढ उत्पन्नस्तस्य स्याद्यस्य तल्पजः
भातापितृभ्यामुत्सृष्टन्तयोरन्यतरेण वा ।यं पुत्त्रं परिगृह्णीयादपविद्धः उच्यते
पितृवेश्मनि कन्या तु यं पुत्त्रञ्जनयेद्रहः ।तं कानीनं वदेन्नाम्ना वोढः कन्यासमुद्भवम्
या गर्भिणी संस्क्रियते ज्ञाताज्ञातापि वासती ।वोढुः गर्भो भवति सहोढ इति चोच्यते
क्रीणीयाद्यस्त्वपत्यार्थं मातापित्रोर्यमन्तिकात् ।स क्रीतकः सुतस्तस्य सदृशोऽसदृशोऽपि वा
या पत्या वा परित्यक्ता विधवा वा स्वयेच्छया ।उत्पादयेत् पुनर्भूत्वा पौनर्भव उच्यते
१०
मातापितृविहीनो यस्त्यक्तो वा स्यादकारणात् ।आत्मानं स्पर्शयेद्यस्मै स्वयं दत्तस्तु स्मृतः
११यं ब्राह्मणस्तु शूद्रायां कामादुत्पादयेत् सुतम् ।स पारयन्नेव शवस्तस्मात् पारशवः स्मृतः
१२
क्षेत्रजादीन् सुतानेनानेकादश यथोदितान् ।पुत्त्रप्रतिनिधीनाहुः क्रियालोपान्मनीषिणः
”इति मानवे अध्यायः
*
चतुर्व्विधपुत्त्रा यथा, --सुमना उवाच ।“ऋणसम्बन्धिनः केचित् केचिन्न्यासापहारकाः ।रिपवश्च प्रियाश्चेति स्वकर्म्मवशवर्त्तिनः
भेदैश्चतुर्भिर्जायन्ते पुत्त्रा मित्राः स्त्रियस्तथा ।भार्य्या पिता माता भृत्याः स्वजनबान्धवाः
स्वेन स्वेन हि जायन्ते सम्बन्धेन महीतले ।न्यासापहारभावेन यस्य यस्य कृतं भुवि
न्यासस्वामी भवेत् पुत्त्रो गुणवान् रूपवान् भुवि ।येन चापहृतं न्यासं तस्य गेहे संशयः
न्यासापहरणाद्दुःखं दत्त्वा दारुणं गतः ।न्यासस्वामी पुत्त्रोऽभून्न्यासापहारकस्य
गुणवान् रूपवांश्चैव सर्व्वलक्षणसंयुतः ।भक्तिञ्च दर्शयेत्तस्य पुत्त्रो भूत्वा दिने दिने
प्रियवाक्यधरो वापि बहुस्नेहं प्रदर्शयेत् ।स्वीयं द्रव्यं समुद्राढ्यं प्रीतिमुत्पाद्य चातुलाम्
भुक्त्रा तु पोषणात्तेन तदादाय पुनर्व्रजेत् ।यथा तेन प्रदत्तं तन्न्यासापहरणात् पुरा
दुःखमेवं महत् कृत्वा दारुणं प्राणनाशनम् ।तादृशं तस्य दद्यात् पुत्त्रो भूत्वा महागुणैः
अल्पायुषस्तथा भूत्वा मरणं यान्ति ते तथा ।दुःखं दत्त्वा प्रयान्त्येवं प्रकृत्यैवं पुनः पुनः
यदाह पुत्त्र पुत्त्रेति प्रलापं हि करोति सः ।तदा हास्यं करोत्येष कः पुत्त्रो हि कस्य
अनेनापि कृतं न्यासं मदीयं परिचारिणा ।द्रव्यापहारोऽपि पिता पूर्व्वमद्यैव तस्य
पिशाचत्वं मया दत्तमद्यैव हि दुरात्मनः ।द्रव्यापहरणेनापि मम प्राणा गताः किल
दुःखेन महता चैव यदाहं पीडितः पुरा ।तथा दुःखं प्रदत्त्वाहं द्रव्यं मुद्राढ्यमुत्तमम्
भोगेन सर्व्वमादाय चिराद्विश्वास्य सौम्यवत् ।गतोऽस्मि स्वगृहञ्चाद्य कस्याहं सुत ईदृशः
चैषोऽपि पिता पूर्व्वमद्यैव कस्यचित् ।पिशाचत्वं मया दत्तमद्यैव दुरात्मनः
