| YouTube Channel

पुण्याहवाचनं (puNyAhavAcanaM)

 
शब्दकल्पद्रुमः
Sanskrit
पुण्याहवाचनं,
क्ली,
(पुण्याहस्य वाचनम् ।)दैवादिकर्म्मादौ मङ्गलार्थं पुण्याहमितिशब्दस्यवारत्रयकथनम् यथा, --“पुण्याहवाचनं दैवे ब्राह्मणस्य विधीयते ।एतदेव निरोङ्कारं कुर्य्यात् क्षत्त्रियवैश्ययोः
सोङ्कारं ब्राह्मणे ब्रूयात् निरोङ्कारं महीपतौ ।उपांशु तथा वैश्ये शूद्रे स्वस्ति प्रयोजयेत्
”इत्युद्वाहतत्त्वे यमः