पुण्यकाल (puNyakAla)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte Hindi
Hindiपुण्यकालः
पुण्य-कालः -
शुभ समय
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Shabdartha Kaustubha
Kannadaपुण्यकाल
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಪುಣ್ಯಕರವಾದ ಸಮಯ /ಪುಣ್ಯಸಂಪಾದನೆಯ ಕಾಲ
वाचस्पत्यम्
Sanskritपुण्यकाल पुण्यनिमित्तं कालः कालगेदः । रवेःश्थिरसंक्रान्तौ रव्यादीनां चलसंक्रान्तो च विहितस्वानदा-नादौ पुण्यजगके कालभेदे तत्र रवेः स्थिरसंक्रान्तिपु-ण्यकालनिर्णवः सू० सि० रङ्ग० दर्शितो यथा“अर्कमानकलाः षष्ट्या गुणिताभुक्तिभाजिताः । तदर्द्ध-नाड्यः संक्रान्तेरर्वाक् पुण्यं तथापरे” सू० सि० “सूर्यस्यविम्बप्रमाणकलाः षष्ट्या गुणिताः सूर्यगत्या भक्तास्तस्यफलस्यार्द्धं तत्सङ्ख्याका घटिका इत्यर्थः । संक्रान्तेः सू-र्यस्य राशिप्रवेशकालादित्यर्थः । अर्वाक् पूर्वं पुण्यं स्ना-नादिधर्मकृत्ये पुण्यघटिकाः पुण्यवृद्धिकारिकाः । अपरेसंक्रान्त्युत्तरकाले तथा स्नानादिधर्मकृत्ये पुण्यवृद्धिदाइत्यर्थः । अत्रोपपत्तिः । सूर्यबिम्बकेन्द्रस्य राश्यादौ सञ्च-रणकालः संक्रमणकालस्तस्य सूक्ष्मत्वेन दुर्ज्ञेयत्वात्स्थूलकालः कोऽप्यभ्युपेयः स तु राश्यादौ विम्बसञ्च-रणरूपोऽङ्गीकृतो बिम्बसम्बन्धात् । अतः सूर्यगत्या यदिषष्टिसावनघटिकास्तदा सूर्यबिम्बकलाभिः का इत्यनुपा-तानीता विम्बघटिकाः संक्रान्तिकालः स्थूलः प्राङ्नेमिस-ञ्चरणकालात् पश्चिमनेनिसञ्चरणकालपर्यन्तं तदर्द्धघटिकाव्यासार्द्धघटिका इति संक्रान्तिकालात् ताभिः पूर्वमपरत्रकाले व्रागगरनेम्योः क्रमेण सञ्चरणात् पूर्वोत्तरकालेपुण्या इति” रङ्ग० । स च सौरमाणेन “सौरेण द्यु-निशोर्वामम्” इत्युपक्ररे “संक्रान्तेः पुण्यकालता”इति तत्रोक्तेः । तत्र संक्रान्तिविशेषे कालविशेषस्य पुण्य-पुण्यतरत्वादिकं सप्रपञ्चं कालमाधवीये निर्णीतं यथाशातावपः “संक्रान्तौ यानि दत्तानि हव्यकव्यानिदातृभिः । तानि नित्यं ददात्यर्कः पुनर्जन्मनि जन्मनि ।रविसंक्रमणे पुण्ये न स्नायाद् यदि मानवः । सप्तजन्मसुरोगी स्याद्दुःखभागीह जायते” इति । स्नानदाना-द्यङ्गभूते संक्रान्तिकाले मुख्यकल्पस्यासम्भवादनुकल्पएवा-दर्त्तव्यः । तदाह देवलः “संक्रान्तिसमयः सूक्ष्मो दुर्ज्ञेयःपिशितेक्षणैः । तद्योगादप्यधश्चोर्द्ध्वं त्रि शन्नाड्यः पवि-त्रता” इति देशाव्यवधानादत्यन्तसंश्लिष्टयोः पूवोत्तररा-श्योर्मध्ये सूर्यः पूर्वराशिं परित्यज्य यावत्कालभेदे-नोत्तरराशिं प्रविशति स लेशो योगदृष्टिं विना मांसदृ-ष्ट्या दुर्लक्ष्यः । अतोऽनुष्ठाने मुख्यसंक्रान्तिकालासम्भ-वात् सक्रान्तिसम्बन्धिनौ पूर्वोत्तरकालौ ग्रर्हातव्यौ ।