एवमुक्त्रा प्रयात्येव तं प्रहस्य पुनः पुनः ।प्रयात्यनेन मार्गेण दुःखं दत्त्वा सुदारुणम्
एवं न्यासस्य सम्बन्धात् पुत्त्राः किन्ते भवन्ति वै ।संसारे दुःखबहुला दृश्यन्ते यत्र तत्र हि
ऋणसम्बन्धिनः पुत्त्रान् प्रवक्ष्यामि तवाग्रतः ।ऋणं यस्य गृहीत्वा यः प्रयाति मरणं किल
अन्नदाता सुतो भूत्वा भ्राता वाथ पिता प्रियः ।मित्ररूपेण वर्त्तेत अन्तर्द्दष्टः सदैव सः
गुणं नैव प्रपश्येत क्रूरो निष्ठुराकृतिः ।जल्पते निष्ठुरं वाक्यं सदैव स्वजनेषु
नित्यं मिष्टं समश्नाति भोगान् भुञ्जीत नित्यशः ।द्यूतकर्म्मरतो नित्यं चौरकर्म्मणि नित्यशः
गृहाद्द्रव्यं बलाद्धर्त्ता वार्य्यमाणः प्रकुप्यति ।पितरं मातरञ्चैव कुत्सते दिने दिने
द्रावकस्त्रासकश्चैव बहुनिष्ठुरजल्पकः ।वञ्चयित्वैव मुद्राञ्च हृत्वा सुखेन तिष्ठति
जातकर्म्मादिभिर्ब्बाल्ये द्रव्यं गृह्णाति दारुणः ।पुनर्व्विवाहसंयोगान्नानाभेदैरनेकधा
एवं संक्षीयते द्रव्यं नैवमेतद्ददात्यपि ।गृहक्षेत्रादिकं सर्व्वं ममैव हि संशयः
पितरं मातरञ्चैव वदत्येवं दिने दिने ।सुदण्डैर्मुषलैश्चैव कषाघातैस्तु दारुणैः
मृते तु तस्मिन् पितरि तथा मातरि निष्ठुरम् ।निःस्नेहो निर्घृणश्चैव जायते नात्र संशयः
श्राद्धकार्य्याणि दानानि करोति कदाचन ।एवंविधास्त्रयः पुत्त्रा भवन्ति महीतले
रिपुपुत्त्रं प्रवक्ष्यामि तवाग्रे द्विजपुङ्गव ! ।बाल्ये वयसि संप्राप्ते रिपुवद्वर्त्तते सदा
पितरं मातरञ्चैव क्रीडमानो हि ताडयेत् ।ताडतित्वा प्रयात्येवं प्रहस्यैव पुनः पुनः
पुनरायाति तं तत्र पितरं मातरं पुनः ।सक्रोधो वर्त्तते नित्यं वैरकर्म्मणि सर्व्वदा
पितरं मारयित्वा तु मातरञ्च पुनः पुनः ।प्रयात्येवं दुष्टात्मा पूर्व्ववैरानुभावतः
*
अथातः संप्रवक्ष्यामि यस्माल्लभ्यो भवेत् प्रियः ।जातमात्रः प्रियं कुर्य्याद्बाल्ये नटनक्रीडनैः
वयः प्राप्य प्रियं कुर्य्यान्मातापित्रोरनन्तरम् ।भक्त्या संतोषयेन्नित्यं तावुभौ परिपालयेत्
स्नेहेन वचसा चैव प्रियसम्भाषणेन ।मृधौ गुरू समाज्ञाय स्नेहेन रुदते पुनः
श्राद्धकर्म्माणि सर्व्वाणि पिण्डदानादिकां क्रियाम् ।करोत्येवं सुदुःखात्तस्तेभ्यो यात्रां प्रयच्छति
ऋणत्रयान्वितः स्नेहान्निर्य्यापयति निश्चितः ।यस्माल्लभ्यं भवेत् कान्त प्रयच्छति संशयः ।पुत्त्रो भूत्वा महाप्राज्ञः अनेन विधिना किल
उदासीनं प्रवक्ष्यामि तवाग्रे प्रिय ! साम्प्रतम्
उदासीनेन भावेन सदैव परिवर्त्तते ।ददाति नैव गृह्णाति क्रुध्यति तुष्यति
नैवोपयाति संत्यज्य उदासीनो द्विजोत्तम ! ।तवाग्रे कथितं सर्व्वं पुत्त्राणां गतिरीदृशी
