| YouTube Channel

पुण्यात्मा (puNyAtmA)

 
शब्दकल्पद्रुमः
Sanskrit
पुण्यात्मा, त्रि, (पुण्यः आत्मा स्वभावो यस्य ।)पुण्यस्वभावः तस्य गत्यादिर्यथा, --सुप्रज्ञोवाच ।“शृणु विप्र ! प्रवक्ष्यामि यत्त्वया श्रोतुमिष्यते ।पुण्यात्मनां पापिनाञ्च पन्थानं सुखदुःखदम्
आदौ ब्रवीमि पन्थानं नृणां पुण्यवतामहम् ।शृणुष्व द्विजशार्द्दूल ! शृण्वतां प्रीतिवर्द्धनम्
प्रस्तरैरिष्टकैर्बद्धो दिव्यवस्त्रैः समावृतः ।भाति पुण्यात्मनां पन्थाः सर्व्वोपद्रववर्ज्जितः
क्वचिद्गन्धर्व्वकन्याभिर्गीयते गानमुत्तमम् ।क्वचिन्मञ्जुशरीराभिरप्सरोभिश्च नृत्यते
क्वचिच्च वीणाक्वणनं नानावाद्यं मनोहरम् ।क्वचित् कुसुमवृष्टिश्च क्वचिद्वायुः सुशीतलः
क्वचित् पुष्पाः शीततोयाः कुत्रचित् भक्त-शालिकाः ।क्वचिद्देवाश्च गन्धर्व्वाः पठन्ति स्तवमुत्तमम्
क्वचित् क्वचिद्दीर्घिकाश्च फुल्लपद्मसुशोभिताः ।सुच्छायाः पादपाः क्वापि पुष्पिता वञ्जुलादयः
समस्तसुखसम्पन्ने पथि गच्छन्ति मानवाः ।पुण्यात्मानो द्विजश्रेष्ठ ! सुखमृत्युमवाप्य
केचित्तुरङ्गमारूढा नानालङ्कारभूषिताः ।उद्दण्डधवलच्छत्रैर्गच्छन्त्यावृतमस्तकाः
केचिद्यान्ति गजारूढा रथारूढाश्च केचन ।यानारूढा जनाः केचित् मुखेन यममन्दिरम्
केचिद्देवाङ्गनाहस्तन्यस्तचामरवायुभिः ।गच्छन्ति वीजिता मर्त्याः स्तूयमानाः सुरर्षिभिः
केचिद्दिव्याङ्कनधराः सुचन्दनविभूषिताः ।भुञ्जन्तो यान्ति ताम्बूलं पुण्यात्मानो यमालयम्
निजगात्रत्विषा केचिज्ज्वालयन्तो दिशो दश ।व्रजन्ति शमनागारं चलद्गृहनिवासिनः
केचिच्च पायसं दिव्यं भुञ्जन्तो यान्ति सत्तमाः ।सुधापानं प्रकुर्व्वन्तः पथि गच्छन्ति केचन
केचिद्दुग्धं पिबन्तश्च केचिदिक्षुरसं तथा ।केचित्तक्रं पिबन्तश्च गच्छन्ति यममन्दिरम्
केचिद्दधीनि खादन्तः केचिन्नानाफलानि ।केचिन्मधु पिबन्तश्च पुण्यवन्तो व्रजन्ति वै
तानागतांस्ततो दृष्ट्वा नरान् धर्म्मपरायणान् ।भास्करिः प्रीतिमासाद्य स्वयं नारायणो भवेत्
चतुर्ब्बाहुः श्यामवर्णः प्रफुल्लकमलेक्षणः ।शङ्खचक्रगदापद्मधारी गरुडवाहनः
स्वर्णयज्ञोपवीती स्मेरचारुतराननः ।किरीटी कुण्डली चैव वनमालाविभूषितः
चित्रगुप्तो महाप्राज्ञश्चण्डाद्या यमकिङ्कराः ।सर्व्वे नारायणाकारा बभूवुर्मधुरोक्तयः
ततः स्वयं धर्म्मराजस्तान् सर्व्वान्मनुजोत्तमान् ।परमां प्रीतिमासाद्य मित्रवत् पूजयेद्द्विज !
दिव्यैर्व्वन्यैः फलैश्चैव तेषां पुण्यवतां नृणाम् ।भोजनं कारयित्वा तु तानुवाचाथ भास्करिः
यम उवाच ।यूयं सर्व्वे महात्मानो नरकक्लेशभीरवः ।निजपुण्यप्रभावेन गम्यतां परमं पदम्
संसारे जन्म संप्राप्य पुण्यं यः कुरुते नरः ।स मे पिता मे भ्राता मे बन्धुः मे सुहृत्
इत्युक्ता धर्म्मराजेन ते सर्व्वे द्विजसत्तम् ! ।दिव्यं रथं समारुह्य नारायणपुरं ययुः
”इति पाद्मोत्तरे क्रियायोगसारे २२ अध्यायः