संक्रान्तेः पूर्वोत्तरयोरेकैकस्मिंस्त्रिंशत् घटिकाः पुण्याइति सामान्थेनोक्तम् तत्र विशेषमाह वृद्धवसिष्ठः“अतीतानागते पुण्ये द्वे उदग्दक्षिणायने । त्रिंश-त्कर्कष्टके नाड्यो मकरे विंशतिः स्मृताः” इति । उदगय-नमतीतं सत्पुण्य भवति । दक्षिणायनमनागतं पुण्यंत्रिशदित्यादिना तदेव स्पष्टीक्रियते कर्कटाख्याद्दक्षि-णायनाद् प्राचीनास्त्रिंशद्घटिकाः पुण्याः । मकराख्यादुत्तरायणादूर्द्ध्वकालीना विंशतिघटिकाः पुण्याः ।वृहस्पतिरपि “अयने त्रिंशतिः पूर्वा मकरे विंशतिःपराः । वर्त्तमाने तुलामेषे नाड्यस्तूभयतो दश” इतिवचनात् । न चात्र त्रिंशद्घटिकावादिना सामान्यवच-नेन विरोधः शङ्कनीयः सामान्यवचनस्याभ्यनुज्ञापर-त्वात् विशेषवचनोक्तो घटिकासङ्कोच एव प्रशस्तः ।“यायाः सन्निहिता नाड्यस्तास्ताः पुण्यतमाः स्मृताः”इति देवलेनोक्तत्वात्केनापि निमित्तेन सन्निहितघटि-कास्वनुष्ठानासम्भवे त्रिंशद्वटिकाः परा अवधित्वेनानुज्ञा-यन्ते । षडशीतिषु ततोऽपि दीर्घमवधिमाह वृद्धबसिष्ठः“षडशीत्यामतीतायां षष्टिरुक्तास्तु नाडिकाः” इति ।विष्णुपद्यां प्रशस्तकालं स एवाह “पुण्यायां विष्णुपद्यांच प्राक् पश्चादपि षोडश” इति संक्रान्तीनां पूर्वो-त्तरौ पुण्यकालौ निर्णीतौ । ताश्च संक्रान्तयः कदा-चिदह्नि भवन्ति कदाचिद्रात्रौ भवन्ति तद्भेदादनु-ष्ठानभेदमाह वृद्धवसिष्ठः “अह्नि संक्रमणे पुण्यमहः कृ-त्स्नं प्रकीर्त्तितम् । रात्रौ संक्रमणे भानोर्दिनार्द्धंस्नान-दानयोः । अर्द्धरात्रादधस्तस्मिन् मध्याह्नस्योपरि क्रिया ।ऊर्द्ध्वं संक्रमणे चोर्द्ध्वमुदयात् प्रहरद्वयम् । पूर्णे चेद-र्द्धरात्रे तु यदा संक्रमते रविः । प्राहुर्दिनद्वयं पुण्यंमुक्त्वा मकरकर्कटौ” इति । अह्नि यदा संक्रान्तिर्भवतितदा कृत्स्नस्याह्नः पुच्यष्वम् । रात्रौ संक्रमणे पूर्वो-त्तरदिनार्द्धयोः पुण्यत्वं विदधता वचनेनार्थाद्रात्रौ स्ना-नदानादिकं प्रतिषिध्यते । एवं सत्युदयानन्तरभाविनिदक्षिणायने पूर्वभागे प्राशस्त्यं वाधित्वोत्तरभागेऽनुष्ठानंभवति । अस्तमयप्राचीनक्षणभाविन्युत्तरायणे चोत्त-रभागप्राशस्त्यं परित्यज्य पूर्वभागेऽनुष्ठातव्यम् । उत्तर-भागप्राशस्त्यं तु मध्याह्नादिसंक्रमणबिषयम् । तत्राहन्येव हेयोपादेवयो पूर्वोत्तरभागयोः सम्भवात्, दअनेनैवन्यायेन कर्कटेऽपि मध्याह्नभाविनि पूर्वभागप्राशस्त्यं भवतिअस्तमथप्राचीनभाविषु षडशीतिमुखेष्वप्युत्तरमागप्रा-शस्त्यं परित्यज्य मकरन्थायेन पूर्वमागप्राशस्त्यं विधा-तव्यम् । उदयानन्वरभाविषु वचनान्तराविरोधेनोश्चरभागएवानुष्ठानसम्भवात् तद्धिरुद्धं पूर्वभागप्राशस्त्यं न विधी-यते । उभयभानप्राशस्त्योपेतेषु विषुवद्विष्णुपदेषु म-ध्याह्वभाविषु पूर्वत्रोत्तरत्र वा स्वेच्छयानुष्ठातव्यम् ।