यथा पुत्त्रास्तथा भार्य्या पिता माताथ बान्धवाः ।भृत्याश्चान्ये समाख्याताः पशवस्तुरगास्तथा ।गजा महिष्यो दास्यश्च ऋणसम्बन्धिनस्त्वमी
*सुपुत्त्रलक्षणं यथा, --वशिष्ठ उवाच ।“पुत्त्रस्य लक्षणं पुण्यं तवाग्रे प्रवदाम्यहम् ।पुण्यप्रसक्तो यस्यात्मा सत्यधर्म्मरतः सदा ।बुद्धिमान् ज्ञानसम्पन्नस्तपस्वी वाग्विदांवरः
सर्व्वकर्म्मसु सन् धीरो वेदाध्ययनतत्परः ।सर्व्वशास्त्रप्रवक्ता देवब्राह्मणपूजकः
याजकः सर्व्वयज्ञानां दाता त्यागी प्रियंवदः ।विष्णुध्यानपरो नित्यं शान्तो दान्तः सुहृत्सदा
पितृमातृपरो नित्यं सर्व्वस्वजनवत्सलः ।कुलस्य तारको विद्वान् कुलस्य परिपोषकः
एवं गुणैः सुसंयुक्तः सुपुत्त्रः सुखदायकः
*
पुत्त्रस्य जङ्गमतीर्थत्वं यथा, --“सर्व्वतीर्थाद्वरं तीर्थं पुत्त्रतीर्थमुदाहृतम् ।यद्वेणो वैष्णवद्वेषी सर्व्वधर्म्मबहिष्कृतः
पृथुना पुत्त्रतीर्थेन पवित्रोऽगात् परं पदम्
सत्पुत्त्रं परमं तीर्थं प्राप्य मुञ्चन्ति पूर्व्वजाः ।पितापि ऋणमुक्तः स्याज्जाते पुत्त्रे महात्मनि
”वैष्णवपुत्त्रस्य पूर्व्वपुरुषत्रातृत्वं यथा, --“वैष्णवो यदि पुत्त्रः स्यात् सतारयति पूर्व्वजान् ।पितॄनधस्तना वंशास्तारयन्त्यतिपावनाः
*
कुपुत्त्रजनने पितॄणां नरकगमनं यथा, --“तथा यदि कुपुत्त्रः स्यात्तेन मज्जन्ति पूर्व्वजाः ।सुघोरे नरके दीनाः शपन्ति मुहुर्मुहुः
यथा जलं कुप्लवेन तरन्मज्जति मूढधीः ।तथा पिता कुपुत्त्रेण तमस्यन्धे निमज्जति
जातमात्रे कुले जन्तौ संशेरते पितामहाः ।किमेषोऽधो नयेदस्मानूर्द्ध्वं वा वैष्णवो भवन्
”इति पाद्मे भूमिखण्डे ११ १२ १८ १२० ।अध्यायाः
*
सप्तविधपुत्त्रा यथा, --“वरजो वीर्य्यजश्चैव क्षेत्रजः पालकस्तथा ।विद्यामन्त्रसुतानाञ्च ग्रहीता सप्तमः सुतः
”इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ५६ अध्यायः
*
पुत्त्रमुखदर्शने पुण्यं यथा, --पार्व्वत्युवाच ।“गृहमागत्य प्राणेश ! तपसां फलदायकम् ।कल्पे कल्पे ध्यासते यं तं पश्यागत्य मन्दिरम्
शीघ्रं पुत्त्रमुखं पश्य पुण्यबीजं महोत्सवम् ।पुन्नामनरकत्राणकारणं भवतारणम्
स्नातञ्च सर्व्वतीर्थेषु सर्व्वयज्ञेषु दक्षिणा ।पुत्त्रस्य दर्शनस्यास्य कलां नार्हन्ति षोडशीम्
सर्व्वदानेन यत् पुण्यं यत् पृथिव्याः प्रदक्षिणम् ।पुत्त्रदर्शनपुण्यस्य कलां नार्हन्ति षोडशीम्
सर्व्वैस्तपोभिर्यत् पुण्यं यदेवानशनर्व्रतैः ।सत्पुत्त्रोद्भवपुण्यस्य कलां नार्हन्ति षोडशीम्
यद्विप्रभोजनैः पुण्यं यदेव सुरसेवनैः ।सत्पुत्त्रप्राप्तिपुण्यस्य कलां नार्हन्ति षोडशीम्