उदयानन्तरभाविषु तेषु पूर्वभागप्राशस्त्यं वाध्यते अस्तमयप्राप्तषु तेषु उत्तरप्राशस्त्यं वाध्यते इति विवेकः ।एतद्वचनानुसारेण यस्य संक्रमणस्य यस्मिन् भागेऽनुष्ठानंतस्मिन्नेव भागे व्यवहिता नाद्ध्यः पुण्याः ईषत्सन्निहिताःपुण्यतराः अत्यन्तसन्निहिताः पुणतमा द्रष्टव्याः । यदारात्रौ भानोः संक्रमणं भवति तदा तस्या रात्रेः पूर्वस्यचोत्तरस्य वा दिनस्यार्द्धप्रहरद्वयं स्लानदानयोः पु-ण्यम् । कुत्रपूर्वदिनं कुत्र परदिनमिति विचित्सायां तदुँ-भयमर्द्धरात्रादिति वचनेन व्यवस्थाप्यते । अर्द्धं रात्रेःअर्द्धरात्रः, द्वितीयप्रहरस्य चरमघटिका तृतीयप्रहरस्यप्रथमथटिकेत्येवं घटिकाद्वययुक्तः कालस्तस्मादर्द्धरात्रा-दधः संक्रमणे सति पूर्द्धदिनमध्याह्नस्योपरितने प्रहरद्वयेक्रिया कार्या । अर्द्धरात्रादूर्द्ध्वं संक्रमणे सति उत्तरका-लीनादुदयादूर्द्ध्वं प्रहरद्वयं पुण्यं पूर्णेऽर्द्धरात्रे षटिकाद्वये संक्रान्तौ पूर्वोत्तरदिमद्वयं कृत्स्नं पुश्च्यम् । तदुक्तंभविष्योत्तरे “संक्रमस्तु विशीषे स्यात् षङ्यामाः पूर्व-पश्चिमाः । संक्रान्तिकालो विज्ञेयस्तत्र स्नानादिकं च-रेत्” इति । अत्वेयं व्यवस्था । अर्द्धरात्रे यदा षड-शीतिस्तदानीमेतद्वचमानुसारेण पूर्वोत्तरदिनद्वयस्य पुण्य-त्वात् यद्यप्यैच्छिको विकल्पः प्राप्नोति । तथाप्युत्तर-दिने षष्टिघटिकाप्रतिपादकपातिस्विकवचमानुग्रहलाभात्तत्रैवानुष्ठातव्यम् । विषुवतोविष्णु पदेषु च प्रातिस्विक-वचनं न नियामकम्, तस्य वचनस्य पूर्वोत्तरभागयोःसाम्येन प्राशस्त्यप्रतिपादकत्वात् । प्रकृतं वचनं पूर्वो-त्तरदिन साम्येन विधत्ते । तस्मात् पूर्वण्डिन्नुत्तरस्मिन् वास्तेच्छयानुष्ठानमिति विकल्प्यते । अयनयोऽस्तु प्रका-रान्तरं वक्ष्यते । अयनव्यतिरिक्तासु दशसु संक्रान्तिषुमध्यरात्रःदूर्द्ध्वं प्रवृत्तासु परेद्युरनुष्ठानमित्यत्रापि नास्तिसन्देहः । थडशीत्यान्तु प्रकृतवचनेन पूर्वेद्युरनुष्ठानंप्राप्तम् । पष्टिघटिकाप्राशस्त्यप्रतिपादकप्रातिस्विकवचनेनपरेद्युः प्राप्नोति । अतः सन्देहे सति पूर्वेद्युरमुष्ठानमिति निर्णयो द्रष्टव्यः । कुतः “विष्णुपद्यां धनु-र्मीननृयुक्कन्यासु वै तदा । पूर्वोत्तर्गतं रात्रौ भानोःसंक्रमणं भवेत् । पूर्वाह्णे पञ्च नाड्यस्तु पुण्याः प्रोक्तामनीषिभिः । अपराह्णे तु पञ्चैव श्रौते स्मार्त्ते चचर्मणि” इति स्मृतेः । यदा रात्रौ पूर्वभागभतं विष्णु-पदी षडशीतिसंक्रमर्ण भवेत् । तदा पूर्वेद्युरपराह्णेपञ्च नाड्यः पुण्याः उत्तरभागगते संक्रमणे परेद्युः पू-र्वाह्णे पञ्च नाड्य पुण्याः । न चैवं सति प्रहरद्ववपुण्य-त्वविरोघ इति वाच्यम् । पञ्चनाडिकावचनैषु पुण्या-धिक्यस्य विवक्षितत्वात् । अतः प्रहरद्वयवाक्यं पुण्य-मात्रामिप्रायम् । एतस्मिन्नेव विवये देवीपुराणे पुठ्यते“असंपूर्णेऽर्द्धरात्रे तु उदयेऽस्तमयेऽपि च । मानार्द्धंभास्करे पुण्यमपूर्णे शर्वरीदले । अर्द्धरात्रे त्वसपूर्णेदिवा पुण्यमनागतम् । सपूर्णे उभयोर्ज्ञेयमतिरिक्तेपरेऽहनि” इति । भास्करशब्देन सूर्ययुक्तं दिनमप-लक्ष्यते । यद्धा भास्करशब्दो न सूर्ये रूढः किन्तु तौ-गिकः भासं करोतीति व्युत्पत्तिसम्भवात् । तथा चसूर्य इव भास्करशब्दो दिनेऽपि मुख्यः तस्यापि भासंप्रत्यधिकरणकारकत्वेन कर्तृत्वात् । भास्करे दिवसे वि-द्यमानं प्रहरचतुष्टयं तस्यार्द्धं प्रहरद्वयम् आदित्यास्त-मयस्योपरितन आगामिसूर्य्योदयात् प्राचीनः कालोरात्रिः । उदयोपरि अस्तमयात् प्राचीनः कालो दिनर ।उदयास्तमयकालौ सन्धिरूपतया प्रोक्ताभ्यां रात्रिदिव-साभ्यां पृथगित्येके । रेस्यामात्रस्यापि सूर्यमण्डलांशस्यदृश्यमानतया दिवसान्तःपातिनावित्यपरे । सर्वथापि नरात्रौ तयोरन्तर्भावः । सा च रात्रिस्त्रेधा भिद्यते म-ध्यवर्त्तिघटिकाद्वयात्मक एको मागस्तस्मात् पूर्वोत्तक्षौ द्वौभागौ । तत्र पूर्वभागे संपूर्णेऽर्द्धरात्र इत्यनेन विवक्ष्यतेतस्मिन् यदा संक्रान्तिस्तदानीं सूर्य्यास्तमये प्रत्यासन्नंयत् पूर्वदिनस्योत्तरार्द्धं तत्पुण्यम् । अपूर्णे शर्वरीदलइत्यनेनार्द्धरात्रादनन्तरभावी रात्रिभागो विवक्षितः ।पूर्वोत्तरदलयोरेकैकस्यापि वटिकाया अर्द्धरात्रकाला-र्द्धस्य पृथक् कृतत्वादसंपूर्त्तिरवगन्तम्बा । तस्मिन् घटि-काऽन्यूने परभागे यदा संक्रान्विस्तदानीं भाविसूर्यो-दये प्रत्यासन्नं दिनार्द्धं पुण्यम् । अयमेवाथो द्वितीय-श्लोके प्रपञ्च्यते । घटिकान्यूनत्वेनासम्पूर्णार्द्धरात्रेपूर्वभागे यदा संक्रसणं भवति तदा यद्यपि दिवासंक्रम-णमनागतं तथापि तस्य दिवसस्य उत्तरार्द्धे पुण्यंयदा सम्पूर्णेऽद्धरात्रे घटिकाद्वयात्मके निशीथेसंक्रमणं मवेत्तदानीं पूर्वोत्तर्योर्दिनयोः पुण्यं ज्ञेयम् ।