”इति ब्रह्मवैवर्त्ते गणपतिखण्डे अध्यायः
*
पुत्त्रोत्सवविधिर्यथा, --“परं पुत्त्रोत्सवं नन्दश्चकार परमादरात् ।ददौ यशोदा गोपीभ्यो ब्राह्मणेभ्यो ददौ मुदा ।धनानि नानावस्तूनि तैलसिन्दूरमेव
”अपि ।“नन्दः सचेलः स्नात्वा धृत्वा धौते वाससी ।पारम्पर्य्यविधं तत्र चकार हृष्टमानसः
ब्राह्मणान् भोजयामास कारयामास मङ्गलम् ।वाद्यानि वादयामास वन्दिभ्यश्च ददौ धनम्
ततो नन्दश्च सानन्दं ब्राह्मणेभ्यो ददौ धनम् ।सद्रत्नानि प्रवालानि हीरकाणि सादरम्
तिलानां पर्व्वतान् सप्त सुवर्णं काञ्चनं मुने ! ।रौप्यं धान्याचलं वस्त्रं गोसहस्रं मनोहरम्
दधि दुग्धं शर्कराञ्च नवनीतं घृतं मधु ।मिष्टान्नं लड्डुकौघञ्च स्वादूनि मोदकानि
भूमिञ्च सर्व्वशस्याढ्यां वायुवेगांस्तुरङ्गमान् ।ताम्बूलानि तैलानि दत्त्वा हृष्टो बभूव
”पुत्त्रप्रशंसा यथा, --“धनं धान्यञ्च रत्नं वा तत् सर्व्वं पुत्त्रहेतुकम् ।न भक्षितं यत् पुत्त्रेण तद्द्रव्यं निष्फलं भुवि
शतकूपाधिका वापी शतवापीसमं सरः ।सरःशताधिको यज्ञः पुत्त्रो यज्ञशताद्बरः
तपोदानोद्भवं पुण्यं जन्मान्तरसुखप्रदम् ।सुखप्रदोऽपि सत्पुत्त्रः प्राणेभ्योऽपि सुनिश्चितम् ।पुत्त्रादपि परो बन्धुर्न भूतो भविष्यति
”पुत्त्रात् पराजये आनन्दयुक्तत्वं यथा, --“नन्दः सपुलको हृष्टः सभायां साश्रुलोचनः ।आनन्दयुक्ता मनुजा यदि पुत्त्रैः पराजिताः
”इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे १४ २१अध्यायाः
*
बहवः पुत्त्राः काम्याः यथा, --“एष्टव्या बहवः पुत्त्रा यद्येकोऽपि गयां व्रजेत् ।यजेद्वा चाश्वमेधेन नीलं वा वृषमुत्सृजेत्
”मातापित्रोराज्ञाकारिकनिष्ठपुत्त्रस्यापि राज्य-भागित्वं यथा, --ययातिरुवाच ।“पुत्त्रो यस्त्वनुवर्त्तेत राजा पृथिवीपतिः ।भवन्तः प्रतिजानन्तु पुरू राज्येऽभिषिच्यताम्
प्रकृतयः ऊचुः ।यः पुत्त्रो गुणसम्पन्नो मातापित्रोर्हितः सदा ।सर्व्वं सोऽर्हति कल्याणं कनीयानपि प्रभुः
”इति मात्स्ये २२ ३४ अध्यायौ
*
सत्पुत्त्रोत्पत्तिमात्रेण पुन्नामनरकत्राणं स्वर्ग-गमनञ्च यथा, --“सत्पुत्त्रेण मुनिश्रेष्ठाः समुत्पन्नेन दुर्म्मतिः ।उत्ततारान्वियात् स्वर्गं पुन्नामनरकाद्द्रुतम्
”इत्यग्निपुराणम्
अपि ।“सत्पुत्त्रेण जातेन वेणोऽपि त्रिदिवं ययौ ।पुन्नामनरकात्त्रातः तेन सुमहात्मना
”इति विष्णुपुराणे १३ ४१
*
विद्यादिरहितस्य पुत्त्रस्य निन्दा यथा, --“तया गवा किं क्रियते या दोग्ध्री गर्भिणी ।कोऽर्थः पुत्त्रेण जातेन यो विद्वान्न धार्म्मिकः