अतिरिक्ते परभागे संक्रान्तौ परेऽहनि पूर्वार्द्धं पु-ण्यम् । देवलोऽपि “आसन्नसंक्रम पुण्यं दिनार्द्धंस्नानदानयोः । रात्रौ संक्रमणे भानीर्विषुवत्ययने दिने”इति । अयमर्थः । रात्रौ भानोः संक्रमणं विषुवन्ना-मके जाते सति संक्रमणप्रत्यासन्नदिनार्द्धं पुण्यम्पूर्वरात्रसंक्रापखे पूर्वदिनखोत्तरार्द्धं पुण्यम् । अपररा-त्रसंक्रमणे परदिनख पूवर्द्धिमित्यवगन्तव्यम् । अयनेप्ययननामके भानोः संक्रमणे दिया जाते सति यथा-योनं तद्दिनार्द्धं तु पुण्यं द्रष्टव्यम् । कर्कटे पूर्वार्द्धंमकरे उत्तरार्द्धम् । एतच्च मध्यंदिनायगविषयम् ।उदयास्तमयप्रत्थासन्ने अयने पूर्वोत्तरभागप्राशस्त्यया-धया कृत्स्नदिवलपुण्यत्वनिर्णवः पूर्वमेवोक्तः । अयन-व्यतिरिक्तेषु दशसु संक्रमणेषु रात्रिगतेषु यो निर्णयस्तंसर्वं पुर्युदसितुं तद्वचःशेषः “मुक्त्वा मकरकर्कटायितिवर्णितः । “यायाः सन्निहिता नाड्यस्तास्ताः पुण्यतमाःस्मृताः” इत्युक्तेन सामान्ववणनेन रात्रिसंक्रमणेषु राघा-वेबानुष्ठानं प्रसक्तं तदपोह्य दशसु संक्रान्तिषु दिवानुष्ठानंविधाय मकरकर्कटयोस्तत्पर्युदासे सति पूर्वप्रसक्तं रा-त्रावनुष्ठानमेव पर्य्यवस्यति । एवं सति रात्रौ स्नान-मभ्युपगच्छतो याज्ञवल्क्यवचनस्यापि कश्चिद्विषयः सम्प-द्यते । तथा च याज्ञवल्क्यः “राहुदर्शनसंक्रान्तिवि-वाहात्ययवृद्धिषु । स्नानदानादिकं कार्य्यं निशि काम्यप्रतेषु च” इति । सुमन्तुरपि “रात्रौ स्नानं न कुर्वीतदानं चैव विशेषतः । नैमित्तिकं च कुर्वीत स्नानं दानंच रात्रिषु । यज्ञे विवाहे यात्रायां तथा पुस्तकवा-चने । दानान्येतानि शस्तानि रात्रौ देवालये तथा ।ग्रहणोद्वाहसंक्रान्तियात्रार्त्तिप्रसवेषु च । श्रवणे चेति-हासस्य रात्रौ दानं प्रशस्यते” इति । ननु यथोक्तपर्यु-दासानुगृहीतैः पुण्यतमत्ववादिदेवलयाज्ञवल्क्यसुमन्तुवक्षनैर्मकरकर्कटयोर्निश्यनुष्ठानप्रापणं शास्त्रान्तरेण विर-द्वम् । तथा च भविष्योत्तरे “मिथुने कर्कसंक्रान्तिर्यदिस्यादंशुमालिनः । प्रभाते वा निशीथे वा कुर्य्यादहनिपूर्वतः कार्मुकं तु परित्यज्य ऋषं (मकरम्) संक्रमतेरविः । प्रदोषे चार्द्धरात्रे वा स्नानं दानं परऽहनि”इति । वृद्धगार्ग्वोऽपि “यदास्तमयवेलायां मकरं यातिभास्करः । प्रदोषे चार्द्धरात्रे वा स्नानं दानं परेऽहनि”इति । “अर्द्धरात्रे तदूर्द्ध्वं वा संक्रान्तौ दक्षिणायने ।पूर्वसेव दिनं ग्राह्यं यावन्नोदयते रविः” इति । भवि-ष्योत्तरवृद्धगार्म्यवचनेषु रात्र्यनुष्ठानप्रतिषेषस्याप्रतीते-र्दिवसानुष्ठानप्रतिषेधकल्पने पर्युदासागुगृहीतवचनाना-मानर्थक्यं प्राप्नोति । तस्माच्छास्त्रद्वयेन विकल्पप्राप्तौतत्तद्देशप्रसिद्धशिष्टाचारेण व्यवस्था द्रष्टव्या” ।अयनसंक्रान्विशब्दे च ३४० पृ० रव्यादिग्रहाणां चलसं-कान्तेः पुण्यकालता दर्शिता ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