एकेनापि सुपुत्त्रेण विद्यायुक्तेन धीमता ।कुलं पुरुषसिंहेन चन्द्रेण गगनं यथा
एकेनापि सुवृक्षेण पुष्पितेन सगन्धिना ।वनं सुवासितं सर्व्वं सुपुत्त्रेण कुलं यथा
एको हि गुणवान् पुत्त्रो निर्गुणेन शतेन किम् ।चन्द्रो हन्ति तमांस्येको ज्योतिः सहस्रशः
लालयेत् पञ्च वर्षाणि दश वर्षाणि ताडयेत् ।प्राप्ते तु षोडशे वर्षे पुत्त्रं मित्रवदाचरेत्
जायमानो हरेद्दारान् वर्द्धमानो हरेद्धनम् ।म्रियमाणो हरेत् प्राणान् नास्ति पुत्त्रसमो रिपुः
शौर्य्ये तपसि दाने वा यस्य प्रथितं यशः ।विद्यायामर्थलाभे वा मातुरुच्चार एव सः
”इति गारुडे ११४ ११५ अध्यायौ
*
मध्यमोत्तमाधमभेदेन त्रिविधः यथा, --“यदुपात्तं यशः पित्रा धनं वीर्य्यमथापि वा ।तन्न हापयते यस्तु नरो मध्यमः स्मृतः
तद्वीर्य्याभ्यधिकं यस्तु पुनरन्यत् स्वशक्तितः ।निष्पादयति तं प्राज्ञा वदन्ति नरमुत्तमम्
यः पित्रा समुपात्तानि धनवीर्य्ययशांसि ।न्यूनतां नयति प्राज्ञास्तमाहुः पुरुषाधमम्
”इति मार्कण्डेयपुराणम्
*
अपि ।“उत्तमश्चिन्तितं कुर्य्यात् प्रीक्तकारी मध्यमः ।अधमोऽश्रद्धया कुर्य्यादकर्त्तोच्चरितं पितुः
”इति महाभारतम्
(अनुरूपपुत्त्रप्राप्त्युपायो यथा, --“ततः समाप्ते कर्म्मणि पूर्व्वं दक्षिणपादमभि-हरन्ती प्रदक्षिणमग्निमनु परिक्रामेत् ततोब्राह्मणान् स्वस्ति वाचयित्वा सह भर्त्राज्यशेषंप्राश्नीयात् पूर्व्वं पुमान् पश्चात् स्त्री नचोच्छिष्ट-मवशेषयेत् ततस्तौ सह संवसेतामष्टरात्रं तथा-विधपरिच्छदावेव तथेष्टं पुत्त्रं जनयेताम् या तुस्त्री श्यामं लोहिताक्षं व्यूढोरस्कं महाबाहुंपुत्त्रमाशासीत या वा कृष्णं कृष्णमृदुदीर्घकेशंशुक्लाक्षं शुक्लदन्तं तेजस्विनमात्मवन्तम् एषएवानयोरपि होमविधिः किन्तु परिवर्हवर्ण-वर्ज्यं स्यात् पुत्त्रवर्णानुरूपस्तु यथाशीरेव तयोःपरिवर्होऽन्यः कार्य्यः स्यात् द्बिजेभ्यः शूद्रा तुनमस्कारमेव कुर्य्यात् देवगुरुतपस्विसिद्धेभ्यश्च ।या या यथाविधं पुत्त्रमाशासीत तस्यास्तस्या-स्तान्तां पुत्त्राशिषमनुनिशम्य तांस्तान् जन-पदान् मनसानुपरिक्रामयेत् ततो या यायेषां येषां जनपदानां मनुष्याणामनुरूपं पुत्त्र-माशासीत सा सा तेषां तेषां जनपदानामा-हारविहारोपचारपरिच्छदाननुविधीयस्वेतिवाच्या स्यात् इत्येतत् सर्व्वं पुत्त्राशिषां समृद्धि-करं कर्म्म व्याख्यातम् ।”“तथा कुर्व्वती शनैः शनैः पूर्व्वं प्रवाहेतततोऽनन्तरं बलवत्तरमिति तस्याञ्च प्रवाह-माणायां स्त्रियः शब्दं कुर्य्युः प्रजाताः प्रजाताधन्यं धन्यं पुत्त्रमिति तथास्या हर्षेणाप्यायन्तेप्राणाः ।” इति चरके शारीरस्थानेऽष्टमेऽध्याये
)